________________
चक्कवट्टिस्स
*
कहा"
| "पञ्चमः श्रीशान्तिनाथचक्रवर्तीचरितम्"
*
*
॥५२॥
*
*
*
*
ततश्च द्वयोरपि सैन्ययो रणतूर्याण्यवाद्यन्त । द्वयोरपि सैन्ययोश्च परस्परच्छिन्नशिरो बाहुरथसारथ्यादि तुमुलं युद्धं प्रववृते । अस्त्रैः शास्त्रैर्बाहुभ्यां मायया च युद्धथमानयोर्द्वयोः सैन्ययोः किश्चिदूनो मासो व्यतीयाय । तत्र च श्रीविजयस्य सैन्यैः पवनै पादपा इवाऽशनिघोषकुमारा अमज्यन्त । ततोऽशनिघोषोऽपि महागदामुदम्याऽमिततेजसः पुत्रान् शीघ्रमेवाऽभाङक्षीत । ततः क्रद्धोऽरि तिष्ठ तिष्ठेति वदन श्रीविजयो युद्धाय स्वयमढौकिष्ट । द्वावपि च तौ श्रीविज याऽशनिघोषो गर्जन्तौ परस्परं तर्जन्तौ शस्त्रशक्ति विद्याशक्ति च दर्शयन्तौ लाघवादन्योन्यस्य प्रहारान् वञ्चयमानौ सुरासुरैर्वीक्ष्यमाणो युयुधाते । अवसरं प्राप्य च श्रीविजयो विक्रम्य खड्गेनाऽशनिघोष द्विधा व्यधात् । तस्य च द्वावपि खण्डौ द्वावशनिघोषो जातौ। तौ द्वावपि च लाघवाच्छीविजयेन खण्डितौ चत्वारोऽशनिघोषा जाताः। यथा यथा च श्रीविजयेनाऽशनिघोषाः खण्डितास्तथातथा ते द्विगुणा वधुः। एवं खण्डितैः सहस्रोऽशनिघोषैः पोतनेश्वरः परिवेष्टितः श्रान्तोऽभवत् । तावच्च सिद्धमहाज्वालाविद्योऽमिततेजाः समाययौ । आगच्छतश्च ततः सिंहान् मृगा इवाऽशनिघोषसैन्याःप्रणेशुः । अमिततेजाश्च द्विषो मा नश्यन्विति महाज्वाला विद्यां विन्ययुङ्क्त । ते च द्विषस्तया विद्यया मोहिताः शरणायाऽमिततेजसमेव समाययुः । ततोऽशनिघोषो गन्धगजं गज इवाऽमिततेजसमवलोक्य पलायिष्ट ।
ततो दूरादपि समानेतव्योऽयं दुरात्मेत्येवममिततेजसा समादिष्टा महाज्वालाविद्या सर्वविद्याऽन्तकारिणी पृष्ठतोऽशनिघोषस्याऽन्वधावत् । तस्याश्च शरणमनाप्नुवन् पलायमानोऽशनिघोषः शरणेच्छया दक्षिणभरताधं प्रविष्टवान् । तत्र च सीमाद्रौ श्रीऋषभप्रभोश्चैत्ये समवसरणस्थानस्थापितगजध्वजेऽचलो नाम बलदेवमुनिः शुक्लध्यान्येकरात्रिकी
EXXXXXXXXXXXXXXX XXXXXXXX
*
**
*
*
XXXXXXX
॥५२॥
D
helorary.org
Jain Educat
national
For Personal & Private Use Only