SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ "श्री चक्क हिस्स कहा" 1148 11 प्रतिनिवृत्तो ज्योतिर्वने श्रीविजयान्तिके सुतारामद्राक्षम् । दृष्टमात्रायां च तस्यां मम कोऽप्यनिर्वचनीयः स्नेहः सम्मुदपद्यत । ततस्तां विना गन्तुमसमर्थोऽहं श्रीविजयाऽन्तिकस्थायास्तस्या अपहर्त्तुमशक्यत्वात्प्रतारिण्या विद्यया श्रीविजयं मोहयित्वा सुतारामपाहार्षम् । स्वजनन्याः समीपे च ताममुञ्चम् । सेयमनिन्दिता निष्कलङ्काऽस्ति । अस्यां मया किमयशोभनं वचोऽपि नोक्तम् । भगवन् ९, तदेतस्यां मम स्नेहकारणं समाख्याहि" । तच्छ्र ुत्वा च भगवानचलः सत्यभामाकपिलयोः श्रीषेणस्य शिखिनन्दिताऽभिनन्दितयोर्युगलिकादिभवसहितां कथामाख्यायाऽवोचत् - "आर्तध्यानी कपिलो मृत्वानेकोनिषु भ्रान्त्वा भूरत्नायामटव्यामैरावत्या नद्या रोधसि तपोधनस्य जटिल कौशिकस्य पत्न्यां पवनवेगाय धर्मिलो नाम दारक उत्पेदे । स च निजपितुर्दीक्षामादाय बालतपः समाचरन् विहायसा गच्छन्तं विमानस्थं विद्याधरं दृष्ट्वा "भवान्तरेऽमुष्य तपसः फलेनेदृग्भूयासमिति निदानं कृत्वा मृतश्चमरचञ्चाय पुर्यामिद्राशनेविद्याधरस्याऽऽसुर्या पत्न्यां एवं सुत उदभूः । ततः प्राग्भवसम्बन्धात्तव सुतारायां स्नेहोऽभवत् । पूर्वभवसंस्कारो हि जन्मशतान्यप्यनुयाति” । ततश्च सुताराऽमिततेजः श्रीविजयाऽशनिघोषाः प्राग्भवाऽऽकर्णनाद्विस्मिताः संवेगमीयुः । तथाऽमिततेजसा भव्योऽस्मि नवेत्येवं पृष्टो भगवानचलः पुनराह - "इतो नवमे भवेऽत्र भरते त्वं पञ्चमश्चक्रवर्त्ती भविष्यसि । तत्रैव च भवे शान्तिनाथ इति ख्यातः षोडशोऽर्हथ भविष्यसि । श्रीविजयश्चायं तत्र भवे तव पुत्रः प्रथमस्तव गणधरो भावी ” । ततः श्रीविजयाऽमिततेजसौ भगवन्तं प्रणम्य द्वादशविधं श्रावकवतं भेजतुः । ततोऽशनिघोषः पुनर्भगवन्तं प्रणम्य रचिताञ्जलिर्विज्ञापयामास - "भगवन् ! त्वन्मुखात्प्राग्भवं श्रुत्वेदानीमपि Jain Education International For Personal & Private Use Only "पश्चमः श्री शान्ति नाथ चक्रवर्ति चरितम् " ॥ ५४ ॥ www.jahelibrary.org
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy