________________
"श्री कट्टिस कहा "
॥ ११२ ॥
******
त्वमेवं मामपहरसि ? तया भणितं कुमार ! शृणु । वैताढये सुरोदयनाम नगरमस्ति । तत्रेन्द्रधनुर्नाम विद्याधराधिपतिरस्ति । तस्य भार्या श्रीकान्ता वर्तते तस्याः पुत्री जयचन्द्रानाम्नी वर्तते । सा च पुरुषद्वेषिणी नेच्छति कथमपि चरम् । ततो नरपत्याज्ञया मया सर्वत्र वरनरेन्द्रा विलोक्य विलोक्य पट्टिकायां लिखिताः सर्वेऽपि तस्या दर्शिताः, नकोsपि रुचितः अन्यदा मया तस्यास्तव रूपं दर्शितम् । तदर्शनानन्तरमेव सा कामावस्थया गृहीता, भणितं च तया यद्येष भर्ता न भविष्यति, तदाऽवश्यं मया मर्तव्यम्, अन्य पुरुषस्य मम यावज्जीवं निवृत्तिरेव । एष तस्या व्यतिकरो मया तन्मातृपित्रोर्ज्ञापितः । ताभ्यां त्वदानयनायाहं प्रयुक्ता । अविश्वसन्त्यास्तस्या विश्वासार्थ मयेयं प्रतिज्ञा कृता, यद्यहं त्वां त्वरितं नानयामि, तदा ज्वालाकुले ज्वलने प्रविशामि । ततः कुमार ! यदि तव प्रसादेन मम मरणं न सम्पद्यते, यथा च मे प्रतिज्ञानिर्वाहो भवति, तथा प्रसादं कुरु । ततस्तदाज्ञया तया महापद्मः सूर्योदये तत्र नीतः । खेचराधिपतिर्मिलितः, तेन च सुमुहूर्ते तस्याः पाणिग्रहणं कारितं पूजिता च वेगवती । इतश्च जयचन्द्राया मातुलभ्रातरौ गंगाधर महीधरनामानौ विद्याधरावतिप्रचण्डाषिमं व्यतिकरं ज्ञात्वा अनेकमटसहितौ महापद्मेन समं सङ्ग्रामार्थमागतौ । महापद्मोऽपि तयोरागमनं श्रुत्वा सरोदयपुराद्वहिविद्याधरभट परिवृतो निर्गतः, संप्रलग्नस्तयोः सङ्ग्रामः, तदानीं महापद्म ेन स्यन्दनाः, कुञ्जराः, अश्वाः, सुभटाः परवलसत्काः सर्वेऽपि बाणैर्विद्धाः, भग्नं स्व बलं दृष्ट्रा गङ्गाधरमहीधरौ स्वयमुत्थितौ, महापद्म नोभावपि हतौ । ततो लब्धजयः स महापत्र उत्पन्न स्त्रीरत्नवर्जसर्वरत्नः, प्राप्तनवनिधिर्द्वात्रिंशत्सहस्र मण्डलेश्वर सेवितपादपद्मः, परिणीतैकोन चतुःषष्टिसहस्रान्तः पुरो हयगजरथपदातिकोशसम्पन्नो नवम
I
For Personal & Private Use Only
Jain Educaternational
"नवमम्
महापद्म
चक्रवतिचरितम्”
॥११२॥
nelibrary.org