________________
॥ ५३ ॥
****
प्रतिमां प्रपन्नवानासीत् । घातिकर्मणां छेदाच्च तस्य महामुनेः केवलज्ञाने समुत्पन्ने तन्महिमानं विधित्सवः सुरा - ऽसुरा अभिनन्दनजगन्नन्दनज्वलन जटिनस्त्रिजय्यर्क कीर्तिपुष्पकेतुविमलमत्यादयश्च समेत्य बलदेवमुनिं प्रदक्षिणीकृत्य यथास्थानमुपाविशन् । महाज्वालापातभीतोऽशनिघोषोऽपि तत्क्षणमचलं शरणं ययौ । महाज्वालाऽपि चाऽशनिघोषं मुक्त्वा न्यवर्त्तत । यतः शक्रकुलिशस्याऽपि केवलिपर्पदि प्रभावोऽपहीयते । ततः सा विद्याऽमिततेजस मुपेत्य तदशेषं वृत्तान्तं निवेदितवती ।
मयूरो मेघध्वनिमिव तं वृत्तान्तमाकर्ण्य सर्वेऽमिततेजः श्रीविजयादयो मुमुदिरे । ततश्चाऽस्याः पुर्याः सुतारां समादाय द्रुतमानयेरिति मारीचि समादिश्यात्युत्कण्ठितः ससैन्योऽमिततेजः श्रीविजयप्रभृतयो व्योमयानेन द्रुतं सीमाद्रिमुपाययुः । तत्र च प्रथम ऋषभनाथविम्वं वन्दित्वा तदन्वचलमुनिं वन्दित्वा च तदग्रे निषेदतुः । मारीचिरपि च चमरचञ्चापुरीं प्रविश्याशनिघोषमातुः पार्श्वमुपेत्य कृतोपवासां सुतारां दृष्ट्वाऽशनिघोषमातुः सर्वं निवेदितवान् । साऽशनिघोषमाता चाऽपि तां सुतारामादायऽचलस्वामिसभायामागत्य न्यासीकृतामिव श्रीविजयाऽमिततेजसोः समर्पयामास । बलदेवं केवलिनमचलं नत्वा च मुदिता यथास्थानं निषसाद । तदा चाऽशनिघोषोऽपि सामवाक्येन श्रीविजयाऽमिततेजस क्षमयामास । ततः शान्तवैरेषु तेष्वचलस्वामी शुद्धिदायिनीं देशनां विदधे ।
I
देशनान्ते चाऽशनिघोषोऽचलमुनिं वन्दित्वा कृताञ्जलिर्विज्ञपयामास - " मया सुतारा दुष्टेन मनसा नाऽपहृता, किन्तु पुरा चमरचश्चानगर्या भगवतो जयन्तस्य महामुनेरायतने गत्वा सप्तरात्रमुपोषितो भ्रामरीं विद्यामसाधयम् । ततः
Jain Education national
For Personal & Private Use Only
****
॥ ५३ ॥
Pahelibrary.org