SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ un चक्कवट्टिस्स - ___ कहा" निपत्य "पञ्चमः . श्रीशान्ति। नाथ चक्रवर्तिचरितम्।" ॥८ ॥ *XXXXXXXXXXXXXXXXXXXXXX sहं तस्य दीनाराणां लक्षं पणे दास्यामि । यद्यपरस्याऽपि तादृशः कुक्कुटोऽस्ति, तर्हि स मत्पणमुत्क्षिपतु"। तच्छु त्वा मनोरमोचे-'अहं पणं स्वीकरोमि । मत्कुक्कुटेन तवाऽयं कुक्कुट इहैव युध्यताम् । ततो राजैवस्त्विति प्रोक्ते मनोरमा चेटिकया वज्रतुण्डाख्यं निजं कुक्कुटमानाय्य युद्धाय मुमोच । तौ च द्वौ कुक्कुटौ चित्रयुद्धनिपुणौ परस्परं निपत्योत्पत्योसत्याऽपसत्य च प्रहारान् ददतुः प्रतीषतुश्च । प्रचण्डचञ्चु चरणप्रहारोद्भुतशोणितैस्तयोरङ्गानि ताम्राण्यपि ताम्राण्यभूवन् । लोकश्च द्वयोः कस्य जय इति निर्णेतुं न शशाक । ततो द्वयोयुध्यमानयोधनस्थोऽवदत्"अनयोः कोऽपि केनाऽपि न जेष्यते” । ततो मेघरथेन कारणं पृष्टः स ज्ञानत्रयधरो धनरथ उवाच-"अनयोः पूर्वभववृत्तं श्रूयताम् अस्मिन्नेव जम्बूद्वीपे ऐरावतक्षेत्रे रत्नपुरे पुरे धनो वसुदत्तश्च द्वौ मित्रे वणिजावभूताम् । तौ च धनाशया भाण्डैः शकटादिकं भृत्वा व्यवहाराय ग्रामादिषु भ्रमतुः । लोभाभिभूतौ क्रूरौ च तौ निष्करुणं पीडितानपि वृषभान् ताडनादिभिर्वलाद्वाहयन्तौ कूटमानादिभिर्जनान् वश्चयन्तौ एकद्रव्याऽभिलाषात्परस्परं युध्येते स्म । इत्थं युध्यमानौ प्रपन्नातध्यानौ गजायुर्वद्धा श्रीनन्दितीर्थे मृतौ पुरैरावते स्वर्णकूलाख्यनदीतटे गजौ जातौ ताम्रकलशकाञ्चनकलशाऽभिधौ प्राप्तयौवनौ प्रस्रवन्मदौ स्वैरं विजहतुः । एकदा च स्वस्त्रयूथेन पर्यटन्तौ गजावन्योन्यं ददृशतुः । ततश्च प्राग्जन्मरोषादुद्भूतरोषौ परस्परवधायाऽधावताम् । चिरं च दन्तादन्ति शुण्डाशुण्डि युद्धं विधाय जन्मान्तरेऽपि युद्धार्थमिव युगपन्मृतौ । अस्य जम्बूद्वीपस्यैव च भरतक्षेत्रेऽयोध्यायां पुरि नन्दिमित्रो नाम भूरिमहिषीधनोऽभूत् । XXXXXXXXXXXXXXXXXXXXXX ॥८ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy