________________
बध्यतं इति- येन हि विधेः कर्मणो विधिविधानं अधिगतो ज्ञातः विहितात्मविधिः विहितः कृत आत्मविधिरात्मकृत्यं येन तथाभूतः। साधुर्मुनिर्भवति। स बोधैकनिधिः बोध एव सम्यग्ज्ञानमेवैकोऽद्वितीयो निधिः कोषः। विधिर्विधिना बध्यते बद्धः क्रियते 'विधिर्वेधसि काले ना विधाने नियतौ स्त्रियाम्' इति विश्वलोचनः ।।२९।।
अर्थ- जिसने विधि-कर्म-भाग्य की विधि को जान लिया, जिसने आत्मा का विधि-कार्य-संवर-निर्जरा सम्पन्न कर ली है और सम्यग्ज्ञान ही जिसकी अद्वितीय निधि है ऐसा साधु अपनी विधि-नियमित चर्या से बद्ध होता है, बँधा रहता है, ऐसा विधि -ब्रह्मा-जिनेन्द्रदेव ने कहा है ।।२९।।
[३०] यदा साऽऽत्मानुभूतिरुदेति शुद्धचैतन्यैकमूर्तिः।
मुनिश्वरविभूति-मिच्छति किं दुःखप्रसूतिम् ?।। शुद्धचैतन्यैकमूर्तिः सा आत्मानुभूतिः यदा उदेति, (तदा) किं मुनिः नश्वरविभूतिं दुःखप्रसूतिम् इच्छति ? (नेति)
यदेति- शुद्धचैतन्यैकमूर्तिः शुद्धस्य रागादिरहितस्य चैतन्यस्य एका अद्वितीया मूर्तिः सा प्रसिद्धा आत्मानुभूतिः स्वानुभूतिः यदा उदेति प्रकटीभवति तदा किं मुनिः दुःखप्रसूतिं दुःखस्य प्रसूतिर्यस्यां तथाभूतां नश्वरविभूतिं भगुरसम्पदां किं इच्छति ? अपि तु नेच्छति ।।३०।।
अर्थ- शुद्ध चैतन्य की अद्वितीयमूर्तिस्वरूप वह आत्मानुभूति जब प्रकेट होती है तब क्या मुनि दुःख को उत्पन्न करने वाली भगुर संपदा की इच्छा करता है ? अर्थात् नहीं ||३०||
[३१] भवत्यां भोगसंपदि मुनिर्मोदमेति न कदापि सपदि ।
धारयति समतां हृदि हा ! न विषण्णो भवति च विपदि ।। भोगसंपदि भवत्यां (सत्यां) सपदि मुनिः कदापि मोदं न एति। हा ! (सः) विपदि विषण्णो न भवति, हृदि (चोसमतां धारयति।
भवत्यामिति- भोगसंपदि भवत्यां विद्यमानायां मुनिः साधु:कदापि जात्वपि सपदि शीघ्रं मोदं हर्ष न एति न प्राप्नोति। हृदि हृदये समतां माध्यस्थ्यवृत्तिं धारयति विपदि विपत्तौ च विषण्णो विषादयुक्तो न भवति। हा हर्षे ।।३१।।