Page #1
--------------------------------------------------------------------------
________________
॥ श्रीगणेशाय नमः ॥
वैयाकरणभूषणसारः।
श्रीलक्ष्मारमणं नौमि गौरीरमणरूपिणम् । स्कोटरूप यतः सर्व जगदेतद्विवत्तते ॥ १ ॥ अशेषफलदातारं भवाब्धितरणे तरिम् । शेषाशेषार्थलाभार्थ प्रार्थये शेषभूषणम् ॥ २॥ पाणिन्यादिमुनीन् पूणम्य पितरं रंगोजिभट्टाभिधम् दैतध्वान्तनिवारणादिफलिकां पुभाववाग्देवताम् ॥ दुण्ढि गौतमजैमिनीयवचनव्याख्यातृभिर्दूषितान् । सिद्धान्तानुपपत्विभिः पूकटये तेषां वचो दूषये ॥३॥
मारिप्सितप्रतिबन्धकव्यहोपशमनाय कृतं श्रीपतञ्जलिस्मरणरूपं मंगलंशिष्यशिक्षार्थ निषध्नन् चिकीर्षित प्रतिजानीते । फणिभाषितभाष्याब्धेः शब्दकौस्तुभ उद्धृतः। तत्र निर्णीत एवार्थः संक्षेपेणेह कथ्यते ॥१॥ ___ उद्धृतइत्यत्र अस्माभिरिति शेषः। भाष्याब्धेः शब्दकौस्तुभउद्धृत इत्युक्तिस्तु शब्दकौस्तुभोक्तानामर्थानामा निकोत्लेक्षितत्वनिरासाय । अन्यथा तन्मूलकस्यास्य ग्रन्थस्याप्याधुनिकोत्पेक्षितासारत्वापत्तौ पाणिनीयानामनुपादेयतापत्तेः । तत्र निर्णीतइत्यु
Page #2
--------------------------------------------------------------------------
________________
वैयाकरणभूषणसारे
क्तिरितोऽप्यधिकं जिज्ञासुभिः शब्दकौस्तुभे द्रष्टव्यमिति ध्वनयि
तुम् ॥ १ ॥
२
प्रतिशातमाह ।
फलव्यापारयो र्धातुराश्रये तु तिङः स्मृताः । फले प्रधानं व्यापारस्तिङर्थस्तु विशेषणम् ॥२॥ धातुरित्यत्र स्मृतइति वचनविपरिणामेनान्वयः । फलं बिक्लिश्यादि, व्यापारस्तु भावनाभिधा साध्यत्वेनाभिधीयमाना क्रिया । उक्तञ्च वाक्यपदीये ।
यावत्सिद्धमसिद्धं वा साध्यत्वेनाभिधीयते । आश्रितक्रमरूपत्वात् * सा क्रियेत्यभिधीयते इति ।। न च साध्यत्वेनाभिधानेमानाभावः, पचति, पाकः, करोति, कृतिरित्यादौ धात्वर्थावगमाविशेषेऽपि क्रियान्तराकाङ्क्षानाकाक्षयोर्दर्शनस्यैव मानत्वात् । तथा च क्रियान्तराकाङ्क्षानुत्थापकतावच्छेदकरूपं साध्यत्वम् तद्रूपवत्त्वमसत्वभूतत्वम् एतदेवादाय । असत्वभूतोभावश्च तिङ्पदैरभिधीयते ।
इति वाक्यपदीयमिति द्रष्टव्यम् । अयञ्च व्यापारः फूत्कारत्वाधः सन्तापनत्वयत्नत्वादि - तत्तद्रूपेणवाच्यः । पचतीत्यादौ तत्तत्प्रकारकबोधस्यानुभवसिद्धत्वात् । नच नानार्थतापात्तः, तदा
* आश्रितं क्रमरूपं यस्यास्तत्वात् पूर्वापरीभूताऽवयवकत्वादित्यर्थः । तदीयाऽवयवानामधिश्रयणाद्यधः श्रयणपर्यन्तानां क्रमेणोत्पत्तेः क्रियापदेन सोच्यते यत्र च नक्रमिकावयवको व्यापारस्तत्र रूढिरेवा ssदरणीय पौर्वापर्यारोपो वा फलस्यापि स्वजनकव्यापारगतपौर्वापयारोपेण तथैव भानमत एव तन्मात्रबाचकस्य धातुत्वसिद्धिरिति भावः
Page #3
--------------------------------------------------------------------------
________________
थात्वर्थनिर्णयः।। दिन्यायेन बुद्धिविशेषादेः शक्यतावच्छेदकानामनुगमकस्य सत्वात् । आख्याते क्रियैकत्वव्यवस्थापि अवच्छेदकबुद्धिविशेषैक्यमादायैव । उक्तञ्च वाक्यपदीये।
गुणभूतैरवयवैः समूहः क्रमजन्मनाम् । बुद्धया प्रकल्पिताभेदः क्रियेति व्यपदिश्यतइति ॥
धात्वर्थनिरूप्य तिर्थमाह ( आश्रयेत्विति ) फलाश्रये व्यापाराश्रयेचेत्यर्थः । फलाश्रयः कर्म, व्यापाराश्रयः कर्ता । तत्र फलव्यापारयोर्धातुलभ्यत्वान्न तिङस्तदंशे शक्तिरन्यलभ्यत्वात् । शक्यतावच्छेदकं चाश्रयत्वं तत्तच्छक्तिविशेषरूपमिति सुबर्थनिर्णये वक्ष्यते । नन्वनयोराख्यातार्थत्वे किं मानम् प्रतीते* लक्षणया, आक्षेपात प्रथमान्तपदाद । वासम्भवादिति चेत् अत्रोच्यते।
"लः कर्माण च भावे चाकर्मकेभ्य" इति ।
सूत्रमेव मानम् । अत्र हि चकारात् “करि कृदिति" सूत्रोक्तं कर्तरीत्यनुकृष्यते बोधकतारूपां तिबादिशक्ति तत्स्थानित्वेन कल्पिते लकारे प्रकल्प्य लकाराः कर्माण करि चानेन
* "यद्यद्वोधकन्तत्तदर्थकमिति" नियमादाख्यातकर्तृकर्मप्रतीति रेव मानमिति भावः।
आक्षेपोनुपपत्तिस्तत इत्यर्थः । तथाहि अन्विताऽभिधानवादिमते पदानां विशेषणत्वेनैवाऽर्थोपस्थापकतयाऽऽख्यातार्थभावनाया विशेषणता ऽनुपपत्या तस्याश्रयाक्षेपकत्वमिति ।
* ननु व्याप्त्यादिप्रतिसंधानं विनाप्याश्रयवोधस्यानुभवसिद्ध. त्वान्नाक्षेपादाश्रयभानोपपत्तिः क्वाचित्कत्वात्तथाभानस्येत्यत आह । प्र. थमान्तपदाद्वेति समाभिव्याहृतप्रथमान्तचैत्रादिपदादेवाश्रयप्रतीत्युपप तेरित्यर्थः । एवञ्च नाश्रयप्रतीत्यनुपपत्तिः आश्रये आख्यातशक्तिसा. धिकति भावः
Page #4
--------------------------------------------------------------------------
________________
वैयाकरणभूषणसारे विधीयन्ते नकारविसगादिनिष्ठां कर्मकरणादिबोधकशक्तिमादाय शसादिविधानवत् । नच सूत्रे कर्तृकर्मपदे कर्तृत्वकर्मत्वपरे तथा च कर्तृत्वं कृतिः, कर्मत्वञ्च फलमेवार्थोऽस्त्विति शंक्यम, फलव्यापारयाधातुलभ्यत्वेन लकारस्य पुनस्तत्र शक्तिकल्पनाऽयोगात् । अथ दर्शनान्तरीयरीत्या व्यापारस्य धात्वर्थत्वाभावात्तत्र लकारबिधिः स्यादिति चेत्तर्हि कृतामपि कर्तृकादिवाचित्वं न सिध्येत् "कर्तरि कृदिति" च, "लः कर्मणी" त्यनेन तुल्ययोगोमम् * । अपि च मीमांसकानां कृतामिवाख्यातानामाप कर्तृवाचित्वमस्तु भावनायाएवाक्षेपेण कृदादिवत्प्रतीतिसम्भवे वाच्यत्वं मास्तु । तथा सति प्राधान्य तस्या न स्यादिति चेन्न घटमानयेत्यादावाभिप्तव्यक्तेराप प्राधान्यवदुपपत्तेः । पचतीत्यादौ पार्क करोतीति भावनाया विवरणदर्शनाद्वाच्यत्कमिति चेत् पाकानुकूलव्यापारवतः कर्तुंरपि विवरणविषयत्वाविशेषात् । न च कर्तुविवरणं तात्पर्य्यार्थविवरणं पाकं कसेतीत्यशब्दार्थकर्मत्वविवर
__* अलब्धलाभो योगो लब्धरक्षणं क्षेममेवश्च लाकर्मणीत्यस्यानन्यलब्धभावनाया आख्यातार्थप्रतिपादकत्वोपगमे न्यायसाम्यात्तीरकदित्यस्यापि कृतां भावनार्थत्वप्रतिपादकत्वन्तस्याऽऽक्षेपादेव लाभान कृतांतच्छक्तिप्रतिपादकं तदिति यदि तत्तर्हि लाकर्मणीत्यपि नाख्यातस्य भावनाशक्तिप्रतिपादकमिति समानमित्यर्थः।
+ तत्र तस्यति वतिः कृदादिस्थल इवेत्यर्थः । तथाच यथा भवन्मते धातोापाराऽबाचाबेन कृदर्थक क्षिप्तभावनाया बोधविषयत्वं तथाऽऽख्यातस्यापि व्यापाराऽबाचकत्वेन आख्यातार्थक क्षिप्तभाबनाया बोधविषयत्वं भविष्यतीति भावः।
जातिः पदार्थ इति मते जात्याक्षिप्तव्यक्तेर्यथा प्राधान्यं तथा काऽऽक्षितभावनाया अपि प्राधान्यमुपपत्स्यत इत्यर्थः ।
Page #5
--------------------------------------------------------------------------
________________
धात्वर्थनिर्णयः ।
णवत् इतरेतरद्वन्दे समुच्चयांशविवरणवद्वा न तदर्थनिर्णायकमिति वाच्यम् । भावनायामपि तुल्यत्वात् । किञ्च पचतिदेवदत्त इत्यत्राभेदान्वयदर्शनात् तदनुरोधेन कर्तुर्वाच्यत्वमावश्यकम पक्ता देवदत्तइतिवत् । न चाभेदबोधे समानविभक्तिकत्वं नियामकम् तच्च तत्र नास्तीति वाच्यम् सोमेन यजेत, स्तोक' पचति, राजपुरुषइत्यादावप्यभेदबोधानांपत्तेः । नच लक्षणया कर्तुरुक्तत्वात् सामानाधिकरण्यं पिङ्गाक्ष्यादियौगिकानामपि द्रव्यवाचित्वानापत्तेः । एवं वैश्वदेवीत्यादितद्धितानामपि “ अनेकमन्यपदार्थे” “सास्यदेवते" त्यनुशासनेन पिंगे अक्षिणी यस्याः विश्वे देवा देवताअस्या इति विग्रहदर्शनात्प्रधानषष्ठ्यर्थे एव अनुशासनलाभात् । तथा च “अरुणया पिङ्गाक्ष्यैकहायन्या सोमं क्रीणातीति" वाक्ये द्रव्यानुतेरारुण्यस्य स्ववाक्योपात्तद्रव्य एवान्वयप्रतिपादकारुणाधिकरणोच्छेदापत्तिः । द्रव्यवाचकत्वसाधकमूलयुक्तेः सामानाधिकरण्यस्योक्तरीत्योपपत्रोरिति प्रपञ्चितं विस्तरेण वृहद्वैयाकरणभूषणे । (तिङः) इति बोधकतारूपा शक्तिस्तिङ्क्ष्वेवेत्यभिप्रत्येदम् । पदार्थ निरूप्य वाक्यार्थं निरूपयति ( फले) इत्यादि । विक्लित्यादि फलं प्रति (तिङर्थः) कर्तृकर्म्मसंख्याकालाः । तत्र कर्तृकर्म्मणी फलव्यापारयोर्व्विशेषणे, संख्या कर्तृप्रत्यये कर्त्तरि, कर्म्मप्रत्यये कमणि, समानपूत्ययोपात्तत्वात् । तथाचाख्यातार्थसंख्यापूकारकबोधं पूत्याख्यातजन्यकर्तृकर्म्मोपस्थितिर्हेतुरिति कार्य्यकारणभावः फलितः । नैयायिकादीनामाख्यातार्थसंखयायाः प्रथमान्तार्थे एवान्वयादाख्यातार्थसंख्यापूकारकबोधे प्रथमान्तपदजन्योपस्थितिर्हेतुरिति कार्यकारणभावो वाच्यः सोपि चन्द्रइव मुखं दृश्यते, देवदत्तोभु
Page #6
--------------------------------------------------------------------------
________________
वैयाकरणभूषणसारे क्त्वा बजतीत्यादौ चन्द्रक्त्वार्थयोः आखचातानन्वयादितराविशेषणत्वघटित इत्यतिगौरवम् । इदमाप कर्तृकर्मणोराखघातार्थत्वे मानमिति स्पष्टं भूषणे, कालस्तुव्यापारे विशेषणम् तथा हि "वतमाने लट्" इत्यत्राधिकाराद्धातोरिति लब्धम तच्च धात्वर्थं वदत्माधान्याइव्यापारमेव ग्राहयतीति तत्रैव तदन्वयः नच संखयावत्कर्तृकर्मणोरेवान्वयः शंक्यः, अतीतभावनाके कर्तरि पचतीत्यापत्तेः अपाक्षीदित्यनापत्तश्च पाकानारम्भदशायां कर्तृसत्त्वे पक्ष्यत्यिनापत्तेश्च, नापि फले तदन्वयः फलानुत्पत्तिदशायां व्यापारसत्त्वे पचतीत्यनापत्तेः पश्यतीत्यापत्तेश्चेत्यवधेयम न चामवातजड़ीकृतकलेवरस्योत्थानानुकूलयत्नसत्त्वादुत्तिष्ठतीति पूयोगापत्तिः, परयत्नस्याज्ञानादप्रयोगात् किञ्चिच्चेष्टादिनावगतौ चायमुत्तिष्ठति शक्तयभावात् फलन्तु न जायतइति लोकमतीतेरिष्टत्वात, एवश्च तिर्थो विशेषणमेव भावनैवप्रधानम् , यद्यपि प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थस्यैव प्राधान्यमन्यत्र दृष्टं, तथापि "भावप्रधानमाख्यातं सत्वप्रधानानि नामानीति" निरुक्ताद्भवादिसूत्रादिस्थक्रियामाधान्यबोधकभाष्याच धात्वर्थभावनाप्राधान्यमध्यवसीयते अपि च आवयातार्थप्राधान्ये तस्य देवदत्तादिभिः सममभेदान्वयात्पथमान्तस्य प्राधान्यापत्तिः तथा च पश्य मृगोधावतीत्यत्र भाष्यसिबैकवाक्यता न स्यात् प्रथमान्तमृगस्य धावनक्रियाविशेष्यस्य दृशिक्रियायां कर्मत्वापत्तौ द्वितीयापन्तेः, न चैवम् प्रथमासामानाधिकरण्यात शतृ प्रसंगः, एवमपि द्वितीयायादुारत्वेन पश्य मृगइत्यादिवाक्यस्यैवासम्भवापत्तेः, नच पश्येत्पत्र तामिति कम्माध्याहार्यम् वाक्यभेदमसंगात् उत्कठधावनक्रियाविशेषस्यैव दर्शनक
Page #7
--------------------------------------------------------------------------
________________
धात्वर्थनिर्णयः।.. र्मतयान्वयस्य प्रतिपिपादयिषितत्वात अध्याहारे अनन्वयापत्तेश्च एवञ्च भावनाप्रकारकबोधे प्रथमान्तपदजन्योपस्थितिः कारणमिति नैयायिकोक्तं नादरणीयम् किन्तु आखयातार्थकर्तृप्रकारकबोधे धातुजन्योपस्थिति वनात्वावच्छिन्नविषयतया कारणमिति कार्यकारणभावोद्रष्टव्यः । भावनाप्रकारकबोधं प्रति तु कृज्जन्योपस्थितिवत् धात्वर्थभावनोपस्थितिरपि हेतुः पश्य मृगोधावति, पचति भवतीत्याद्यनुरोधादिति दिक् । इत्थञ्च पचतीत्यत्रकाथयिका पाकानुकूला भावना, पच्यते इत्यत्रकायिका या विक्लित्तिस्तदनुकूला भावनेति बोधः । देवदशादिपदप्रयोगे त्वाख्यातार्थकादिभिस्तदर्थस्याभेदान्वयः। घटो नश्यतीत्यत्रापि घटाभिनाश्रयकोनाशानुकूलोव्यापारइति बोधः सच व्यापारः प्रतियोगित्वविशिष्टनाशसामग्रीसमवधानम् । अतएव तस्यां सत्यांनश्यति, तदत्यये नष्टः, तद्भावित्वे नझ्यतीति प्रयोगः । देवदस्तोजानातीच्छतीत्यादौ च देवदत्ताभिन्नाश्रयको ज्ञानेच्छाधनुकूलो वर्तमानो व्यापारइति बोधः सचान्तत आश्रयतैवेति रीत्योह्यम् ॥२॥ __ नन्वाख्यातस्य कर्तृकर्मशक्तत्वे पचतीत्यत्रोभयबोधापत्तिः कर्तृमात्रबोधवत् कर्ममात्रस्याऽपि बोधापत्तिरित्यतस्तात्पर्यग्राहकमाह । फलव्यापारयोस्तत्र फले तङ्यक्चिणादयः॥ व्यापारेशनमाद्यास्तु द्योतयन्त्याश्रयाऽन्वयम्
तडादयः फले आश्रयाऽन्वयं द्योतयन्ति फलान्वय्याश्रयस्य कर्मत्वात् सद्योतकाः कर्मद्योतकाः ब्यपाराऽन्वय्याश्रयस्य
Page #8
--------------------------------------------------------------------------
________________
वैयाकरणभूषणसारे कर्तृत्वात्तद्योतकाः कर्तृयोतका इतिसमुदायार्थः (द्योतयन्ति) तात्प
र्य ग्राहयन्ति ॥ ३॥ .. नन्वेवं "क्रमादसुनारद इत्यबोधि स इत्यादौ पच्यते ओदनः स्वयमेवेत्यादौ च व्याभिचारः। कर्मणः कतृत्वविवक्षायां कर्त्तरि लकारे सति “कर्मवत् कर्मणातुल्यक्रिय" इत्यतिदेशेन यगात्मनेपदचिचिण्वदिटामतिदेशाधगादिसत्त्वेऽपि कर्तुरेव बोधाव्यापार एवाश्रयान्वयाच, अबोधीत्यत्रापि बुध्यतेः कर्तरि लुङ् तस्य दीपजनेति चिण "चिणोलुमिति" तस्य लुक् इति साधनादित्याशकायामाह। उत्सर्गोऽयं कर्मकर्तृविषयादौ विपर्ययात् ॥ तस्माद्यथोचितं ज्ञेयं द्योतकत्वं यथागमम्॥४॥ __ (कर्मकर्तृविषयादौ) पच्यते ओदनः स्वयमेवेत्यादौ अत्र खेकौदनाभिन्नाश्रयकः पाकानुकूलोव्यापार इति बोधः । क्रमादित्यादिपदग्राह्यम् अत्र सामान्यविशेषज्ञानपूर्वक एकमारदविषयकज्ञानानुकूलः कृष्णाभिन्नाश्रयकोऽतीतोव्यापार इति बोधः । ( यथोचितमिति) सकर्मकधातुसमभिव्याहृतभावसाधारणविधिविधेयाचिण्यगादिकर्म घोतकमिति भावः ॥ ४ ॥ ___एवं सूचीकटाहन्यायेन सोपपत्तिकं वाक्यार्थमुपवर्ण्य (फलव्यापारयोरिति ) प्रतिज्ञातं धातोर्व्यापारवाचित्वं लडाद्यन्ते भावनाया अवाच्यत्वं वदतः माभाकरादीन् माति व्यवस्थापयति । व्यापारोभावना सैवोत्पादना सैव च क्रिया॥ कृञोऽकर्मकतापत्तेन हि यत्नोऽर्थ इष्यते॥५॥
Page #9
--------------------------------------------------------------------------
________________
थात्वर्थनिर्णयः। पचति पाकमुत्पादयति पाकानुकूला भावना तादृश्युत्पादनेत्यादिविवरणाद्विवीयमाणस्यापि तद्वाचकतेति भावः। व्यापारपदं * फूत्कारादीनामयत्नानामपि फूत्कारत्वादिरूपेण वाच्यतां ध्वनयितुमुक्तम् अतएव पचतीत्यत्राधःसन्तापनत्वफूतकारत्वचुल्लुयपारिधारणत्वयनत्वादिभिर्बोधः सर्वसिद्धः नचैवमेषां शक्यतावच्छेदकत्वे गौरवापत्त्या कृतित्वमेव तदवच्छेदकं वाच्यं रथो गच्छति । जानातीत्यादौ च व्यापारत्वादिप्रकारकबोधो लक्षणयति नैयायिकरीतिः साध्वी, शक्यतावच्छेदकत्वस्यापि+ लक्ष्यतावच्छेदकत्ववद्गुरुणि सम्भवात् तयोर्वैषम्ये वीजाभावात नच पचति पाकं करो___* ननु “या क्रिया भावना सैवोत्पादनाऽपि च सास्मृते" त्युक्तेऽपि क्रियाया भावनात्वलाभे किमिति व्यापारपदोपादानमत आह । व्यापारपदश्चेति । तथा च व्याप्रियतेऽनेनेतिकरणव्युत्पन्नेन भावव्युत्पन्नेन वा व्यापारपदेन फलानुकूलयावतामधिश्रयणादीनां भावनात्वलाभः क्रियापदेन तु कृतिपदवद्यत्नमात्रार्थकेनोक्तविवरणात्कृतेरेव भावनात्व. लाभः स्यादिति तदुपात्तमिति भावः ।
+ यद्रीत्या नैयायिकैः कृतित्वस्याऽऽख्यातवाच्यत्वं व्यवस्थापित तद्रीत्यैव धातोः कृतित्वं शक्यतावच्छेदकं भविष्यतीति तटस्थाऽऽशकां निराकरोति । नचैवमेषामिस्यादि । नचेति साध्वीत्यनेनान्वितम् ।
- ननु कृतेरेवधात्वर्थत्वे रथादावचेतने तद्वाधात्तादृशप्रयोगानु पपत्तिरत आह-रथो गच्छतीत्यादि ।
+ तथा च शक्तिर्गुरुणाऽपि धर्मेणावच्छिद्यते असति वाधके कृतित्वाल्लक्षणावदित्यनुमानात्तेषु शक्तिः सेत्स्यतीति भावः ।
- असम्भवति समानियते लघौ धर्मे गुरौ तदभावादित्यस्य प्रकृतेऽनवतारेण यद्यवच्छेदकत्वं स्वरूपसम्बन्धविशषस्तदा तत्स्वरूपत्वं गुरूणामप्यक्षतम् । अथारिक्तं तदा गुरुधर्मेऽपि तत्स्वीकार आवश्यकः ( गंगातीरत्वं लक्ष्यतावच्छेदकमिति व्यवहारात् । वृत्त्यवच्छे दककोटिप्रविष्टत्वस्योभयत्र साम्याच्च । तत्र न्यूनाऽतिरिक्तवृत्तित्व
Page #10
--------------------------------------------------------------------------
________________
वैयाकरणभूषणसारे तीति यत्नार्थककरोतिना विवरणाद्यनएवमर्थ इति वाच्यम् । रथो गमनं करोति वीजादिना अंकुरः कृत इति दर्शनात् कुजोयनार्थकताया असिद्धेः, किंश्च भावनाया अवाच्यत्वे घटं भावयतीत्यत्रेव घटोभवतीत्यत्रापि द्वितीया स्यात् नचात्र घटस्य कर्तृत्वेन तत्संज्ञया कर्मसंज्ञाया बाधान द्वितीयेति वाच्यम् अनुगतकर्तृत्वस्य स्वन्मते दुर्वचत्वेन घटस्याकर्तृत्वात् कृत्याश्रयत्वस्य कारकचक्रमयोक्तृत्वस्य वा घटादावभावात् धात्वर्थानुकूलव्यापाराश्रयत्वस्य च कारकमात्रातिव्यापकत्वात आप च * भावनाया अवाच्यत्वे धातूनां सकर्मकत्वाकर्मकत्वविभाग उच्छिन्नः स्यात् स्वार्थफलव्यधिकरणव्यापारवाचित्वं स्वार्थव्यापारव्यधिकरणफलवाचकत्वं वा सकर्मकत्वं भावनायावाच्यत्वमन्तरणासम्भवि, अन्यतमत्वं तत्वमिति चेन एकस्यैवार्थभेदनाकम्भकत्वसकर्मकत्वदर्शनात् तदेतदभिसन्धायाह (कृज इति ) अयं भावः व्यापारवाच्यत्वपक्षे फलमारूपाऽवच्छेदकत्वमादाय ताशव्यवहारो यदि तदा सर्वत्रैव तथास्त्विति भावः।
* नन्वचेतने कृत्याऽऽश्रयत्वरूपकर्तृत्वस्य बाधेऽपीतरव्यापारा ऽनधीनत्वप्रकारकविवक्षाया विषयव्यापाराश्रयत्वरूपकारकचक्रप्रयो. क्तृत्वरूपमेव तत्कर्तृसंशानियामकम् । व्यापारस्य क्वचित्कृतिः। क्वचित्संयोगादिरेव ताशव्यापाराश्रय एव स्वतन्त्रः कर्त्तति सूत्रे स्वतन्त्र पदार्थः तत्सूत्रप्रणयनसामर्थ्यात् । तदुक्तं कारक इति सूत्रे भाष्ये । प्रधानेन समवाये स्थाली परतन्त्रा व्यवाये परतन्त्रा किं पुनः प्रधान कर्ता, कथं ज्ञायते का प्रधानमिति यत्सर्वेषु कारकेषु कर्ता प्रवर्तयिता भवतीति स्थाली काष्ठैः पचतीत्यादौ स्थाल्येव तत्त्वेन विवक्षितेति तद्भावः । वक्ष्यते वाऽधिकमुपरिष्टात् । मीमांसकमते प्रसक्तदूषणोद्धृ. तिरपि वक्ष्यमाणैव । एवं च घटगतताहव्यापारस्यैव स्वातन्त्र्यविवक्षया कर्तृत्वस्य निराबाधेन न द्वितीयाप्रसंगोऽत आह । अपिचेति ।
Page #11
--------------------------------------------------------------------------
________________
धात्वर्थनिर्णयः। त्रमर्थइति फालतम् तथा च करोतीत्यादौ यत्नप्रतीतेस्तन्मानं वाच्यमभ्युपेयम् तथा च यती प्रयत्नइतिवत् फलस्थानीय यनवाचकत्वाविशेषादकम्मकतापत्तिः उक्तरीत्या दुर्बोरेति तथा च ( नहि यत्नः ) इत्या फलस्थानीयत्वेनेति शेषः (कुत्रः) इति धातुमात्रोपलक्षणं सर्वेषामप्यकर्मकता सकर्मकता वा स्यादति भावः अथ वा (व्यापारो भावना) इत्यर्धेन व्यापारस्य वाच्यत्वं प्रसाध्य फलांशस्यापि तत्साधयन् नैयायिकाभ्युपगतं जानाति करोतीत्यादेः केवलशानयत्नादि क्रियामात्रवाचित्वं दूषयति (कुत्र इति)। अयंभावः फलांशस्यावाच्यत्वे व्यापारएव धात्वर्थः स्यात् तथा च स्वार्थफलव्यधिकरणव्यापारवाचितवादिरूपसकर्मकतवोच्छदापत्तिः। नच कुत्रादौसकर्मकत्वव्यवहारोभाक्तइति नैयायिकोक्तं युक्तम । व्यवहारस्य भाक्तत्वेऽपि कर्मणि * लकारासमभवात् । न हि तीरे गंगापदस्य भाक्तत्वेपिंऽपि तेन स्नानादिकार्य कर्तुं शक्यम् । एवञ्च (नहि यत्न) इत्यत्र यत्नमात्रमित्यर्थः॥५॥ ___ अतएवाह किन्तूत्पादनमेवातः कर्मवत्स्यात् यगाद्यपि । कर्मकर्तर्य्यन्यथा तु न भवेत् तदृशेरिव॥६॥
(उत्पादनम् ) उत्पत्तिरूपफलसाहित यत्नादि कृअर्थडत्यर्थः। फलस्य वाच्यत्वे युक्तयन्तरमाह (अतइत्यादि) यतः कृत्रीय त्नमात्रमोंनेष्यते (अतः कर्मवत्स्यादिति) पदेन कर्मवत्कर्मणा
* मुख्यसकर्मकत्वमादाय शास्त्रस्य चारितार्थ्ये गौणे तद्वयापारे मानाऽभावादिति भावः।
Page #12
--------------------------------------------------------------------------
________________
१२
वैयाकरणभूषणसारे
तुल्यक्रियइति सूत्रं लक्ष्यते । अयमर्थः यतएवास्योत्पादनार्थकता अतः पच्यते ओदनः स्वयमेवेतिवत् क्रियते घटः स्वयमेवेति यगादयोप्युपपद्यन्ते । अन्यथा यत्नस्य कर्म्मनिष्ठत्वाभावात्तन्न स्यात् दृशिवत् । यथा दृश्यते घटः स्वयमेवेति न दर्शनस्य घटावृत्तित्वातथा यत्नस्यापीति, तथा प्रयोगानापत्तेरिति ॥ ६ ॥
नन्वेवं कृञादेरिव जानातीत्यादेरपि विषयावच्छिन्नावरणभंगादिफलवाचित्वमावश्यकम् अन्यथा सकर्मकतानापत्तेः तथा च ज्ञायते घटः स्वयमेवेति किन्न स्वात् । एवं ग्रामोगम्यते स्वयमेवेत्याद्यपीत्याशंकां मनसिकृत्याह ।
निर्व्वयें च विकार्ये च कर्म्मवद्भाव इष्यते । न तु प्राप्ये कर्म्मणीति सिद्धान्तो हि व्यवस्थितः॥
ईप्सितं कर्म त्रिविधं निर्वर्त्य विकार्य्यं प्राप्यञ्च । तत्राद्ययोः कर्म्मवद्भावो, नान्त्ये, प्राप्यत्वञ्च क्रियाकृतविशेषानुपलभ्य• मानत्वमिति सुबर्थनिर्णये वक्ष्यते । नायं घटः केनचिद्दष्टो ग्रामोऽयं केनचिद्गतइति शक्यं कर्म्मदर्शनेनावगन्तुम् । घटं करोतीति निर्व्व, सोमं सुनोतीति विकार्ये च तज्ज्ञातुं शक्यमिति न तत्प्राप्यम् । तथा च घटादेर्दृश्यादौ प्राप्यकर्म्मत्वान्नोक्तातिप्रसंगइति भावः । धातूनां फलावाचकत्वे त्यजिगम्योः पर्य्यायतापत्तिः क्रियावाचकत्वाविशेषात्, फलस्योपलक्षणत्वेऽप्येकक्रियायाएव
* कर्म्मगतविशेषा ऽऽधायक क्रियार्थकत्वम् कर्म्मस्थक्रियकत्वं कर्मवद्भावप्रयोजकमिति दर्शयितुं तदन्वयव्यतिरेकौ दर्शयति । नहीत्यादि ।
Page #13
--------------------------------------------------------------------------
________________
धात्वर्थनिर्णयः। पूर्वदेशविभागोत्तरदेशसंयोगजनकत्वादुक्तदोषतादवस्थ्य मित्यपि वदन्ति । तस्मादावश्यकंसकर्मकाणां फलवाचकत्वम् अकर्मकाणान्तु तन्निविवादमेव भू सत्तायामित्याद्यनुशासनाच्च । अतएव "द्वयर्थः पचिरिति" भाष्यं सगच्छतइति दिक् ॥ ६॥
. एवं सिध्यतु फलव्यापारयोर्वाच्यत्वम् किन्तु आख्यातवाच्यैव सा भावना न धातोः, प्राधान्येन प्रतीयमानव्यापारस्य धात्वर्थतायाः"प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थस्यप्राधान्यामति" न्यायविरुद्धत्वात् “तदागमे हि दृश्यतइति"* न्यायविरुद्धत्वाच। एवञ्च स्वयुक्ताख्यातार्थव्यापारव्यधिकरणफलवाचकत्वं सकर्मकत्वम् ,
* इदं च यः प्रधानं स प्रत्ययार्थ इति न्यायाऽऽकार इत्यभिप्रेत्य, तन्मूलसूत्राऽऽलोचने तु यः प्रत्ययार्थः स प्रधानमिति न्यायाऽऽकारो लभ्यते तथाहि पशुना यजतेति श्रूयते तत्रैकवचनोपात्तमेकत्वं यागे विशेषणमुत प्रकृत्यर्थे इति संशये पशुपदार्थस्य यागं प्रति गुणत्वात्सम्भावितयावत्पशुकरणेन प्रधानाऽऽवृत्तौ प्रधानभंगाऽऽपत्त्या यावद्गुणं प्रधानाऽऽवृत्तेरयोगादेकत्वविशिष्टपशोर्विधाने त्वेकत्वस्य पशुविशेषणतया यागांगत्वाऽभावात्तदविवक्षितमेव स्यादित्यर्थकेन तत्रैकत्वमयज्ञांगमर्थस्य गूणभूतत्वादिति सूत्रेण पूर्वपक्षिते शब्दवत्तूपलभ्यते तदाऽऽगमे हि दृश्यते तस्य ज्ञानं यथाऽन्येषामिति सिद्धान्तसूत्रम् शब्दवत् शब्दवाच्यम् यथा भवति तथोपलभ्यते एकत्वं हि यतस्तदागमे एकवचनसमवधाने दृश्यते ऽतस्तस्य प्राधान्येन प्रतीतिर्यथाऽन्येषामरुणादीनामित्यर्थः । एवं च समानप्रत्ययोपात्तत्वप्रत्यासत्त्या विभक्तयर्थकरणाऽन्वितस्याऽरुणाऽधिकरणन्यापन प्रथमं क्रियायामन्वयः पश्चात्प्रकृत्यर्थे तथा च पश्वकत्वोभयकरणको याग इति बोधनैकत्वस्य यागांगत्वाऽवगमानानेकपशुभिर्याग इति तद्भावः। प्राधान्यं च प्रकृत्यर्थाऽविशेषणत्वमेव प्रत्ययार्थमादाय न्यायावताराद्यः प्रत्ययार्थ इति भागस्य न्यायघटकत्वं प्रकृते आख्याताऽसमवधाने भावना ऽबोधात्तस्याऽप्राधान्येन भानमिति तत्संगतिरिति बोध्यम् ।
Page #14
--------------------------------------------------------------------------
________________
१४ वैयाकरणभूषणसारे आख्यातार्थव्यापाराश्रयत्वञ्च कर्तृत्वं वाच्यमित्यादि वदन्तं मामांसकम्मन्यं प्रत्याह । तस्मात्करोतिर्धातोः स्याद्व्याख्यानंनत्वसौ तिङां पकवान् कृतवान्पाकं किं कृतं पक्कमित्यपि ॥८॥
( तस्मात् ) अभिप्रायस्थहेतोः सचेत्थम् । फलमात्रस्य धात्वर्थत्वे ग्रामोगमनवानिति प्रतीत्यापतिः संयोगाश्रयत्वात्। फलानुत्पाददशायां व्यापारसत्त्वे पाकोभवतीत्यनापत्तिः व्यापारविगमे फलसत्त्वे पाकोविद्यतइत्यापत्तिश्च । यत्तु भावप्रत्ययस्य घनादेर नुकूलव्यापारवाचकत्वान्नानुपपत्तिरिति तन्न कर्ताख्यातवत् “कतरि कृदि" त्यतएव तद्विधानलाभे भावे विधायकानुशासनवैय
•पोस्तद्विरोधापत्तेश्च । अथ व्यापारोऽपि धात्वर्थ इत्यभ्युपेय मिति चेतर्हि धातुतएव सकलव्यापारलाभसम्भवेनाख्यातस्य पृथक्शक्तिकल्पने गौरवमिति । पचतीत्यस्य पाकं करोतीति विवरणात्मा ( करोतिः धातोः) एव ( व्याख्यानं ) विवरणम् अतस्तदपि नाख्यातार्थत्वसाधकमिति भावः मीमांसकोक्तं बाधकमुद्धरन् तन्मतं दूषयात नत्वित्यादिना । नासौ तिङां व्याख्यानम् पकवानित्यादावनन्वयापत्तेः । अयं भावः। “प्रकृतिप्रत्ययौ सहाथ ब्रुतस्तयोः प्रत्ययार्थस्य प्राधान्यम्" इत्यत्राहि विशेष्यतया प्रकत्यर्थप्रकारकबोधं प्रति तदुत्तरप्रत्ययजन्योपस्थितिर्हेतुरिति काटर्यकारणभावः फलितः। तथा च पकवानित्यत्र पाकः कर्मकारकं, क्तवतुपत्ययार्थः कर्तृकारकम् । तयोश्वारुणाधिकरणरीत्या
Page #15
--------------------------------------------------------------------------
________________
१५
धात्वर्थनिर्णयः वक्ष्यमाणास्मद्रीत्या चान्वयासम्भवइति प्रकृतिप्रत्ययार्थयोरन्वयनियमस्यैवाभावे क ? प्राधान्यवोधक उक्तकार्यकारणभावः । नच
सम्बन्धमात्रमुक्तश्च श्रुत्या धात्वर्थभावयोः। तदेकांशनिवेशे तु व्यापारोऽस्या न विद्यतइति ।
भट्टपादोक्तरीत्या सम्बन्धसामान्येन कारकाणामन्वयः शंक्यः, योग्यताविरहात् अन्वयप्रयोजकरूपवत्त्वस्य तत्त्वात् । क्रियायमित्वमेव हि कारकान्वयितावच्छेदकमिति वक्ष्यते । तदेतदाविष्कर्तुं विवरणेन धात्वर्थक्तवत्वर्थयोः कर्मत्वकर्तृत्वे दर्शयति कृतवान् पाकमिति । वस्तुतः प्रत्ययार्थः प्रधानमित्यस्य यः प्रधानं स प्रत्ययार्थ एवेति वा, यः प्रत्ययार्थः स प्रधानमवोत वा नार्थः अजा अश्वा छागीत्यत्र स्त्रीप्रत्ययार्थे स्त्रीत्वस्यैव प्राधान्यापत्तेः छाग्यादेरनापत्तश्च । किन्तूत्सर्गोऽयम् विशेष्यत्वादिना बोधस्तु तथाव्युत्पत्यनुरोधात् । अतएव नैयायिकानांप्रथमान्तविशेष्यकएव बोधः । लक्षणायामालंकारिकाणां शक्यतावच्छेदकप्रकारकएव बोधो न नैयायिकादीनाम् । घटः कर्मत्वमानयनंकृतिीरत्यादौ विपर्ययेणापि व्युत्पन्नानां नैयायिकनव्यादीनां बोधो न तव्युत्पत्तिरहितानाम् अन्येषां तनिराकांक्षमेवेत्यादिकं संगच्छते । अतएव "प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात्" इत्याह भगवान् पाणिनिः।प्रधानं प्रत्ययार्थ इति वचनं नेल्लनुप॑ न कार्यम् अर्थस्य अर्थावबोधस्यान्यप्रमाणत्वात् व्युत्पत्यनुसारित्वादितिहि तदर्थः । एवं सत्यापि नियामकापेक्षणे "भाव प्रधानमाख्यात" मिति वचन मेव गृह्यतामिति सुधीभिरूह्यम् । “तदागमे हीति" न्यायो विवरण.
Page #16
--------------------------------------------------------------------------
________________
१६
वैयाकरणभूषणसारे ञ्चातिव्याप्तमित्याह (किंकृतं पकमिति)। कृना विवरणं प्रतातिश्च पक्कमित्यत्रापाति, तत्रापि भावना वाच्या स्यादिति भावः, नन्वस्तु तिङइव कृतामपि भावना वाच्येत्यत आह अपीति । तथाचोभयसाधारण्येन तत्प्रतीतेरुभयसाधारणो धातुरेव वाचकइति भावः ! भवद्रीत्या प्रत्ययार्थत्वात्माधान्यापत्तिश्चेतिं द्रष्टव्यम् ॥८॥ व्यापारस्य धात्वर्थत्वेसाधकान्तरमाह । किं कार्य पचनीयं चेत्यादि दृष्टं हि कृत्स्वपि। किञ्च क्रियावाचकतां विना धातुत्वमेव न॥९॥ ____ कार्यमित्यत्र “ऋहलायेदिति" कर्मणि ण्यत् पचनीयमित्यादौ चानीयर आदिना ज्योतिष्टोमयाजी इत्यादौ करणे उपपदे कर्तरि णिनिः। एते च क्रियायोगमन्तरेणासन्तस्तद्वाच्यतां बोध यन्ति विना क्रियां कारकत्वासम्भवेन तद्वाचकप्रत्ययस्याप्यसम् भवात् । नच गम्यमानक्रियामादाय कारकयोगइति भाट्टरीतिर्युक्ता आख्यातेऽपि तथापत्तौ तत्रापि भावनाया वाच्यत्वासिद्धयापत्तेः। अथ लिंगसंख्यान्वयानुरोधात् कर्तुर्वाच्यत्वमावश्यकमिति तेनालेपाद्भावनान्वयः स्यादिति मतम् तर्हि संखयान्वयोपपत्तये आखयातेऽपि कर्ता वाच्यः स्यात्। पकवानित्यादौ कालकारकान्वयानुरोधाद्भावनाया अपि वाच्यत्वस्यावश्यकत्वाच्चेति भावः। अपिना हेत्वन्तरसमुच्चयः तथाहि नखैभिन्नो नखभिन्नः हरिणा त्रातो हरित्रात इत्यादौ "कर्तृकरणे कृता बहुलमिति,, समासो न स्यात् पुरुषोराज्ञः भाय्यो देवदत्तस्य इतिवदसामथ्यात् । नचाध्याहृत
Page #17
--------------------------------------------------------------------------
________________
थात्वर्थनिर्णयः। क्रियाद्वारा सामर्थ्य वाच्यं दध्योदनः गुड़धाना इत्यादिवत् , अन्यथा तत्रापि अनेन व्यञ्जनं भक्ष्येण मिश्रीकरणमिति समासो न स्यादिति वाच्यम् । तत्र विध्यानर्थक्या* दगत्या तथास्वीकारेऽपि हरिकृतमित्यादौ । साक्षाद्धात्वर्थान्वयेनोपपद्यमानस्य कर्तृकरणइत्यस्याक्षेपेण परम्परासम्बन्धे प्रवृत्त्ययोगात् । न चैकस्यां क्रियायामन्वयित्वमेव सामर्थ्यमिति शङ्क्यम्, अमूर्यम्पश्येत्यादेरसमर्थसमासत्वानापत्तेः । इष्टापत्तौ कृतः सोमृत्तिकयेत्यत्र कृतसमृत्तिकइत्यापत्तेः । न चात्र समासविधायकाभावः, ( सह सुपा) इत्यस्य सत्त्वात् , अन्यथा असमर्थसमासोऽपि विधायकाभावान स्यादिति । किञ्च भावनायास्तिङर्थत्वे भाव
* अन्नेनव्यानमित्यादेरपि पदावधित्वेन समर्थपरिभाषाविषय तया स्वतोऽसमर्थदध्यादिपदानां समासविधानवैयापत्त्योपसेवनादिक्रियाध्याहाराभ्युपगमेऽपीत्यर्थः।
+ कृधातोर्व्यापाराथकत्वस्वीकारात्तनिरूपितकर्तृत्वस्य हरौ सा. क्षात्सत्वादध्याहारं विनैव शास्त्रचारितार्थ्ये हरित्रात इत्यादावध्याहृतपक्रयाद्वारकासामर्थ्यमादाय तत्प्रवृत्तौ मानाभावादित्यर्थः। कृञोव्या. पाराऽर्थकत्वाऽनभ्युपगमेत्वध्याहृताऽर्थस्याऽपि सामर्थ्याऽनुपपादकत्वाच्छास्त्रवैयर्थ्यमेष स्यादिति सूचनाय कृतमित्युक्तम्। आदिना शरकृ. तमित्यादिकरणतृतीयातत्पुरुषपरिग्रह। केचित्तु कृदर्थ कत्रेव तृतीयार्थकोऽऽक्षिप्तभावनामादाय हरित्रात इत्यादौ नखैभित्र इत्यादौ तु करणसामर्थेनाऽध्याहृतां तामादाय सामोपपत्तौ न तदनुपपत्तिर्धातोर्भावनावाचकत्वसाधिका । एवं च कृत्रः फलाऽर्थकत्वेऽपि न समासोऽनुपपत्तिरित्याहुः । तश्चिन्त्यम् ।
+ मृत्तिकायाः करणतया सर्वपदार्थस्य कर्मतया कृधात्वर्थाऽन्वयित्वादिति भावः।
Page #18
--------------------------------------------------------------------------
________________
वैयाकरणभूषणसारे यति घटमितिवत् भवति घटमित्याप स्यात् धात्वर्थफलाश्रयत्वरूपकर्मत्वसत्त्वात् नचाख्यातार्थव्यापाराश्रयत्वेन कर्त्तत्वात् तत्संज्ञया कर्मसंज्ञायावाधान द्वितीयेति वाच्यम् आख्यातार्थव्यापाराश्रयत्वस्य कर्तृत्वे पाचयति देवदत्तोविष्णुमित्रेणेत्यत्र विष्णुमित्रस्याकर्तृतापत्तौ तृतीयानापत्तेः ग्रामं गमयाति देवदत्तोविष्णुमित्रामत्यत्र विष्णुमित्रस्याकर्तृतापत्तेः ग्रामस्यगमिकर्मतानापत्तेश्च । तथा च ग्रामाय गमयति देवदत्तोविष्णुमित्रमित्याप न स्यात् । “गत्यर्थकर्मणि द्वितीयाचतुर्यों चेष्टायामनध्वनीति" गत्यर्थकर्मण्येव चतुर्थीविधानात् । एतेन णिजन्ते आख्यातार्थ उभयम् तदाश्रयत्वादेवदत्तयज्ञदत्तयोः कर्तृतेत्यपास्तम्। किश्च तस्मिन् प्रयोगे आख्यातार्थइत्यस्यावश्यकत्वेनाख्यातशून्ये देवदत्तः पक्तेत्यादौ देवदत्तस्याकर्तृतापतेरिति दिक् । सूत्रानुपपत्तिमपि मानत्वेन प्रदशयन्नुक्तार्थस्य स्वोत्प्रोक्षितत्वं निरस्यति ( किश्चेति ) धातुसंज्ञाविधायकम् ( भूवादयोधातव ) इति सूत्रम् । तत्र भूश्च वाश्चेति द्वन्द्वः। आदिशब्दयोर्व्यवस्थाप्रकारवाचिनोरेकशेषः । ततो भूवौ आदी येषां ते भूवादयः । तथा च भूप्रभृतयो वासदृशा धातवइत्यर्थः । तच्च क्रियावाचकत्वेन तथा च क्रियावाचकत्वे सति भ्वादिगणपठितत्वं धातुत्वं पर्यवसभम् । अत्र क्रियावाचित्वमात्रोक्तो
* अपास्तमिति । अयं भावः आख्यातस्य व्यापारद्वयाऽभिधायकत्वेनविष्णुमित्रस्य कर्तृत्वोपपादनेऽपि तत्कर्तृत्वस्याऽऽख्याताऽभिधानाद्देवदत्तपदोत्तरमिव विष्णुमित्रपदोत्तरं तृतीयादौर्लभ्यमेवमाख्यातार्थव्यापाराश्रयत्वस्यो भयोरप्यविशिष्टत्वात्प्रधानं व्यवहारोच्छेदापत्याहेतुमति चेत्यनुशासनविरोधश्चेति ।
Page #19
--------------------------------------------------------------------------
________________
धावथीनर्णयः वर्जनादिरूपक्रियावाचके हिरुग्* नानेत्यादावतिव्याप्तिरिति भ्वादिगणपठितत्वमुक्तम् ॥ ९॥
तावन्मात्रोक्तौ चाह । सर्वनामाव्ययादीनां यावादीनां प्रसङ्गतः। न हि तत्पाठमात्रेण युक्तमित्याकरे स्फुटम्॥१०॥
गणपठितत्वमात्रोक्तौसर्वनामाव्ययानामपि धातुत्वं स्यात् । तथा च याः पश्यतीत्यादौ, “आतोधातोः" इत्याकारलोपापतिः । ननु लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणान सर्वनाम्नां ग्रहणं तस्य लाक्षणिकत्वात् इत्यत आह वेत्यादि । अव्यये वा इत्यादावतिप्रसंगः । तादृशस्यैव गणेऽपि पाठेन निर्णयासम्भवात् । तथा च विकल्पार्थको वातीति प्रयोगः स्यादिति भावः । नच गतिगन्धनार्थनिर्देशो नियामकः, तस्यार्थानादेशनादिति भाष्यप-लोचनया आधुनिकत्वलाभात् ॥१०॥
