________________
॥ ५७॥
KXXXXXXXXXXXXXXXXXXXXXXXX
तावर्ते च विमाने मणिचूलदिव्यचूलनामानौ सुरौ भूत्वा सुखं तस्थतुः । तथा मनसा प्राप्तेष्टौ सुखमग्नौ विंशतिसागरोपममायुरतिवाहयतः स्म ॥१॥
द्वितीयः सर्गः अथ जम्बूद्वीपे प्राग्विदेहेषु रमणीयाख्ये विजये शीतानद्या दक्षिणे तटे शुभायां नगयों स्तिमितसागरो नाम नरपतिरासीत् । तस्य च शीलवत्यौ वसुन्धराऽनुद्धराख्ये द्वे पल्यावास्ताम् । तत्र नन्दिताव दमिततेजो जीवश्च्युत्वा वसुन्धराकुक्षाववातरत् । तदानीं च सुखसुप्ता सा स्वमुखे बलभद्रजन्मसूचकान् चतुरो महास्वप्नान् प्रविशतो दृष्टवती। ततः प्रबुद्धा राज्ञी राज्ञा "बलभद्रस्तव पुत्रो भावी"ति कथितस्वप्नफला मुदिता गर्भ धारयन्ती पूर्णे समये श्रीवत्साङ्क श्वेतवर्ण सुलक्षणं सूनुं सुषुवे । नृपश्च पुत्रजन्मनाऽत्यन्तं मुदितो द्वादशेऽह्नि तस्य सुतस्याऽपराजित इति नामाऽकरोत् । तथा श्रीविजयजीवः सुस्थितावर्ताच्च्युत्वाऽनुद्धरायाः कुक्षाववततार । तदानी च सा निशाशेषे सुखं शयाना स्वप्ने मुखे प्रविशतः सप्त महास्वप्नान दृष्टवती । सुप्तोत्थिता च राज्ञे तानिवेद्य, राज्ञा च विष्णुस्ते पुत्रो भावीति कथितं स्वप्नफलं निशम्य नितान्तं मुमुदे । गर्भ दधाना च सा पूर्णे समये श्यामवर्ण नयनोत्सवं पुत्रं सुषुवे । नृपश्च प्रमुदितस्तस्य समहोत्सवमनन्तवीर्य इति नाम विदधौ। तौ च श्वेतश्यामशरीरौ क्रमाद्वर्धमानौ गुरुसन्निधौ लीलयैव सर्वशास्त्राणि जगृहतुः । शैशवं क्रमादतीत्य च कामिनीजनस्पृहणीयं यौवनं प्रपेदाते।।
अन्यदा च तत्रोपवने नानातिशयसम्पन्नः स्वयम्प्रभो नाम मुनिराययौ । तदानीं च नृपः स्तिमितसागरो
Jain Educatio
n
al
For Personal & Private Use Only
Alibrary.org