SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ॥ ६१ ॥ तत्राऽपराजित उवाच - भद्रे ! मया यः कीर्तितः, स मद्भ्राताऽनन्तवीर्यस्तथाऽस्ति न वा १, मया तु स्तोकमेवाऽऽख्यातः । अस्य रूपादिवैभवं साम्प्रतं दृग्गोचरीकुरु" । ततो युगपद्विस्मयावेगादिभावमापन्नाऽपराजितस्य ज्येष्ठमानिनी सोत्तरेण नीरङ्गीं विदधे । अनन्तवीर्योऽपि च स्मरोदयाद्रोमाञ्चितो जातः । ततः सहजमानमुत्सृज्य स्वयं दूतीत्वमालम्ब्य कनकश्रीरनन्तवीर्यमवदत् -" त्वं मे नाट्याचार्य:, तथा पतिरपि त्वमेव । यदि मां कामान्न पासि, तर्हि ते मद्धत्या स्यात् । पुरा स्वया श्रवणमात्रेण मम हृदयं गृहीतम् । अधुना पाणिग्रहणेन मामनुगृहाण " । तदाऽनन्तवीर्योऽब्रवीत् - "मिच्छसि तह तिष्ठ, शुभां नगरों गच्छामः” । तच्छ्र ुत्वा कनकश्रीः पुनरवोचत् - " त्वं मम प्राणेश्वरः, किन्तु मम पिता विद्याशक्या दुर्मदो दुष्टश्च । स महानर्थं करिष्यति । यतो भवन्तौ बलिनावपि fararaaraat " ततोऽनन्तवीर्यः स्मित्वोचे - " मा भैषीः, अपराजितेन युद्धे तव पिता न समर्थः । अन्यांश्च पृष्ठतः समायातान् युयुत्सून हं हनिष्यामि, निःशङ्कमेतत् । ततो विश्रब्धा कनकश्रीरनन्तवीर्येण सह प्रतस्थे । अनन्तवीर्यश्वोद्वाहुः पौरान राजपुरुषादश्च सर्वान् सम्बोधयन् मेघघोषगभीरया गिरोवाच - " असावहमनन्तवीर्यः सापराजितो दमितारेः कन्यां स्ववेश्म नयामि । चौरिकयाऽपहृतेत्यपवादो न दातव्यः । " एवमुद्घोषणां कृत्वा साऽपराजितः सवैक्रियेण विमानेन विहायसा चचाल । तबछु त्वा च दमितारिरत्यन्तं क्रुद्धो निजान् भटानादिशत् -" सभ्रातरम' हत्वाऽथषा द्रुतं धृत्वा तनयां समानयध्वम् ।" तेनैवमुक्ताश्च भटा उद्यतशस्त्रा अधावन्त । तदा चाऽपराजिताऽनन्तवीर्ययोहलशाङ्गदिकानि दिव्यरत्नानि जज्ञिरे । तैश्व Jain Education International For Personal & Private Use Only ******* ॥ ६१ ॥ www.jathelibrary.org
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy