SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ R "पञ्चमः चक्कवट्टिस्सा श्रीसनकुमार चक्रवर्तिचरितम् ॥६ ॥ XXXXXXXXX KXXXXXXX भारमारोप्य विद्यया स्वस्य चेटीद्वयरूपं विधायोपेत्या-"पराजिताऽनन्तवीर्याभ्यां दमितारये प्रहिते स्व" इति दूतमूचतुः। दूतश्च ताभ्यां चेटिकाभ्यां समं गत्वा दमितारिं व्यजिज्ञपत-"अत्र विजयार्धे कोऽपि भवतः शासनं न लवयति । अपराजिताऽनन्तवीर्याभ्यां सविनयमिमे चेटिके प्राभृते प्रेषिते स्तः। ततस्ते चेटिके दृष्टा दमितारि र्नाटिकाभिनयायाऽऽदिक्षत् । ताभ्याश्चाऽदृष्टपूर्वमभिनीतं नाटकं दृष्ट्वा चेटीद्वयं संसाररत्नभूतममन्यत । स्वपुत्री कनकश्रियं च नाटकशिक्षायै तयोर्मायाचेटयोः समर्पितवान् । ___तां शिरीषसुकुमाराङ्गी प्राप्तयौवना कुमारी दृष्टा ते कपटचेट्यौ मधुरालापपूर्वकं साभिनयं तन्नाटकं भूयो भूयो दर्शयित्वा शिक्षयामासतुः । तथा नाटकस्य मध्ये मध्ये रूपादिभिगुणैरनन्तवीर्य कामं वर्णयामासतुः। ततः कनकश्रीरपृच्छत्-"चेटिके ! कोऽयं पुरुषोत्तमो यो युवाभ्यां क्षणे क्षणे गीयते " । ततो मायाचेव्यपराजितः स्मित्वाऽब्रवीत्-"शुभानने ! शुभायां महापुर्या स्तिमितसागरनृपतनयो ज्येष्ठोऽपराजितः कनिष्ठोऽनन्तवीर्यः। स कियद्वर्ण्यते ?, जगति तत्तल्यो नाऽपरः" । तदाकण्य कनकश्रीः पुरतः स्थितं दृष्ट्वेवोत्कण्ठावती जाता। ततस्तां चिन्तितां विलोक्याऽपराजितः पुनरूचे-"मुग्धे ! अनन्तवीर्य मन्मुखाच्छु त्वा किं ताम्यसि ?, किं तं त्वं दिदृक्षसे ?" । ततः कनकश्रीः सगद्गदमुवाच-"स कथं मया दृश्यः?" । ततो ज्येष्ठा चेट्युवाच-यदि तं दिदृक्षसे, अलं विषादेन । तमद्य दर्शयामि तव । विद्याशक्त्या साऽपराजितमनन्तवीर्यमत्राऽऽनयामि"। ततो हृष्टा कनकश्रीरुवाच "एवं यदभिभाषसे, मन्ये, मे देवमनुकूलम् । किन्वधुनैवाऽऽत्मनो वाचमनुतिष्ठ' । ततस्तौ तुष्टावमराविव स्वं स्वं रूपमाविश्वक्रतुः। KXXXXXXXXXXXXXXX**:* ॥६०॥ Jain Educat national For Personal & Private Use Only DAMAlibrary.org
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy