SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ॥ ५६ ॥ मद्भुतं नाटकं न मया क्वचिद् दृष्टम् । त्वं च सर्वाश्चर्यभूतवस्तूनां भाजनमसि । यद्यत्र तन्नाटकं नाऽऽनयसि, तर्हि राज्यादिनाऽलमित्युदित्वा नारदस्ततो रभसा नभोमार्गेण प्रययौ । दमितारिश्च त्रिखण्डविजयैश्वर्यगर्वितोऽनन्तवीर्यसविधे दूतं प्राहिणोत् । स दूतश्च तत्र गत्वा नत्वा चाऽनन्तवीर्यं सहाग्रजमभाषिष्ट - " अत्र विजयार्थे यदद्भुतं वस्तु तत्सर्वं दमितारेः, तत्तस्मै तव प्रसिद्धे बर्वरी - किरात्यौ नाटककारिण्यौ चेटिके प्रेष्येताम् ” । तच्छुत्वाऽनन्तवीर्यो जगाद - " इतस्त्वं सम्प्रति गच्छ । किञ्चिद्विचार्य शीघ्र चेटिके प्रेषयिष्यामि । ततो मुदितो दूतोऽभ्येत्य सिद्ध प्रयोजनं दमितारये शशंस | sar गूढामर्षौ तौ बलविष्णू " स विद्यासिद्ध्यादिव लेनास्मानेवमाज्ञापयतीति पुरा मित्रेण विद्याधरेण दत्ता विद्याः साधयावः । ततश्च स क श्रावयोर !" इति विचिन्तयतो यावत् तावत्प्रज्ञप्त्याद्या विद्यास्तत्र समेत्य प्राञ्जलि जल्पु: - "या युवां सिसाधयिषू, ता एता विद्या वयं स्मः । पूर्वजन्मनि सिद्धा इदानीमप्युपस्थिताः । युवां समादिशतम् वयं युष्मद्वपुषि सङ्क्रमिष्यामः ।" एवमस्त्विति तयोर्वाचा ता विद्या नद्योऽन्ध्योरिव तदङ्गयोस्तदात्मत्वं प्रतिपेदिरे । ततस्तौ स्वभावतो बलिनौ विद्यासिद्धया चाऽसाधारणौ तासां विद्यानां गन्धमाल्यादिभिः पूर्जां चक्रतुः । अत्रान्तरे च दमितारिणा निर्दिष्टो दूतः पुनरुपेत्य साक्षेपमभाषिष्ट - "चेटिके प्रेषयिष्याव इत्युक्त्वा किमित्यपिन प्रेषिते ।” ततो गूढकोपो विष्णुः साम्नोवाच - "यदि दमितारिश्चेटीभ्यामेव तुष्यति, तदपरेऽह्नि ते गृहीत्वा गच्छ" । ततो दूतो विष्णुप्रदत्तावासे कृतकृत्यमिवात्मानं मन्यमानो ययौ । तौ च बलविष्णू सुमन्त्रिषु राज्य १ Jain Education International For Personal & Private Use Only ॥ ५६ www.janeffibrary.org
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy