________________
॥१९॥
द्वितीय चक्रि श्री सगर चरितम् अयोध्यायां नगर्यामिक्ष्वाकुकुलोद्भवो जितशत्रनपोऽस्ति, तस्य भार्या विजयानाम्न्यस्ति । सुमित्रनामा जितशत्रुसहोदरो युवराजो वर्तते, तस्य यशोमतीनाम्नी भार्यास्ति । जितशत्रुराज्या विजयानाम्न्या चतुर्दशमहास्वप्नसूचितः पुत्रः प्रसूतः, तस्य नामाऽजित इति दत्तम् , स च द्वितीयस्तीर्थङ्कर इति । सुमित्रयुवराजपल्या यशोमत्या सगरनामा द्वितीयश्चक्रवर्ती प्रसूतः। तौ द्वावपि यौवनं प्राप्तौ, पितृभ्यां कन्याः परिणायिताः। कियता कालेन जितशत्रुराज्ञा निजे राज्ये जितकुमारः स्थापितः, सगरश्च यौवराज्ये स्थापितः । सहोदरसुमित्रसहितेन जितशत्रुनृपेण दीक्षा गृहीता । अजितराज्ञा च कियत्कालं राज्यं परिपाल्य तीर्थप्रवर्तनसमये स्वराज्ये सगरं स्थापयित्वा दीक्षा गृहीता । सगरस्तूत्पन्नचतुदेशरत्नः साधिकषट् खण्डभरतक्षेत्रो राज्यं पालयति । तस्य पुत्राः षष्टिसहस्रसङ्ख्याका जाताः, सर्वेषां तेषां मध्ये ज्येष्ठो जब कुमारोव तते । अन्यदा जब कुमारेण कथश्चित्सगरः सन्तोषितः । स उवाच, जह्न कुमार! यत्तभ्यं रोचते तन्मार्गय? जब रुवाच-तात ! ममास्त्ययमभिलाषः । यत्तातानुज्ञातोऽहं चतुर्दशरत्नसहितोऽखिलभ्रातृपरिवृतः पृथ्वी परिभ्रमामि । सगरचक्रिणा तत्प्रतिपन्नम् । प्रशस्ते मुहूर्ते सगरचक्रिणः समीपात्स निर्गतः, सबलवाहनोऽनेकजनपदेषु भ्रमन प्राप्तोऽष्टापदपर्वते । सैन्यमधस्तानिवेश्य स्वयमष्टापदपर्वतमारूढः दृष्टवांस्तत्र भरतनरेन्द्रकारितं मणिकनकमयं चतुर्विशतिजिनप्रतिमाधिष्ठितं स्तूपशतसङ्गतं जिनायतनम् । तत्र जिनप्रतिमा अभिवन्ध जब कुमारेण मन्त्रिणः पृष्टम् , केन सुकृतवतेदमतीवरमणीयं जिनभवनं कारितम् ? मन्त्रिणा कथितं भवत्पूर्वजेन श्रीभरतचक्रिणेति श्रुत्वा जब कुमारोऽवदत्
KEXXXXXXXXXXXXXXXXXXXXX**
॥१४
wwwrjaimelibrary.org
For Personal & Private Use Only
Jain Education international