________________
"द्वादशम्
कहा"
ब्रह्मदत्त चक्रवतिचरितम्"
* करी मुक्तः । स पश्चाद्गन्तुं प्रवृत्तः। तत्पृष्टौ कुमारोऽपि चलितः। इतश्चाग्रे गच्छन् कुमारः पूर्वापरदिग्विभागे
परिभ्रमन् गिरिनदीतटसन्निविष्टं जीर्णभवनभित्तिमात्रोपलक्षितं जीर्ण नगरमेकं ददर्श । तन्मध्ये प्रविष्टश्चतुर्दिक्षु दृष्टिं चक्कवट्टिस्स
क्षिपन् पार्श्वपरिमुक्तखेटकखग विकटवंशकुडङ्ग ददर्श । कुमारेण तत्खङ्ग तथैव कौतुकाद्वाहितम् । एकप्रहारेण
निपतितं वंशकडङ्ग, वंशान्तरालस्थितं च निपतितं रुडमेकम् , स्फुरदोष्ठं मनोहराकारं शिरःकमलं दृष्ट्वा संभ्रान्तेन ॥१२८॥
कुमारेणैवं चिन्तितम् । हा ! धिगस्तु मे व्यवसितस्य, धिमे बाहुबलस्येति कुमारः स्वं निनिन्द । पश्चात्तापाक्रान्तेन तेन कुमारेण दृष्टं धूमपानलालसं कवन्धं समधिकमधृतिस्तस्य पुनर्जाता।
___ इतस्ततः पश्यता कुमारेण पुनः प्रवरमुद्यानं दृष्टम, तत्र भ्रमन्नशोकतरुपरिक्षिप्तमेकं सप्तभूमिकमावासं कमारो दृष्टवान् । तन्मध्ये प्रविष्टः कुमारः क्रमेण सप्तभूमिकामारूढः । तत्र विकसितकमलदलाक्षी प्रवरां महिलां पश्यति स्म । कुमारेण सा पृष्टा काऽसि त्वमिति १ ततः सा स्वसद्भायं कथयितुं प्रवृत्ता। महाभाग ! मम व्यतिकरो महान् वर्तते, ततस्त्वमेव प्रथमं स्ववृत्तान्तं वद । कस्त्वं ? कृतः समायातः१ एवं तया पृष्टे कमार आख्यत्-अहं पश्चालाधिपतिब्रह्मराजपुत्रो ब्रह्मदत्तोस्मीति । कमारोक्तिश्रवणान्तरं हर्षोत्फुल्लनयना सा अभ्युत्थाय तस्यैव चरणे निपत्य रोदितु प्रवृत्ता। ततः कारुण्यहृदयेन कमारेण सा पुनरेवं भणिता, मुखमुन्नतं कुरु मा रुदेति चाश्वासिता सा। ततः कुमारेण त्वं स्ववृत्तान्त वदेत्युक्ता सा आचख्यौ–कुमार ! अहं तव मातुलस्य पुष्पचूलस्य राज्ञः पुत्री, तवैव पित्रा दत्ता, विवाहदिवसं प्रतीक्ष्यमाणा निजगृहोद्यानदीर्घिकापुलिने क्रीडन्ती दुष्टविद्याधरेणात्रानीता। यावदहं स्वजनविर
※※※※※※※※※※※※※※※※※※※※※※
KXXXXXXXXXXXXXXXXXXXXXXXX
*||१२८॥
Jain Educa
l ernational
For Personal & Private Use Only
Minelibrary.org