________________
"श्री चक्कवट्टिस्स कहा"
॥११८॥
*********************
श्री एकादशम चक्रवर्ति जय चरितम्
राजगृहे नगरे वप्राया राज्याः कुक्षौ चतुर्दशस्वप्नसूचितो जयनामा पुत्रो जातः । क्रमेण संसाधितभरतश्चक्री जातः । राजश्रियमनुभवन् भोगेभ्यो विरक्तो जातः, एवं च चिन्तितवान् --
"सुचिरमपि उषित्वा स्यात् प्रियैविंप्रयोगः । सुचिरमपि चरित्वा नास्ति भोगेषु तृप्तिः ॥ सुचिरमपि सुपुष्टं याति नाशं शरीरं । सुचिरमपि विचिन्त्यो धर्म एकः सहायः ॥ १॥"
एवं संवेगमुपागतो निष्क्रान्तोऽनुक्रमेण सिद्धः । द्वादशधनुर्देहमानो वर्षसहस्रायुश्चैष आसीदिति जयचक्री
दृष्टान्तः ॥ १० ॥
द्वादशम ब्रह्मदत्त चक्रवर्ती चरितम्
तपः कुर्वता पुरुषेण निदानं न कार्यमित्याह इति । चित्र-संभूतसाध्वोः सम्बन्धमाह -- साकेतनगरे चन्द्रावतंसकस्य राज्ञः पुत्रो मुनिचन्द्रनामा बभूव । स च निवृत्तकाम - भोग-तृष्णः सागरचन्द्रस्य मुनेः समीपे प्रव्रजितः । गुरुभिः समं विहरन्नन्यदा एकस्मिन् ग्रामे प्रविष्टः । सार्थेन सह सर्वेऽपि साधवश्चलिताः, सार्थभ्रष्टोऽसौ मुनिचन्द्रोsटव्यां पतितः । तत्र चत्वारो गोपालदारकास्तं क्षुत्तृषाक्रान्तं पश्यन्ति, शुद्ध रशनादिभिः प्रतिजाग्रति । यतिना तेषां पुरो देशना कृता । ते गोपालदारकाः प्रतिबुद्धास्तदन्तिके प्रव्रज्यां गृहीतवन्तः । तैः सर्वैः शुद्धा दीक्षा पालिता ।
Jain Educatmational
For Personal & Private Use Only
******:*
"एकादशम
जय
|" द्वादशम्
ब्रह्मदत्त
चक्रवर्ति
चरितम् "
| ॥११८॥
wwelibrary.org