* यथाश्रुतमनुरुध्य चेदम् । तदर्थस्य कालानन्वितत्वेन क्रियात्वाऽसम्भवात् । किं तु तावन्मात्रोतावाणवयत्यादावतिव्याप्तिर्वाध्या तेषां धातुत्वे च शास्त्रविषयतया साधुत्वाऽऽपत्तेरिति बोध्यम् ।
भीमसेनादिप्रणीतत्वाऽवगतेरित्यर्थः । तथा च भूवादिसूत्रे परिमाणग्रहणं कर्त्तव्यम् कुताह्येतत् भूशब्दोधातुसंज्ञको भवति न पुन द्वेधशब्द इति यद्यप्यर्थनिर्देशसय सूत्रकृत्प्रणीतत्वमपि तथा च चुटू इति सूत्रे यदयमिरिक्तः कांश्चिन्नुमनुषक्तान पठति उवुन्दिर्निशामने स्कन्दितिशोषणयोरिति तेन नेरितामिदिद्विधिरिति भाष्ये उक्तं तथापि माध्ययप्रामाण्यात्सर्वधात्वर्थनिर्देशसयाऽपाणिनियत्वेन न तन्निर्देशसत्य नियामकतेति भावः चुलुम्पादीनां स्तम्भ्वादीनांच कास्यनेकाचआमिति वचनादुदित्करणाञ्च धातुतेति दिक् ॥
Page #20
--------------------------------------------------------------------------
________________
२०
वैयाकरणभूषणसारे नन्वस्तु क्रियावाचकत्वे सात गणपठितत्वं धातुत्वं क्रिया च धात्वर्थएव न व्यापार इत्याशङ्का समाधत्ते । धात्वर्थत्वं क्रियात्वञ्चद्धातुत्वञ्च क्रियार्थता। अन्योन्यसंश्रयः स्पष्टस्तस्मादस्तुयथाकरम् ॥
यदि क्रियात्वं धात्वर्थत्वमेव तर्हि धातुत्वग्रहे तदर्थत्वरूपक्रियात्वग्रहः क्रियात्वग्रहे च तदवच्छिन्नवाचकत्वघटितधातुत्व ग्रह इत्यन्योन्याश्रयइति ग्रहपदं पूरयित्वा व्याख्येयम् । यथाश्रुते चान्योन्याश्रयस्योत्पनौ ग्रहे वाईप्रतिबन्धकत्वाभ्युपगमेनासङ्गत्यापत्तेः। न चान्यतमत्वं धातुत्वं भूवादयइत्यस्य वैयापत्तेरित्यभिनेत्याह ( अस्त्विति ) व्यापारसन्तानः क्रिया तद्वाचकत्वे सति गणपठितत्वामित्यर्थः । ननु सत्तादीन् फलांशानन्यतमत्वेनादाय तद्वाचकत्वे सति गणपठितत्वं लक्षणमुच्यताम् । धात्वर्थत्वातेषां क्रियाशब्देन व्यवहारो भाष्यादौ कृतोऽप्युपपत्स्यतइति चेन्न अन्यतममध्ये विकल्पस्यापि विकल्पयतीति प्रयोगानुसारात् प्रवेशावश्यकत्वेन मदर्थक घेत्यव्यये उक्तरीत्या गणपठितत्वसत्वनातिव्यासेरिति ॥ ११॥
नम्बस्यैव धातुत्वे अस्तीत्यादौ क्रियाप्रतीत्यभावादस्त्यादीनां तदषाचकानामधातुत्वप्रसङ्ग इत्यत आह । अस्त्यादावपि धयंशे भाव्येऽस्त्येव हि भावना। अन्यत्राशेषभावात्तु सा तथा न प्रकाशते॥१२॥
(अस्त्यादौ) अस्भुवीत्यादौ (धर्म्यशे) धमिभागे (भाव्ये)
Page #21
--------------------------------------------------------------------------
________________
धात्वर्थनिर्णयः।
२१ भाव्यत्वेन विवक्षिते । (अस्त्येव ) प्रतीयतेएव । अयमर्थः स ततो गतो न वेति प्रश्ने महता यनेनास्तीति प्रयोगे सत्तारूपफलानुकूला भावनाप्रतीयतएव उत्पत्त्यादिबोधने * तु सुतरां "रोहितोलोहितादासीद्धन्धुस्तस्य सुतोऽभवदित्यादि,, दर्शनात् । किञ्च अत्र भावनाविरहे लड़ादिव्यवस्था न स्यात् तस्याएव र्वतमानत्वादिविवक्षायां तद्विधानात् ।
"क्रियाभेदाय कालस्तु संख्या सर्वस्यभेदिकेति,वाक्यपदीयादिति । नन्वेवमस्तीत्यत्र स्पष्टं कुतोन बुद्धयतइत्यतआह (अन्यवेति ) ( अशेषभावात् ) भावनायाः फलसमानाधिकरणत्वात् । तथा च भावनायाः फलसामानाधिकरण्यं तदस्पष्टत्वे दोषइतिभावः । नन्वेवं किं करोतीति प्रश्ने पचतीत्युत्तरस्येवास्तीत्युत्तर
- * ननु स ततो गतो न वेति वाक्याद् गेहाद्यवधिकविभागाऽनुकूलव्यापाराऽऽश्रयत्वतदभावाऽन्यतरस्य जिज्ञास्यत्वमवगम्यते मह ता यत्नेनाऽस्तीति वाक्यात्वस्तापाराऽर्थकत्वाऽभ्युपगमेऽपि चैत्रा दिकर्तृकसत्ताऽनुकूलव्यापार एवेति कथमेतयोः प्रश्नोत्तरत्वं । तथाहि यद्धर्मावच्छिन्ने यद्धाऽवच्छिन्नस्य सम्बन्धो यत्प्रश्नवाक्यात्प्रतीयते तद्धर्माऽवच्छिन्ने जिज्ञासिततद्धर्माऽवच्छिन्नसम्बन्धबोधवाक्यस्योत्तरता । यदाहुः जिज्ञासितपदार्थस्य संसर्गो येन गम्यते तदुत्तरमिति प्रोक्तमन्यदा भासशाब्दितमिति यथा घटत्वाऽवच्छिन्ने जिशासितधर्माऽवच्छिन्नसम्बन्धबोधकस्य कस्माद् घट इति प्रश्नवाक्यस्य घटत्वाऽवच्छिन्ने जिज्ञासितदण्डत्वाऽवच्छिस्य हेतुहेतुमद्भावबोधकं दण्डाद् घट इति वाक्यमुत्तरम् प्रकृते तु गत इति नेति वेत्युत्तरं युज्यते । किंचोक्तप्रश्ने न सत्तासाधकव्यापारस्य जिज्ञास्यत्वाऽनवगमात्कथमेतस्योत्तरत्वम् तथात्वेऽपि पूर्वोत्तरवाक्ये यत्नेनेत्युपादानाद्यनपदोपस्थाप्ययत्ननिष्पाद्यत्वबोधनैवोत्तरत्वसिद्धया न ततोधातोव्यापारार्थकत्वसिद्धिरत आह । उत्पत्त्यादीति ।
Page #22
--------------------------------------------------------------------------
________________
२२
वैयाकरणभूषणसारे माप स्यादिति चेत् इष्टापत्तः। आसन्नविनाशं कञ्चिदुद्दिश्य किं करोतीति प्रश्नेऽस्ती त्युत्तरस्य सर्वसम्मतत्वात् । इतरत्र तु सुस्थतया निश्चिते किं करोतीति प्रश्नः पाकादिविशेषगोचर एवेत्यवधारणादस्तीत नोत्तरमिीत ॥ १२ ॥
नन्वेवं भावनायाः फलनियतत्वात् फलाश्रयस्यच कर्मत्वात्सर्वेषां क्रियावाचकत्वे सकर्मकतापत्तिरित्यत आह । फलव्यापारयोरेकनिष्ठतायामकर्मकः । धातुस्तयोर्धम्भिभेदे सकर्मक उदाहृतः॥१३॥
(एकनिष्ठतायाम् ) एकमात्रनिष्ठतायाम् भिन्नाधिकरणास्तितायामिति यावत् । तेन गम्यादौ फलस्य कर्तृनिष्ठत्वेऽपि नातिव्याप्तिः । (अकर्मकः) यथा भ्वादिः ( तयोः) फलव्यापारयोः आश्रयभेदे सकर्मक इत्यर्थः उक्तश्च वाक्यपदीये ।
आत्मानमात्मना विभ्रदस्तीत व्यपदिश्यते । अन्तर्भावाच तेनासौ कर्मणा न सकर्मकइति ।
(विभ्रदिति ) तेन स्वधारणानुकूलोव्यापारोऽत्रापि गम्यतइति भावः तेन कर्मणा सकर्मकत्वन्तु न अन्तर्भावात् फलांशेन सामानाधिकरण्यसत्वादित्यर्थः ( आत्मानमिति ) जानाति इच्छतीत्यादौ च द्वावात्मानौ शरीरात्मा अन्तरात्मा च । तत्रान्तरात्मा तत्कर्म करोति येन शरीरात्मा सुखदुःखे अनुभवतीति कर्मवत्कर्मणेति सूत्रीयभाष्योक्तरीत्या भिन्नाधिकरणनिष्ठतामादाय सकर्मकत्वमित्यवधेयम् ॥ १३ ॥ .
