________________
[३४] भिन्नोऽहमङ्गान्मद-रूपिणोऽपि च भिन्नमित्यङ्गमदः । मुञ्चामीत्वेति मद-मानं हे गत-भवहेतुमद ! ।। -हे गतभवहेतुमद ! अहम् अङ्गात् भिन्नः। अपि च अरूपिणः मत् अदः अङ्गं भिन्नम् अस्ति-इति ईत्वा (अहं) आङ्गं मदं मुञ्चामि ।
भिन्न इति- हे गतभवहेतुमद! भवस्य हेतुर्भवहेतुः संसारकारणं स चासौ मदो गर्वश्चेति भवहेतुर्मदः गतो विनष्टो भवहेतुमदो यस्य तत्संबुद्धौ । अहं चैतन्यपुजः अङ्गात् देहात् 'देहोऽपघनकायाङ्गम्, इति धनञ्जयः। भिन्नः पृथग्भूतः अस्मीति शेषः। अपि च किञ्च, अरूपिणोऽमूर्तात् मत् अस्मत्तः अद एतत् अङ्गं देहो भिन्नमस्ति। इतीत्थं ईत्वा ज्ञात्वाहं आङ्ग अङ्गस्येदमानं शरीरसम्बन्धिनं मदं गर्वं मुञ्चामि त्यजामि ।। ३४।।
अर्थ-हे संसार के कारणभूत मद से रहित! मैं शरीर से भिन्न हूँ और यह शरीर भी मुझ अमूर्तिक से भिन्न है, ऐसा जानकर मैं शरीर सम्बन्धी मद-गर्व को छोड़ता हूँ।।३४।।
[३५] विगतेऽघे मनोभुवि विहरति शुद्धात्मनि मुनिः स्वयंभुवि ।
कथं बद्धः प्रभुर्विः खे चरितु-मिदमसाध्यं भुवि ।। अघे मनोभुवि गते (सति) शुद्धात्मनि स्वयंभुवि मुनिः विहरति। (यथा) बद्धः विः खेचरितुं कथं प्रभुः? इदं भुवि असाध्यं (वर्तते)।
विगत इति- अघे पापरूपे मनोभुवि मनसि भवति जायत इति मनोभूस्तस्मिन् कामे विगते नष्टे सति मुनिः साधुः स्वयंभुवि अनाद्यनन्ते शुद्धात्मनि रागादिरहितत्वाच्छुद्धे स्वात्मनि विहरति रमते । तदेवोदाहिरयते-बद्धो पाशनियन्त्रितो वि: पक्षी रवे विहायसि चरितुं गन्तुमुत्पतितुमिति यावत् कथं कुतः प्रभुः समर्थः? इदं बद्धस्य खे गमनं भुवि लोके असाध्यं असंभवं अस्ति। यथा बद्धो विहगो विहायसि चरितुमसमर्थोऽस्ति तथा मनोजबाधसंपृक्तो मनुजः स्वात्मनि विहर्तुमसमर्थोऽस्तीति भावः ।। ३५।।
अर्थ- पापी काम के नष्ट हो जाने पर मुनि अनाद्यनन्त शुद्धात्मा में रमण करता है। जैसे जाल में बँधा पक्षी क्या आकाश में उड़ने के लिए समर्थ है ? अर्थात् नहीं है। यह कार्य पृथिवी में असाध्य है ।।३५।।
[३६] यस्य हृदि समाजातः प्रशमभावः श्रमणो यथाजातः । . दूरोऽस्तु निर्जरातः कदापि मा शुद्धात्मजातः ।।
(१८)