SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ॥५१॥ Ekkkkkkkk********* कुपितोऽमिततेजा उवाच-"तव भायों मे स्वसारं सुतारामपहृत्य स विद्याधराऽधमोऽशनिघोषः कियजीविष्यति?"। ततः सोऽककीर्तिसुतः श्रीविजयाय शस्त्रावरणों बन्धनी मोचनी च विद्यामदात् । तथा रश्मिवेगादीनां स्वपुत्राणां शतपञ्चशतीं त्रैपृष्टिना समं चमरचश्चायां पुर्यामशनिघोषतः सुतारामाहत्तु सद्यः प्राहिणोत् । त्रिपृष्ठतनयश्च श्रीविजयश्चमरचञ्चां प्राप्तवान् । तमशनिघोषमधिकविद्यं ज्ञात्वाऽमिततेजाः स्वपुत्रेण सहस्ररश्मिना साधे परविद्याच्छेदकरी महाज्वाला नाम विद्या साधयितुं हिमवन्तं गिरिं ययौ । तत्र च प्रतिमाजुषो जयन्तस्य मुनेर्धरणेन्द्रस्य च पादमूले मासिकभक्तेन स्थितः साप्तरात्रिकी प्रतिमा समुद्वहन विद्यासाधनकम हस्ररश्मिश्च तथास्थितं पितरं ररक्ष । एवं तयोस्तिष्ठतोः किश्चिदूनो मासोऽभूत् । इतश्च चमरचञ्चाया बहिः स्थितः श्रीविजयोऽशनिघोपाय दूतं प्राहिणोत् । स दूतश्च तत्र गत्वाऽशनिघोषमुवाच"सुतारामपहरता किमिदं लजाकरं कर्म त्वया कृतम् । तच्छ्रीविजयस्तव प्रतारणी विद्या कथमपि मोघीकृत्येहाऽऽयातो बलात्सुतारा नेष्यति, तत्स्वयमर्पय । तथैव त्वज्जीवितस्य कुशलम् । ततः क्रुद्धोऽशनिघोषो जगाद-"यथागतेनैव पथा स श्रीविजयः प्रयातु । सुतारां याचमानस्तु यमलोकमेव यास्यति । तदेतद् द्वयं विचार्य यातु तिष्ठतु वा । त्वमपि गत्वा तदग्रतो मद्वाचं समाख्याहि । तेनैवमुक्तश्च स इतस्तत्पुरावाहिनिर्गत्य त्रैपृष्ठये सर्व तद्वत्तान्तमकथयत् तच्छु त्वा चाऽत्यन्तं कुपितः श्रीविजयः स्वा सेना सजितामप्यसज्जयत् । अशनिघोषणाऽपि चाऽऽदिष्टास्तत्सुता अश्वघोषाद्याः सर्वाभिसारतश्चमर चश्चापुर्या द्वारि युद्धाय विनिर्ययुः। KXXX*****XXXXXXXXXXXXXX ॥५१॥ Jain Education International For Personal & Private Use Only Mahelibrary.org
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy