SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ चकवट्टिस्सा "पञ्चमः श्रीशान्तिनाथ - चक्रवर्तिचरितम्" ॥४८॥ EXXXXXXXXXXXXXXXXXXXX गोलांश्चक्रे । स गोलः कृष्यमाणो यस्य करे यदा चटेत , स रक्षसे भक्ष्यभूतः पुररक्षायै प्रयाति । एकदा च तस्य ब्राह्मणपुत्रस्य गोलको निर्ययो। तदन्तश्च तन्नाम वाचितम् । तच्छुत्वा च तन्माता करुणस्वरं रुरोद । तद्गृहासन्नं चैकं महद्धृतगृहमासीत् । तद्भूतैश्च तस्याः कर्णदुःश्रवं क्रन्दितं शुश्रुवे । जातदयैश्च तैाह्मणी प्रोक्तम्-मा रोदीः, सुस्था भव, त्वत्पुत्रो रक्षसे यातु । राक्षसाऽग्रतोऽप्येनं त्वत्पुत्रमानेष्याभि । एष व्यवस्था नाऽतिक्रमिष्यति, ततो मरिष्यत्यपि न । ततो यावत्सा ता देवताः स्तौति, तावत्वरमाणा आरक्षास्तत्सुतमाकृष्य रक्षः समीपं निन्युः । राक्षसश्च यावद् द्विजपुत्रमादत्ते, तावद् भूतास्तमपहृत्य तन्मातुरन्तिकमानयन् । भीता ब्राह्मणी च भयानि पश्यन्ती रक्षाकृते तं पुत्रं तत्क्षणं गिरिगुहान्ताश्चिक्षेप स च द्विजपुत्रस्तत्रस्थेनाऽजगरेण जग्रसे। तद्वदन्यदपि भावि क्वचिदप्यन्यथा न भवति । तस्मादेष उपायो यत्सर्वैस्तप आचर्यताम् । यतो निकाचितानामपि कर्मणां तपसा क्षयो भवति । ततश्चतुर्थों मन्युवाच-अनेन पोतनप्रभोरुपरि विद्युत्पातः कथितो न श्रीविजयस्य । तत्सप्ताहं यावत्पुरेऽस्मिन् कोऽप्यन्यः पतिः क्रियताम् । ततश्च तत्राऽशनिः पतिष्यति । सर्वेषां च दुरितमनेन प्रकारेण गच्छतु । तच्छु त्वा हृष्टो नैमित्तिकस्तं मन्त्रिणं प्राशंसत् । मनिमित्तज्ञानतोऽपि तव मतिज्ञानमधिकम् । तदनर्थपरिहायामुपायमाशु कुरुध्वम् । राजाऽपि जिनपूजारतश्चैत्यस्थितस्तिष्ठतु । ततो मयाऽवोचि-को नरो राज्येऽभिषिच्यते ? । कथं निरागसः प्राणिनः प्राणनाशं चिन्तयामि ? सर्वस्य हि प्राणाः प्रिया दुस्त्यजाः । कथं च पश्यतो मे कोऽपि वराको विपत्स्यते । ततो मन्त्रिणोऽत्रुवन्-“देव । इदं कार्यद्वयं नोऽस्ति, यथा तवाऽनों यास्यति प्राणी च न विपत्स्यते तथाहि राज्ये कुबेरस्य XXXXXXXX ॥४८॥ Jan Education rematon For Persona & Private Use Only inelibrary.org
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy