SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ॥ १॥ तस्य महिषीयूथे च तौ महिषौ जातौ पीनाङ्गो यौवनं च प्रपेदाते । देवानन्दाकुक्षिभवौ शत्रुञ्जयनृपात्मजौ घनसेन| नन्दिषेणौ च तौ महिषावपश्यताम् । ताभ्यां च कुतूहलातावुभौ महिषावयुध्येताम् । चिरं युद्ध्वा च तो विपद्य तत्रैव पुर्या कालमहाकालाख्यौ दृढाङ्गी मेण्ठको जातौ । दैवादेकत्र मिलितौ प्राग्वैरादभियुध्य विपद्य समविक्रमावेतौ कुक्कुटौ जातौ । अतः प्राग्वदेतयोर्न कोऽप्यन्येन जेष्यते । किञ्चेमौ न केवलं पूर्ववैराविष्टौ, किन्तु विद्याधराऽधिष्ठितौ युध्येते । अस्यैव जम्बूद्वीपस्य भरते वैताढ्योत्तरश्रेण्या स्वर्णपुरे गरुडवेगो नाम नृपोऽभूत् । तस्य पत्नी धृतिषेणा च स्वोत्सङ्गस्थितचन्द्रसूर्यस्वप्नसूचितौ चन्द्रतिलकसूर्यतिलकाख्यौ सुतौ सुषुवे । तौ च प्रपन्नयौवनौ मेरु गतौ शाश्वतार्हता प्रतिमा ववन्दाते । कौतुकाच्च तत्र भ्रमन्तौ स्वर्णशिलास्थितं नन्दने सागरचन्द्राख्यं चारणमुनिमपश्यताम् । तौ च तं नमस्कृत्य देशनां श्रुत्वाऽन्ते ऊचतु:-"भगवन् ! आवयोः प्राक्तनान् भवानाख्याहि" । ततो मुनिरूचे-"धातकीखण्डद्वीपे पूर्वैरवते वर्षे वज्रपुरेऽभयघोषो नृपस्तत्पत्नी सुवर्णतिलका चाऽभृताम् । तयोश्च सुतौ विजयो वैजयन्तश्च कलाकलापकुशलौ यौवनं प्रपेदाते । तथा तत्रैरवते स्वर्णद्रमे पुरे शङ्खनामा महीपतिरासीत । तस्य पत्नी पृथिवीदेवी चोत्सङ्गस्थितपुष्पमाल्यस्वप्नसूचितां पृथ्वीसेनाख्यां सुतां सुषुवे । तां च प्राप्तयौवना स शङ्खोऽभयघोषाय ददौ । एकदा च वसन्ततौं वसन्तपुष्पाण्यादाय काऽपि चेटिकाऽभयघोषसन्निधौ गतवती । तां दृष्ट्वा च सुवर्णतिलका नृपमुवाच-'वसन्तेन षडतुकाभिधमुद्यानममण्ड्यत ! तदिदानी मधुलक्ष्मीमनुभवितुं सपरिवारास्तत्र गच्छामः" । ॥८१॥ अत्रान्तरे च पृथिवीसेना नृपं कोटिमून्यानि युक्तिपुष्पाणि करे दधानोपस्थिता । तानि वीक्ष्याऽऽदाय च प्रसन्नो नृप । KXXXXXXXXXXXXXXXXXX Jain Educar 19 For Persona & Private Use Only ARTorary.org
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy