SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ "श्री चक्कवट्टिस्म कहा " ॥१३२॥ ********** यथा - महाभाग ! भवता क्वचिदितस्ततो न पर्यटिव्यम् त्वद्गवेषणार्थ दीर्घनियुक्ता नरा इहागताः सन्तीति श्रुत्वा तौ द्वावपि ततो वनान्नष्टौ, भ्रमन्तौ च कौशाम्ब्यां गतौ । तत्र बहिरुद्याने द्वयोः श्रेष्ठितयोः सागरदत्त- बुद्धिलनाम्नोः कुर्कुटयुगलं लक्षपणकरणपूर्वकं योद्धुं प्रवृत्तम्, द्रष्टुं कौतुकेन तौ तत्रैव स्थितौ । बुद्धिलकुर्कुटेन सागरदत्तकुर्कुटः प्रहारेण जर्जरीकृतो भग्नः । सागरदत्तेन प्रेर्यमाणोऽपि स्वकुर्कुटो बुद्धिल कुर्कुटेन समं पुनर्योध्धुं नाभिलषति । हारितं लक्षं सागरदत्तेन । अत्रान्तरे वरधुनुनोक्तं-- भो सागरदत्त ! एष सुजातिरपि कुर्कुटः कथं भग्नः १ ममात्रार्थे विस्मयोऽस्ति । यदि कोऽपि कोपं न करोति तदा बुद्धिलकुकुटमहं पश्यामि । सागरदत्तो भगति - भो महाराज ! विलोकय । नास्त्यत्र मम कोऽपि द्रव्यलोभः किन्त्वभिमान सिद्धिमात्रप्रयोजनमस्तीति । ततो वरधनुना विलोकितः स. कुकुटः तच्चरणनिबद्धः सूचीकलापो दृष्टः, बुद्धिलोऽपि वरधनुं प्रति शनैरेवमाह -- यदि त्वं सूचीकलापं न वक्ष्यसि, तदाहं तव लक्षार्धं दास्यामि । ततो वरधनुनोक्तं -- विलोकितो यत्कुक्कुटो नात्र किञ्चिद् दृश्यते । एवमुक्त्वापि यथा बुद्धिलो न जानाति तथा सूचीकलापमपाकृत्य सागरदत्तस्य तद्वयतिकरः कथितः । सागरदत्तेन पुनः स्वकुकुटः प्रेरितो बुद्धिल कुकुटेन समं युद्धं प्रववृते । सागरदत्तकुकुटेन जितो बुद्धिलकुकुटः, हारितं बुद्धिलेन लक्षम् । तुष्टः सागरदत्त एवमाह--आर्यपुत्र ! गृहे गम्यते, इत्युक्त्वा द्वावपि कुमारौ रथे निवेश्य सागरदत्तः स्वगृहे गतः । सागरदत्तस्तौ परमप्रीत्या पश्यति । सागरदत्तस्नेहनियन्त्रितौ तावतीत्राग्रहात्तद्गृह एव तस्थतुः । कियदिनान्तरमेको दासस्तत्रायातः, तेनैकान्ते वरधनुराकारितः, उक्तं च वरधनुकुमाराय तव तदानीं सूची Jain Educaternational For Personal & Private Use Only “द्वादशम् ब्रह्मदत्त चक्रवर्ति चरितम् " ॥१३२॥ inelibrary.org
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy