SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ॥५५॥ EXXXXXXXXXXXXXXXXXXXXXXXX मन्मनः कम्पते । अप्राप्तजिनधर्मस्य मम भूयांसोऽतिदुःखदा भवा अतीताः। अधुनाऽपि मां रक्ष रक्ष । अतः परमेकोऽपि क्षणो यतिधर्मरहितस्य मे मा गादिति मामद्यैव दीक्षां देहि" । ततो युक्तमेतदिति प्रोच्याऽचलेनाऽनुगृहीतोऽमिततेजसं सप्रश्रयमुवाच-"भाविनश्चक्रिणोऽहतश्च साम्प्रतं महाकुलप्रसूतस्य ते प्रणिपातं कुर्वतो मेन मनागपि लज्जा । एतेऽश्वघोषादयो मम सुता राज्यादीनि च त्वदीयं विद्धि । नाऽन्यथा । एवमुक्त्वा ज्यायांत निजसुतमश्वघोषममिततेजसोऽके क्षिप्त्वाऽचलस्वामिसन्निधौ भूयोभिनरेन्द्रः सह दीक्षामग्रहीत् । श्रीविजयस्य माता स्वयम्प्रभा चापि तत्राऽऽगत्याऽचलस्वामिपादान्ते दीक्षामग्रहीत् । ततो बलभद्रं नस्वामिततेजः श्रीविजयाश्वघोषादयः स्वं स्वं स्थानं ययुः । अर्हत्पूजनादिकविधि विदधानौ च स्वे स्वे पुरेऽवतिष्ठमानौ श्रीविजयाऽमिततेजसौ कालं व्यतीयतुः। अथाऽन्यदा पौषधौकसि पौषधं गृहीत्वाऽमिततेजा विद्याधराणामाहतं धर्ममाचख्यौ । तदानीमेव च चारणमुनी तत्र चैत्ये जिनबिम्ब विवन्दिषु तत्र समागतवन्तौ । अमिततेजसा च दृष्ट्वा हृष्टेन वन्दितौ तौ त्रिः प्रदक्षिणापूर्व जिनेन्द्र वन्दित्वा तमूचतुः। संसारे प्राप्तमतिदुर्लभं मानुष्यकमविवेकेन मुधा न नेयम् । जैने धर्मे मनागपि प्रमादो न विधातव्यः । तद्विना नाऽन्यदुत्तरोत्तराऽभीष्टदम् ।" एवमनुशिष्य तो पुनरेव विहायसा जग्मतुः। श्रीविजयाऽमिततजसो च वर्षे वर्षेऽहंतां चैत्येषु महिमत्रयं चक्रतुः। तत्र नन्दीश्वरे देवाश्चैत्रे चाऽश्विने चाऽष्टाह्निकोत्सवौ कुर्वन्ति । अन्ये तु स्वस्वचैत्येष्वेव कुर्वन्ति । श्रीविजयाऽमिततेजसौ च चैत्राऽऽश्विनयोः स्वस्वचैत्येषु तृतीयं तु सीमाद्रयादिषु चक्रतुः। अथैकदामिततेजाः स्वहर्ये स्थितः प्रधानपुरुषैः परिवारितो मासक्षपणकं भिक्षार्थमागतं कश्चिन्मुनि ददर्श । KXEXXXXXXXXXXXXXXX XXXXXXXXX ॥५५॥ For Persona & Private Use Only Jan Education in www.jainelibrary.org
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy