________________
।। ५ ।।
*****
गच्छति
गुहामध्ये निम्नगोन्निम्नगे द्वे नद्यौ समागते, चर्मरत्नेन च ते द्वे नद्यौ समुत्तीर्णे, अग्रेतनं गुहाद्वारमा -
साद्य सैन्यं स्थापितं, तत्र म्लेच्छराजानो बहवो मिलिताः, चक्रिणा सार्द्धं च युद्धं कर्तुं लग्नाः, चक्रिणा ते सर्वेऽपि जिताः सर्वेऽपि सेवकाच जाताः, तत्रत्यं खंडत्रयं च जित्वा पश्चाद्वलितश्चक्री, मार्गे समागच्छता तेन गंगातीरमासाद्य सैन्यं स्थापितं तत्तीरे च नवनिधानानि प्रकटितानि, तन्निधानस्वरूपं च किंचिद्गाथया लिख्यते, तत्र प्रथमं तन्ना - मानिस १ पंडुए २ | पिंगलए ३ सव्वरयणं ४ महपउमे ५ || काले अ ६ महाकाले ७ | माणवग ८ महानिहीसंखे ६ | १ | चक्कद्धपइठाणा अठ्ठुस्सेहा य नव विख्खंभे || बारसदीहा मंजूससंठिआ जाह्नवीमुहे || २ || वेरुलियमणिकवाडा कणगमया विविहरयणपडिपुण्णा || पलिउचउमठिईणं । देवाणं ते अ आवसा || ३ || इति निधानगाथाः. तत्राष्टौ दिवसान् यावन्महोत्सवं कृत्वा तत्र गंगातीरे से तस्थौ, तदधिष्टायिकया गंगया नाम्न्या देव्या सह वर्षसहस्र यावद्भोगान् बुभुजे . ततोऽनंतरं चक्रं चलितं. वैताढ्यपर्वते तेन नमिविनमिनामानौ विद्याधरौ जितौ, तेन नमिविद्याधरेण स्वकीया पुत्र चक्रिणे दत्ता, सा च स्त्रीरत्नं जाता. एवं षष्टिवर्षसहस्राणि यावदिग्विजयं कृत्वायोध्यायां पुन-.
राजगाम ।
ततोनिजपुरुषाः षष्टिं वर्षसहस्राणि विरहाद्दर्शनोत्सुकान् निजान् राज्ञोऽदर्शयन् । ततः कृशां म्लानां प्रणष्ट लावण्यां पाण्डुक्षामकपोलां बाहुबलिनः सोदरां सुन्दरीं नाम ग्राहं स्वपुरूषैर्दृश्यमानां स ददर्श । तां तथाविधां प्रेक्ष्य भरतः सकोपं स्वायुक्तानवोचत् - " किं मद्गृहे भक्ष्यान्नपानफलादीनि न सन्ति १ येनेषा सुन्दरीदृशीं दशां गता १,
Jain Education national
For Personal & Private Use Only
॥ ५ ॥
www.jainelibrary.org