________________
॥ २७॥
चतुर्थ श्रीसनत्कुमारचक्रवर्तिचरितम् । अथेह भारते काश्चनपुरे नगरे विक्रमयशा नाम प्रवरविक्रमो नृप आसीत् । तस्य चाऽन्तःपुरस्त्रीणां पञ्चशतान्यासन् । तदानीं तस्मिन्नेव पुरे सम्पदा निधानमिव महर्द्धिको नागदत्तो नाम सार्थवाह आसीत् । तस्य च रूपसौभाग्यलावण्यवती विष्णुश्रीनाम्नी भार्याऽऽसीत् । सा चैकदा काकतालीयन्यायेन कथमपि विक्रमयशो नृपदृष्टिगोचरा जाता । तां प्रेक्ष्य च कामवशो लुप्तविवेकः स नृपोऽचिन्तयत्-"अदृष्टपूर्वमस्या सर्वाङ्गसौन्दर्यम् । एतामपहृत्य निजान्तःपुरं नेष्यामि ।" एवं विचिन्त्य स नपस्तां गृहीत्वाऽन्तःपुरमुपनीय सदा स्मरलीलाभी रमयामास । सार्थवाहो नागदत्तश्च तद्वियोगेन विधुरो दुःखेन कालं गमयामास । विष्णुश्रिया च रममाणे तस्मिन् नृपतौ क्रुद्धाः शुद्धान्तयोषित ईयया कार्मणं चक्रः । तेन च क्षणे क्षणे क्षीयमाणा सा गतजीविता जाता । नृपोऽपि तस्या मृत्युना जीवन्मत इव स्थितो नागदत्त इव प्रलापी विलापी चाऽभवत् । स मतामपि विष्णुश्रियं 'प्रिया ममैषा प्रणयतूष्णीके ति सततं वदन्ननले क्षेप्तुं नाऽदत्त । ततो मन्त्रिणो मन्त्रयित्वा नपं कथमपि वश्चयित्वा विष्णुश्रियं नीत्वाऽरण्ये चिक्षिपुः। नृपश्च तस्या वियोगेनोन्मत्त इव प्रलपन तेषु स्थानेषु बभ्राम । त्यक्तानपानवृत्ते राज्ञश्च व्यति गतवति सचिवा नृपमरणाऽऽशकिनस्तस्या वपुरदर्शयन् । गलितमदर्शनीयं पूतिगन्धि च तस्या विष्णुश्रियो वपुरवलोक्य विरक्तो नृपो विक्रमयशाश्चिन्तयामास-'अहो ! असारे संसारे किमपि न सारम् । धिक् , सारबुद्धया कियच्चिरमेतस्यां मोहिताः स्म । परमार्थवित्कश्चिदपि नारीभिर्न हियते । स्त्रियो द्वन्तर्विविधमल दूषिता बही रम्याश्चर्मप्रसेविका तुल्याः । यदि हि स्त्रियो वपुषो
XXXX*****
॥२७॥
Jain Education
Imbrary.org
For Personal & Private Use Only
Latonal