SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ॥३३॥ KXXXXXXXXXXXXX नम इत्युक्त्वा रत्नसिंहासने प्राङ्मुख उपाविशत् । सुरादयश्चाऽपि यथाद्वारं प्रविश्य यथास्थानं यथाविधि निविविशिरे । चक्रायुधोऽपि च तज्ज्ञात्वा सद्यः समेत्य प्रभुं प्रदक्षिणापूर्वकं प्रणम्याऽनुशक्रमुपविवेश । ततः सचक्रायुधेन शक्रेण स्तुतः प्रभुः श्रीशान्तिनाथो देशनामारेभे । तथाहि-"अनेकदुःखसन्तानहेतुरयं संसारश्चतुर्गत्यात्मकः । गृहस्य स्तम्भा इव चत्वारः क्रोधमानमायालोमाः कषायास्तस्याऽऽधाराः। तस्मात्क्षीणेषु कषायेषु संसारश्छिन्नमूलो महीरुह इव स्वयं क्षीयते । कषायजयश्च नेन्द्रियजयं विना । असाधितैरिन्द्रियैर्हि हयैरिवाऽपथे जन्तुनरके पात्यते । इन्द्रियर्जित एव जन्तुः कषायैरभिभूयते । अजितानि चेन्द्रियाणि कुलघाताय पाताय बन्धाय वधाय च जन्तूनां जायन्ते । पण्डिता अपि हीन्द्रियवशा विडम्बना प्राप्नुवन्ति । इन्द्रियाणामतोऽधिकं किं लञ्जाकरं यद्वन्धावपि बाहुबलिनि भरतोऽस्त्रममुश्चत् । तत्र बाहुबलिनो जयो भरतस्य पराजयश्च जिताजितानामिन्द्रियाणामेव प्रभावः । एष च दुरन्तानामिन्द्रियाणां महिमा, यच्चरमेऽपि भवे स्थिता जन्तवः शस्त्राशस्त्रि युध्यन्ते । शान्तमोहाः पूर्वविदोऽपीन्द्रियैर्दैण्ड्यन्ते । देवादयश्चाऽपीन्द्रियवशास्तपस्विनश्च जुगुप्सितानि कर्माणि कुर्वन्ति । इन्द्रियवशा ह्यस्वाद्यमपि खादन्त्यपेयमपि पिन्वत्यगम्यां चाऽपि गच्छन्ति । तथेन्द्रियहताः कुलशीलवर्जिता वेश्यानामपि दास्यानि कुर्वते । इन्द्रियाणामेव स प्रभावो यनराः परद्रव्ये परस्त्रीषु च प्रवर्तन्ते । इन्द्रियवशाच्च पाण्यादीनां छेदान् मरणं च जनाः प्राप्नुवन्ति । एक वीतरागं त्यक्त्वाऽऽदेवेन्द्रादाकीटाच्च सर्वे प्राणिन इन्द्रियैर्जिताः । करिणीस्पर्शसुखलुब्धः करी तत्क्षणादालानबन्धनक्लेशमामोति । अगाधजलस्थश्च मीन आमिषं गिलन IXXXXXXXXXXXXXXXXXXXXXXX 18३॥ Jain Educa la derational For Personal & Private Use Only Sadhinelibrary.org
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy