________________
"श्री
चक्कवट्टिस्स
XXXXXXXXX
"प्रथमः श्रीभरतचक्रवर्तीचरितम्"
कहा"
॥१८॥
XXXXXXXXXXXXXXXXX
चक्रवर्तिनाम् किश्चित् ऋद्धिस्वरूपं लिख्यते चतुरशीतिर्लक्षाणि गजाः, तावन्त एव रथाः. तावन्त एवाश्वाः, षण्णवतिकोटयः पदातीनां, द्वात्रिंशत्सहस्रसंख्या देशाः, द्वात्रिंशत्सहस्रसंख्या मुकुटधरा राजानो यस्य सेवकाः, अष्टचत्वारिंशत्सहस्राणि पत्तनानां, द्विसप्ततिसहस्राणि नगराणि, षण्णवतिकोटयो ग्रामाः, चतुर्दश रत्नानि, नव निधानानि, षष्टिसहस्रसंख्या भटा यस्याग्रे वर्णावलीकथकाः, षष्टिसहस्रसंख्या पण्डिताः, दशकोटिसंख्या ध्वजधारकाः, पंचलक्षसंख्या दीपिकाधारका, विंशतिसहस्रसंख्याः सुवर्णादिधात्वाकराः, पंचविंशतिसहस्रसंख्या देवा यस्य सेवकाः, अष्टादशकोटयोऽश्ववारा यस्यानुचलन्ति. एतादृशी ऋद्धिर्येन प्राप्ता, तथापि स मनसि विरक्त एवास्ते. अथ स भरतनामा चक्री बहुषु पूर्वलक्षेषु गतेषु एकस्मिन् दिने शृगारशालायां निजतनुप्रमाणादर्शमग्रे निधाय स्वकीयं रूपं विलोकयति. प्रत्यवयवसुदरतां विलोकयन् एकामंगुलीमंगुलीयकरहितमतीवनिःश्रीकां दृष्टा मनसि दध्यौ, अहो असारता देहस्य ! परपुद्गलैरेव शरीरं शोभते, न तु स्वकीयपुद्गलैः, किं कृतं मया एतदसारदेहनिमित्तं ! बहव आरंभाः कृताः, अस्मिन्नसारे । संसारे सर्वमप्यनित्यं. कोऽपि कस्यापि नास्ति. धन्या मदनुजायै तडिल्लताचंचलं राज्यसुखं त्यक्त्वा संयम मेजुः, अहं तु अधन्यो यदनित्ये सांसारिके सुखे नित्यबुद्ध्यामोहितोऽस्मि. धिगिमं देहं ! धिगिमान विषयान् भोगिभोगोपमान् ! हे आत्मन् ! त्वमेक एव संसारे, तवान्यः कोऽपि नास्तीति ध्यायन् परमपदाध्यारोहणभिःश्रेणीकल्पां क्षपकश्रेणिमारोह, घनघातिक्षयं विधायोज्ज्वलं केवलं प्राप, तस्मिन्नवमरे शासनदेव्या समेत्य वेषोऽर्पितः, साधुवेषं गृहीत्वा केवलित्वेन भूमौ विजहार, क्रमेण मोक्षसुखं प्रापेत्यत भरतचक्रिदृष्टांतः ।
KXXXXXXXX
॥१८॥
I
Jain Educ
nelibrary.org
For Persona & Private Use Only
a
tors