SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ॥१४॥ *****XXXXXXXXXXXXXXXXXXX रुत्वेन मया युष्माकंन निवेदितम् , रथस्त्वग्रे चरितः। अहं तु शनैः शनैः पतितवृक्षान्तराले चलन महता कष्टेन तस्मिन् ग्रामे प्राप्तो यत्र यूयं स्थिताः। तेन ग्रामाधिपतिना सत्कृतः । युष्माकं प्रवृत्तिं श्रुत्वाहमद्य प्रगुणीभूतो भोजनप्रस्तावे समागतः । यूयमद्य मद्भाग्यान्मिलिताः । अथ तयोस्तत्राऽवियुक्तयोः सहर्ष दिवसा यान्ति । अन्यदा ताभ्यां परस्परमेवं विचारितम् । यथावाम्यां कियत्कालं मुक्तपुरुषाकाराम्यां स्थातव्यम् ? एवं च चिन्तयतोस्तयोगतः कियान् कालः। अन्यदा तत्र समायातो मधुमासः, मदनमहोत्सवे जायमाने सबैलोको नगरादहिः क्रीडितुमायातः । वरधनु-कुमारावपि कौतुकेन नगरादहिगतौ निर्भरक्रीडारसनिमग्ने लोकेऽतर्कित एव पातितर्मिण्ठो निरंकुशो राज्ञो हस्ती तत्रायातः, समुच्छलितकोलाहलो भग्नक्रीडारसो नष्टः सन्नातामन्रीनिकरः । एका च बालिका समुन्नतपयोधरा नश्यन्ती तस्य हस्तिनो दृष्टौ पतिता, सा शरणं मार्गयन्ती इतस्ततः पश्यति, तस्याः परिजनाः पूत्कुर्वन्ति । भयभ्रान्तायास्तस्याः पुरो भूत्वा कुमारेण स करी हक्कितः, एषा च मोचिता । सोऽपि करी तो मुक्त्वा रोषपशविस्तारितलोचनः प्रसारितशुण्डादण्डः शीघ्र कुमाराभिमुखं धावितः, कुमारेणाप्युत्तरीयवस्त्रं गजाभिमुखं प्रक्षिप्तम् । गजेन तद्वस्त्रं शुण्डया गृहीत्वा गगने प्रक्षिप्तम् । गगनाच्च पुनर्भूमौ निपतितम् , तद्ग्रहणाय यावत्करी पुनर्भूम्यभिमुखं परिणमति, तावदुत्प्लुत्य कुमारस्तत्स्कन्धमारूढः, स्वकरतलाभ्यां तत्कुम्भस्थलमास्फालितवान् । मधुरवचनैश्च संतोषितः सन् करी स्ववशं नीतः। समुच्छलितः साधुकारः, जयति कुमार इति पठितं बन्दिजनैः। कुमारेण स करी आलानस्तम्भसमीपं नीतो बद्धश्च । नरपतिस्तमनन्यसदृशं दृष्ट्वा परमं विस्मयं प्राप्तः स्वमन्त्रिणं पप्रच्छ । क एषः १ ततः कुमारस्वरूपाभिशेन मन्त्रिणोक्तम् । **************XXXXXXXXX XXXXXXX * ॥१४॥ Jain Educa t ional For Personal & Private Use Only w rbelibrary.org
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy