________________
"श्री चक्क हिस्स
- कहा "
॥१४२॥
***************
एष ब्रह्मराज्ञः पुत्रो ब्रह्मदत्तकुमार इति । ततस्तुष्टेन राज्ञा नीतः कुमारः स्वभुवनम् । सत्कृतश्च स्नान-मज्जन- भोजनादिभिः । ततः कुमारस्याष्टौ स्वपुत्र्यो दत्ताः । महोत्सवपूर्वकं तासां पाणिग्रहणं कुमारेण कृतम् । तत्र कियद्दिनानि वरधनुकुमारौ सुखेन स्थितौ । अन्यदा एका स्त्री कुमारसमीपमागत्य भणितुं प्रवृत्ता यथा - कुमार ! अस्ति किश्चिद्वक्तव्यं तव, कुमारेणोक्तं वद १ सा उवाच - अस्यामेव नगर्या वैश्रमणो नामा सार्थवाहः, तस्य पुत्री श्रीमत्यस्ति, सा मया बालभावादारभ्य पालिता, या त्वया तदानीं हस्तिसम्भ्रमाद्रक्षिता । हस्तिसम्भ्रमोद्धरिता सा तदानीं जीवितदायकं af स्नेहेन विलोकितवती साम्प्रतं त्वदेकचित्ता त्वद्रूप लावण्य-कलाकौशलमोहिता त्वामेव स्मरन्ती परिजनेन कथमपि स्वमन्दिरं नीता । तत्रापि सा न मज्जन- भोजनादिदेहस्थिर्ति करोति । तदानीं मया तस्या उक्तम् - कथं स्वमकाण्डे ईदृशी जाता ? यावन्ममापि प्रतिवचनं न ददासि हसित्वा सा एवमुवाच । हे अम्ब : भवत्याः किम१ कथनीयम् ? परं लज्जया किञ्चिद्वक्तुं न शक्नोमि । पुनर्मया साग्रहं पृष्टा सोवाच - - येनाहं हस्ति सम्भ्रमाद्र क्षिता, तेन समं यदि मम पाणिग्रहणं न स्यात्, तदा मेऽवश्यं मरणम् । एवमुक्त्वा तयाहं तव समीपे प्रेषिता, अङ्गीकुरुतां बालिकाम् । कुमारेण तद्वचोऽङ्गीकृतम् । प्रशस्तदिवसे तस्याः पाणिग्रहणं कुमारेण कृतम् । वरधनुना तु सुबुद्धिनामामात्यपुत्र्या नन्दननाम्न्याः पाणिग्रहणं कृतम् । एवं च द्वयोरपि विषयसुखमनुभवतोस्तयोर्गताः कियन्तो वासराः, तयोः सर्वत्र प्रसिद्धिर्जाता ।
तात्रन्यदा गतौ वाराणस्याम्, ब्रह्मदत्तं वहिः स्थापयित्वा वरधनुर्नगरस्वामिकटकसमीपं गतः । एष हर्षितः सबल
Jain Educaernational
For Personal & Private Use Only
" द्वादशम
ब्रह्मदत्त
चक्रवर्तिचरितम् "
॥१४२॥
nelibrary.org