________________
चक्कवाट्टिस्स
कहा"
"पञ्चमः श्रीशान्तिनाथ चक्रवर्तिचरितम्"
॥५६॥
ततोऽभ्युत्थाय वन्दित्वा तं शुधैरन्नाद्यैः प्रत्यलाभयत् । तदानीं च तत्र सत्पात्रदानप्रभावतो वसुधारादिपञ्चदिव्यानि जज्ञिरे । एवं धर्मनिरतयोः सुखमग्नयोः श्रीविजयाऽमिततेजसोभू यांसि वर्षसहस्राणि जग्मुः।
एकदा च नन्दनवने शाश्वताऽर्हतो वन्दितुं सम्भूय श्रीविजयाऽमिततेजसावीयतुः । तत्र च तान् वन्दित्वा कुतूहलाद् भ्रान्त्वा यावन्नन्दनमीक्षाञ्चक्रे, तावत्स्वर्णशिलास्थौ विपुलमतिमहामतिनामानौ चारणमुनी ददृशतुः । ततः श्राद्धौ तौ प्रदक्षिणीकृत्य वन्दित्वा च धर्मदेशनां शुश्रुवतुः । देहिनां मृत्युः सदा समीपवत्येव, ततः क्षणिकं जीवितं जानन्तोऽपि ते मोहाद् धर्मोद्यमं न कुर्वन्ति । मोहो हि महाशत्रुः, स जन्मतो मरणावधि स्वात्महितं धर्ममूलान्निकृन्तति । तस्मान्मोहं सर्वथा हित्वा धर्मः कार्यः। मानुषं जन्म हि पुनः कथश्चिदेव लभ्यम्" । तदाकण्यं च तौ श्रीविजयाऽमिततेजसौ स्वमायुरवशिष्टमपृच्छताम् । तौ मुनी च षड्विंशतिदिनानि शेषमायुराचख्यतुः । तद्वचः श्रुत्वा च निर्विण्णौ तौ नृपावचतुः-"अस्माभिररण्य पुष्पवत्सदा विफलं जीवितं क्षपितम्" । ततस्तौ चारणमुनी तौ प्रत्यबोधयताम्-"विषादेनाऽलम् , अद्यापि युवयोः प्रव्रज्या युज्यते । अन्तेऽपि गृहीता सा शुभगतिनिबन्धनम्" । ताभ्यां चैवं प्रबोधितौ तौ नृपौ निजस्थानमुपेत्य चैत्येषु परममष्टाह्निकोत्सवं चक्राते । दीनानाथादिभ्यश्च यथारुचि ददतुः। तथा स्वपुत्रयो राज्यं दत्त्वा तौ नृपावभिनन्दनजगन्नन्दनयोमुन्योः पुरतो व्रतं जगृहतुः। पादपोपगमनं नामाऽनशनं व्रतं च चक्रतुः। तदानीं च श्रीविजयः स्वपितरं सस्मार । स्वपितु ऋद्धिमधिकां स्वां च ऋद्धिं हीनां विचिन्तयंश्च "ताहगेवाऽहं भूयासमि"ति निदानमकरोत । विपद्य च तो श्रीविजयाऽमिततेजसौ प्राणते कल्पे सुस्थितावर्ते नन्दि
XXXXXXXXXXXXXXXXXXXX
X॥५६॥
Jain Educatiemational
For Personal & Private Use Only
wirajathelibrary.org