________________
॥१२५॥
१
चुलिन्या भणितम्, कथमेष मारणीयः १ कथं च लोकापवादो न भवति दीर्घनृपेणोक्तं साम्प्रतमस्य विवाहः क्रियते । पश्चात्सर्वमावयोश्चिन्तितं भविष्यति । ततस्ताभ्यां ब्रह्मदत्तस्य मित्रस्य कस्यचिद्राज्ञः कन्यायाः पाणिग्रहणं कारितम् । तयोः शयनार्थमनेकस्तम्भशतसन्निविष्टं गूढनिर्गमद्वारं जतुगृहं कारितम् । इतश्च धनुर्मन्त्रिणा दीर्घनृपायैवं विज्ञप्तम् । एष मम पुत्रो वरधनुरेतद्राज्यकार्यकरणसमर्थो वर्तते, अहं पुनः परलोकहितं करोमि । दीर्घनृपेणोक्तमिह स्थित एव त्वं दानादिधर्म कुरु । तस्यैतद्वचः प्रतिपद्य धनुर्मन्त्रिणा गङ्गातीरे महती प्रपा कारिता, तत्र पथिकपरिव्राजSarai यथेष्टदानं दातुं प्रवृत्तः । दानोपचारावर्जितैः परिव्राजिकादिभिर्द्विगव्यूतप्रमाणा सुरङ्गा जतुगृहं यावत्खानिता । जतुगृहान्तः सुरंगाद्वारि शिला दत्ता । इतश्च चूलिन्या महताडम्बरेण वधूसहितः कुमारस्तत्र प्रवेशितः । ततः समग्रः परिवारो विसर्जितः, वरधनुः कुमारपार्श्वे स्थितः । एवं स्वपित्रा गदितवृत्तान्तानुसारेण स सावधानो जाग्रन्नेव सुप्तः । ब्रह्मदत्तकुमारस्त्वेकशय्यायां तया वध्वा सह सुप्तः । गतं रात्रिप्रहरयुग्मम् । तदा तत्र चुलिन्या स्वहस्तेन अग्निकन्दुको न्यस्तः । तेन तद्गुह्य समन्ताद्दहमानं दृष्ट्वा विनिद्रो ब्रह्मदत्तः स्वमित्रं वरघनुं पप्रच्छ, किमेतदिति । वरधना सर्व चुलिनीस्वरूपं कथितं । पुनः कथितमियं च कन्या राजपुत्री न, किन्तु काप्यन्या, तस्मादस्य मोहो मनागपि न कार्यः । त्वमस्य शिलायां पादप्रहारं कुरु, येनावां निर्गच्छावः । वरधनूक्तं सर्वं ब्रह्मदत्तेन कृतम् । ततो द्वापि निर्गत्य सुरङ्गाद्वहिर्देशे समायातौ । तत्र च धनुर्मन्त्रिणा पूर्वमेव द्वौ तुरङ्गमौ पुरुषौ च मुक्तौ स्तः । ताभ्यां पुरुषायां तयोः सङ्केतः कथितः, तुरङ्गाधिरूढौ तौ द्वावपि कुमारौ ततश्चलितौ । एकेन दिवसेन पञ्चाशद्योजन मात्रं
Jain Educatinational
For Personal & Private Use Only
॥१२५॥
helibrary.org