Page #23
--------------------------------------------------------------------------
________________
धात्वर्थनिर्णयः। नन्वसत्व भूतक्रियाया धात्वर्थत्वे पाक इनाम वत्सलवीपत्तिः। न चेष्टापत्तिः कृदभिहितोभावो द्रव्यवत् + प्रकाशतइति भाष्यविरोधादित्यत आह । आख्यातशब्दे भागाभ्यां साध्यसाधनरूपता। प्रकल्पिती यथाशास्त्रेस घादिष्वपि क्रमः१४॥
(आख्यातशब्दे) पश्यमृगोधावतीत्यादौ । (भागाभ्याम् ) तिङन्ताभ्याम् प्रकृतिप्रत्ययभागाभ्यामिति विवरणकारोक्तमपव्याख्यानम् पचतीत्यत्रापि भागद्वयसत्वात् (साध्यसाधनरूपता) यथाक्रमं ग्राह्या । साध्यत्वं क्रियान्तराकाङ्क्षानुत्थापकरूपवत्वम् । साधनत्वं कारकत्वेनान्वयित्वम् , ( सघादिष्वपीति ) प्रकृत्या साध्यावस्था, प्रत्ययेन साधनावस्था, इयान्विशेषः, घनाद्यपस्थाप्या लिंगसंख्यान्वयिनी कारकत्वान्वायनी च, आख्यातान्तो पात्ता तु नैवम्, तथापि कारकत्वेनान्वयित्वमात्रेण दृष्टान्तदा - "न्तिकतेत्यवधयम्, नच घान्ते धातुना तथाभिधाने मानाभावः, (ओदनस्य पाकइति कर्मषष्ठया मानत्वात्, नचाध्याहृततिङन्तक्रियान्वयात् षष्ठी "कर्तृकर्मणोः कृतीत" कृदन्तेन योगएव
* क्रियाऽन्तराऽऽकांक्षाऽनुत्थापकताऽवच्छेदकधर्माऽऽक्रान्ताया इत्यर्थः। ___+ द्रव्येण नामार्थेन तुल्यं प्रकाशते भासत इत्यर्थः। द्रव्यधर्माणि लिंगसंख्याकारकत्वानि गृह्णातीति यावत् । यद्वा । द्रव्यं क्रियाकांक्षोस्थापकतावच्छेदकरूपसिद्धत्ववत् तेन तुल्यं प्रकाशते इत्यर्थः सिद्धत्वेन भासत इति यावत् । तथा च तादृशभाष्येणाऽऽपाद्यव्यतिरेकनिर्णये तद्धेतुभूतप्रामाण्योपगमादिष्टापत्तेरसुकरत्वादिति भावः ।
Page #24
--------------------------------------------------------------------------
________________
२४ वैयाकरणभूषणसारे तद्विधानात् “न लोकाष्ययनिष्ठाखलर्थतनामिति" लादेशयोगे षष्ठीनिषेधाच्च , एवं रीत्या काष्ठैः पाकइत्यादावपीष्टमेव, एवं फलांशोऽपि धातुना असत्वावस्थापन्नएवोच्यते , अतएव स्तोकं । पचतीतिवत् स्तोकं पाकेत्युपपद्यते इति ॥ १४ ॥
___ एतदेव स्पष्टयति । साध्यत्वेन क्रिया तत्र धातुरूपनिबन्धना । सिद्धभावस्तु यस्तस्याः स घनादिनिबन्धनः॥
नच घनादिभिः सिद्धत्वेनाभिधाने मानाभावः, पाकइत्युक्ते भवति नष्टोवेत्याद्याकाङ्क्षोत्थापनस्यैव मानत्वात् धातूपस्थाप्यायांतदसम्भवस्योक्तत्वात् स्तोकः पाकः इत्यनापत्तेश्च । तस्माद्धात्वर्थान्वये स्तोकादिशब्देभ्यो द्वितीया घअर्थान्वये प्रथमा पुंल्लिगता चेति तत्सिद्धये घनादेः शक्तिरुपेया, एतन घनादीनां प्रयोगसाधुतामात्रमिति नैयायिकनव्योक्तमपास्तम् । नच घअन्तशक्त्युपस्थाप्यान्वये स्तोकः पाकइति भवतीति वाच्यम, घबन्तानुपू
याः शक्ततावच्छेदकत्वे गौरवादनुशासनाच्च घनादेरेव तथाशक्तिकल्पनादिति दिक, एवञ्च घनशक्त्यभिप्रायेण कृदभिहितइति भाष्यमतो न तद्विरोधइति भावः ॥ १५॥
ननु कारकाणां भावनान्वयानयमएव पाकडत्यत्रापि कर्म षष्ठयनुसारेण भावनाया वाच्यत्वं सिध्येत सएव कुतइत्याशकां समाधत्ते । सम्बोधनान्तं कृत्वोऽर्थाः कारकं प्रथमोवतिः । धातुसम्बन्धाधिकारनिष्पन्नमसमस्तनञ्॥१६॥
Page #25
--------------------------------------------------------------------------
________________
२५
धात्वर्थनिर्णयः। .. सम्बोधनान्तस्य क्रियायामन्वयः, त्वं ब्रूहि देवदत्तेत्यादौ निघातानुरोधात "समानवाक्ये निघातयुष्मदस्मदादेशा" इत्यनेन समानवाक्यएव तन्नियमात, उक्तं हि वाक्यपदीये ।
सम्बोधनपदं यच्च तत् क्रियायाविशेषणम् * । वजानि देवदत्तेति निघातोऽत्र तथासतीति ।
पचति भवति देवदत्तेत्यादौ तु सूत्रभाष्यादिरीत्यकवाक्यतासत्वात् स्यादेव निघातः । “तिङ्ङतिङ"इति सूत्रेऽपि तिङन्तानामप्येकवाक्यतास्वीकारात् । एकतिङ् वाक्यमिति वदतां वार्तिककाराणां मते परं न । वस्तुतः एकतिझवशेष्यकं वाक्यमिति तदभिप्रायस्य हेलाराजीयादौ वैयाकरणभूषणेऽस्माभिश्च प्रतिपादितत्वात्तन्मतेऽपि भवत्येवेत्यवधेयम् । ( कृत्वोऽर्थाः ) "क्रियाभ्यात्तिगणने कृत्वमुच्" इति क्रियायोगे तत्साधुत्वोक्तेः क्रियाया अभ्यात्तिः पुनः पुनः जन्म तस्मिन् द्योत्ये इति तदर्थात् । ( कारकम ) कारके इत्यधिकृत्य तेषां व्युत्पादनात् ।' कारकशब्दो हि क्रियापरः करोति कर्तृकांदिव्यपदेशानिति व्युत्पत्तेः । तथाचाग्रिमेष्वपादानादिसंज्ञाविधिषु क्रियार्थककारकशब्दानुवृत्त्या क्रियान्वयिनामेव संज्ञेति भाष्ये स्पष्टम् (प्रथमोव
. * विशेषणमिति । स्वोदेश्यकप्रवर्तनाविषयत्वरूपपरम्परासम्बन्धेनेत्यर्थः । वजानीत्यस्य हि जानहीति शेषः । “सिद्धस्याऽभिमुखीभावमात्रं सम्बोधनं विदुःप्राप्तोऽभिमुख्यो हि जनः क्रियासुविनियुज्यते'' इति वदता प्रवर्तनाविषयक्रियायामेव तदन्वयबोधनात् । प्रवर्त्तनोहेश्यस्यैव तद्विषयक्रियोद्देश्यत्वादुद्देश्यविधेयभावस्य तयोः संसर्गमादया लाभादेकवाक्यतया निघात इति तदर्थः! शाब्दबोधस्तत्र सम्बोधनविषयदेवदत्तोद्देश्यकप्रवर्तनाविषयं मत्कर्तृकव्रजनकर्मकज्ञानमिति ।
Page #26
--------------------------------------------------------------------------
________________
२६
वैयाकरणभूषणसारे तिः) "तेन तुल्यं क्रिया चेदतिः,, इति विहितः तत्र यत्तुल्यं सा क्रिया चेदित्युक्तत्वात् । (धातुसम्बन्धाधिकारे) "धातुसम्बन्धे प्रत्यया" इत्यधिकृत्य तेषां विधानात् । ( असमस्तनञ् ) समासायोग्यः प्रसज्यप्रतिषेधीयोनजित्यर्थः । उत्तरपदार्थान्वयेऽपि समासविकल्पेन पक्षे असमस्तत्वात् यथाश्रुतग्रहणायोगान ! न चासमस्तनाः क्रियान्वये मानाभावः न त्वं पचास न युवां पचथः चैत्रोन पचति घटोन जायते इत्यादौ क्रियाया एव निषेधप्रतीतेः । अतएव विद्यमानेऽपि घटे तथा प्रयोगः । तथा च घटोनास्तीत्यत्राप्यस्तित्वाभावएवबोध्यते । नहि घटो न जायते नास्तीत्यनयोर्धात्वर्थभेदमन्तरेणास्ति विशेषः। तथा च भूतले न घटइत्यत्राप्यस्तीत्यध्याहार्यम् । प्रकारतासम्बन्धेन नगर्थविशेष्यकबोधे धातुजन्यभावनोपस्थितेर्हेतुत्वस्य क्लुप्तत्वात् । शेष नबर्थनिर्णये वक्ष्यते ॥ १६॥ • तथा यस्य च भावेन षष्ठी चेत्युदितं द्वयम् । साधुत्वमष्टकस्यास्य क्रिययैवावधार्य्यताम् १७॥ ___ “यस्य च भावेन भावलक्षणम्" इत्यत्र भावनार्थकभावशब्देन तद्योगे साधुत्वाख्यानलाभात् “षष्ठी चानादर" इति तदग्रिमसूत्रेऽपि चकाराद्भावेनेत्यप्यन्वेतीत्यर्थः ( साधुत्वमिति ) तत्स्वरूपन्तु वक्ष्यते (क्रिययैवोत) अयं भावः । भूवादिसूत्रादिषु ___ * ननु क्रिययैवाऽवधार्यतामितिमूलेन क्रियाऽन्वय एवोक्तानां साधुत्वं लभ्यते इति सत्यमेव तथापि भाष्ये क्रियापदस्य फलेऽपि प्रयोगात्साक्षात्परम्परया वा क्रियाफलाऽन्वयेनाऽपि तेषां साधुत्वोपपत्तौ नोक्तरीसिर्धातोापारवाचकत्वसाधिकेत्याशङ्कयाऽऽशयं प्रकाशयति । अयम्भावइति ।
Page #27
--------------------------------------------------------------------------
________________
धात्वर्थनिर्णयः। प्रायः क्रियाशब्देन भावनाव्यपदेशात्तत्र तस्य साङ्केतिकी शक्तिः फलांशे काचित्कः क्रियतइति यौगिकः प्रयोगः। तथा च संज्ञाशब्दस्यानपेक्षप्रवृत्तत्वेन बलवत्त्वाद्भावनान्वयएव साधुता लभ्यते । अतएव संज्ञाशब्दपावल्यात् रथन्तरमुत्तराग्रन्थपठितऋक्ष्वेव गेयम् नतु वेदे सदुत्तरपठयमानऋश्विात नवमे निर्णीतम् । किश्च फलांशोऽपि भावनायां विशेषणं कारकाण्यपि कचित्तथाभूतानीति । "गुणानाश्च परार्थत्वादसम्बन्धः समत्वात् स्यादिति" न्यायेन सर्वे सेवका राजानमिव भावनायामेव परस्परनिरपेक्षाण्यवियन्ति । न हि भिक्षुकोऽपि भिक्षुकान्तरं याचितुमर्हति सत्यन्यस्मिन्नभिक्षुकइति न्यायेनापि फलं त्यक्त्वा भावनायामेवान्वियन्तीति मीमांसका अपि मन्यन्ते । एवञ्च विशेष्यतया कारकादिप्रकारकबोधं प्रति धातुजन्यभावनोपस्थितिहेतुरिति कार्यकारणभावस्य क्लुप्तत्वात् यत्रापि पक्ता पाकइत्यादौ भावना गुणभूता तत्रापि क्लृप्तकार्यकारणभावानुरोधात्तस्यामेवान्वयइत्यवसीयते इत्यादि भूषणे अपश्चितम् । केचित्तु भूतले घटः देवदत्तोघटमित्यादावन्वयबोधाकाङ्क्षानिवृत्त्योरदर्शनान तद्व्यातरेकेणसाधुत्वलाभ इत्याहुः ॥ १८ ॥
___ खयमुपपत्तिमाह । यदि पक्षेऽपि व्रत्यर्थः कारकञ्च नत्रादिषु । अन्वेति त्यज्यतां तर्हि चतुर्थ्यास्पृहिकल्पना ॥
* ननु सम्बोधनान्तादीनां क्रियान्वये एव साधुत्वे पर्वतो वन्हिमान्महानसवदित्यादौवत्यर्थसादृश्यस्य कथं पर्वतेऽन्वयः कथं वा भूतले
Page #28
--------------------------------------------------------------------------
________________
२८
वैयाकरणभूषणसारे पर्वतोवह्निमान् धूमात् महानसवत् भूतले न घटः भूतले घट इत्यादिपदात् एवमादिष्वनुशासनविरोधेऽपि यदि साधुत्वमन्वयश्चाभ्युपेयते तर्हि चतुर्थ्या स्पृहिकल्पनापि त्यज्यतामित्यर्थः । अनुशासनानुरोधतौल्ये अर्धजरतीयम*युक्तमिति भावः ॥१८॥
एवं कर्नादौ विहितानामिन्यादीनां क्रिययैवान्वयइत्याह । अविग्रहा गतादिस्था यथा ग्रामादिकर्मभिः । क्रिया सम्बध्यते तद्वत्कृतपूर्व्यादिषु स्थिता ॥
.. न विविच्य ग्रहो ग्रहणं यस्याः सा अविग्रहा गुणीभूतेति यावत् । तथा च ग्रामं गतइत्यत्र यथा क्तप्रत्ययार्थे गुणीभूतापि क्रिया प्रामादिकभिः सम्बध्यते तथा कृतपूर्वी कटमित्यत्रापि न घट इत्यत्र सप्तम्यर्थभूतलाऽऽधेयत्वस्य तथाऽभाव इत्यत आह । मूले । यदिपक्षेऽपीति । पक्षेप्रतिज्ञावाक्यजन्यबोधबिशेष्य सन्दिग्धसाध्यके धर्मिणि पर्वतादाविति यावत् ।
* इदमर्थे गहादित्वाच्छः क्वचिदनुशासनाऽनुरोधः कचिन्नेत्यर्द्धजरतीसहशमित्यर्थः । तथा च स्वीयसिद्धान्तप्रच्युतिरूपबाधकभिया.. त्राऽपि पर्वतो वह्निमान् भवितुमर्हतीत्येव प्रतिज्ञाङ्गीकरणीया न तु क्रियावाचकपदशून्या सेति नोक्तनियमे व्यभिचारो भूतले न घट इत्यादौ यद्वक्तव्यं तत्तूक्तं वक्ष्यते वाऽधिकमिति भावः ।
+ नन्वत्र कर्मणि क्ते कटशब्दादनाभहिताऽधिकारीय द्वितीयाs नुपपत्तिः भावे क्तस्तु सकर्मकाद्गगनकुसुमायमान एव तयोरेवेति नियमात् । अतएव नपुंसके भावेऽपि न सः । तथा च कथ मुक्तदाीन्तिकवाक्योपपत्तिरिति चेत्राऽऽहुः । कर्मणो विशेषरूपेण प्राग विवक्षयाऽकर्मकत्वाद्भावे प्रत्यये तदन्तस्य पूर्वशब्देन समासे सपूर्वाश्वेतीनिः पश्चात्तु कर्मणो विशेषरूपस्य विवक्षया तत्र द्वितीयेति इदं च कर्तृकर्मणोः कृतीति भाष्ये स्पष्टम् । इदृशविवक्षाऽविवक्षे च तद्भाष्यप्रामाण्यात्कृतपूर्वीत्यादिविषय एव नाऽन्यविषयइति बोध्यम् ।
Page #29
--------------------------------------------------------------------------
________________
धात्वर्थनिर्णयः
गुणभूता इन्यादिभिरित्यर्थः । नच वृत्तिमात्रे समुदायशक्तेर्वक्ष्यमाणत्वातत्रान्तर्गता भावना पदार्थकदेशइति कथं तत्रान्वयइति वाच्यम् नित्यसापेक्षेष्वेकदेशेऽपि “देवदत्तस्यगुरुकुलं ”““चैत्रस्यनप्ते त्यादाविवान्वयाभ्युपगमात् । एवं भोक्तुं पाकः भुक्त्वा पाकइत्यपि द्रष्टव्यम् ।। १९ ।।
अतिप्रसङ्गमाशङ्कय संमाधत्ते ।
२९
कृत्वोर्थाः क्त्वातुमुन्वत्स्युरिति चेत्सन्ति हि क्वचित् अतिप्रसङ्गोनोद्भाव्योऽभिधानस्य समाश्रयात् ॥
भोक्तुं पाकः भुक्त्वा पाकइत्यादौ “तुमुण्ण्वुलौं क्रियायां क्रियार्थायाम्” “समानकर्तृकयोः पूर्व्वकाल,, इति क्रियावाचकोपपदे क्रिययोः पूर्वोत्तरकाले विधीयमाना अपि तुमुन्नादयो गुणभूतां तामादाय यथा जायन्ते तथा कृत्वोऽर्था अपि स्युः । एकः पाकइत्यत्र “एकस्य सकृच्च, द्वौपाक त्रयश्चत्वारइत्यत्र “द्वित्रिच - तुर्भ्यः सुच्,, । पञ्चेत्यत्र कृत्वसुच् स्यात् । तथा च सकृत्पाकः द्विः त्रिश्चतुः पाक इत्याद्यापत्तिरिति चेदिष्टापत्तिः द्विर्वचनामित्यादिदर्शनात् । . अतिप्रसङ्गस्त्वनभिधानान्नेत्याह । अतीति । “नहिवचिरन्तिपरः प्रयुज्यत, इत्याद्यभियुक्तोक्तरीत्या समाधेयमिति भावः । कोचत्तु “क्रियाभ्यावृत्तिगणन, इत्यत्र क्रियाग्रहणं व्यर्थ तस्याए -
* तथा च गुरुत्वादेरन्यनिरूप्यत्वेन तदुपस्थितौ नियमेन जायमानाया निरूपकाऽऽकाङ्क्षाया निवृत्तये देवदत्ताऽऽद्यन्वयवत्प्रकृतेऽपि किं साधकं गमनरूपसाध्यमिति साधनाऽऽकाङ्क्षानिवृत्तये ग्रामादिकर्माऽन्वयस्याऽऽवश्यकत्वान्न दृष्टान्ताऽसङ्गतिरिति भावः ।
Page #30
--------------------------------------------------------------------------
________________
वैयाकरणभूषणसारे
वाभ्यावृत्तिसम्भवेन सामथ्र्यात्तल्लाभात् । तथा च साध्यमात्रस्वभावक्रियालाभाय तदिति वाच्यम् । नच पाकइत्यादौ तादृशीति नातिप्रसङ्गः । द्विर्वचनमिति च द्विःप्रयोगोद्विर्वचनमिति व्युत्पत्या “द्विर्वचनेऽचीति,, ज्ञापकं वा आश्रित्योपपादनीयमित्याहुः ॥ २० ॥
ननु सिद्धान्ते बोधकतारूपा शक्तिराख्यातशक्तिग्रहवतां बोधादायक इति धातोरवे भावना वाच्या नाख्यातस्येति कथं निर्णय इत्याशङ्कां समाधत्ते ।
भेद्यभेदकसम्बन्धोपाधिभेदनिबन्धनम् । साधुत्वं तदभावेऽपि बोधो नेह निवार्य्यते ॥२१॥
है
भेद्यं विशेष्यं भेदकं विशेषणं तयोर्यः सम्वन्धस्तस्य योभेदः तन्निबन्धनं साधुत्वम् । अयमर्थः । व्याकरणस्मृतिः शब्दसाधुत्वपरा तत्रैवावच्छेदकतया कल्पयधर्म्मस्य शक्तित्वं वदतां मीमांसकानां पुनः शक्तत्वं साधुत्वमित्येकमेवेति तद्रीत्या विचारे साधुत्वनिर्णयएव शक्तिनिर्णयउच्यते । अतिरिक्तशक्तिवादेऽप्याख्यातानामसाधुता भावनायां स्यादेव तथा च चतुर्थ्यर्थे तृतीयाप्रयोगवद्धात्वर्थभावनायामाख्यातप्रयोगे याज्ञे कर्म्मण्यसाधुशब्दप्रयोगात् " नानृतं वदे., दिति निषेधोल्लंघनमयुक्तो प्रायश्चित्तं दर्शनान्तरीयव्युत्पत्तिमतां स्यादिति । ननु त्वन्मते नानृतमिति निषेधः क्रत्वर्थएव न सिध्यते आख्यातेन कर्तुरुक्तत्वात् श्रुत्या पुरुषार्थएव स्यात् प्रकरणादि क्रत्वर्थता तच्च श्रुतिविरोधेवाध्यतइति चेन्न तिङर्थस्तु विशेषणमित्यनेन परिहृतत्वात् न हि गुणभूतः कर्त्ता निषेधं स्वाङ्गत्वेन
३०
Page #31
--------------------------------------------------------------------------
________________
लकारार्थनिर्णयः। ग्रहीतुमलम् भावना तु प्रधानं तं ग्रहीतुं समर्थेति प्रकरणात् क्रत्वर्थतव। अस्तु वा ऋतुयुक्तपुरुषधर्मः अनुष्ठानविशेषाभावात् "जञ्जभ्यमानो न व्यान्मायदक्षक्रतू ,, इति वाक्योक्तमन्त्रविधिवदित्यादि भूषणे प्रपश्चितम् । नन्वाख्यातस्य भावनायामसाधुत्वे ततस्तद्धोधो न स्यात् साधुत्वज्ञानस्य शाब्दबोधहेतुत्वादित्यत आह बोधात असाधुत्वेऽपि साधुत्वभ्रमाद्बोधोऽस्तु नाम अपभ्रंशवत् । असाधुत्वन्तु स्यादेवेतिभावः वस्तुतः साधुत्वज्ञानं न हेतुस्तद्वयतिरेकनिर्णयोऽपि न प्रतिबन्धक इत्यसाधुरनुमानेनेत्यत्र वक्ष्यामः २१॥
रङ्गोजिभट्टपुत्रेण कौण्डभट्टेन निम्मिते । पूर्णाभूषणसारेऽस्मिन् धात्वाख्यातार्थ निर्णयः । इति वैयाकरणभूषणसारे धात्वाख्यातसामान्यार्थयोर्निरूपणम् ।
अथ लकारार्थनिरूपणम् । प्रत्येकं दशलकाराणामर्थ निरूपयति । वर्तमाने परोक्षे श्वो भाविन्यर्थे भविष्यति । विध्यादौ प्रार्थनादौचक्रमात्ज्ञेयालडादयः २२ ____ लड़ादयष्टितः षट् क्रमेणार्थेषु द्रष्टव्याः । तथाहि वर्तमानेऽर्थे लद, "वर्तमाने लाहि, ति सूत्रात् । प्रारब्धापरिसमाप्तत्वं भूतभविष्यद्भिन्नत्वं वा वर्तमानत्वम् । पचतीत्यादावधिश्रयणाद्यधःश्रयणान्ते मध्ये तदस्तीति भवति लट्मयोगः।आत्मास्ति पर्वताः
Page #32
--------------------------------------------------------------------------
________________
३२
वैयाकरणभूषणसार सन्तीत्यादौ तत्तत्कालिकीनां क्रियाणामनित्यत्वात्तद्विशिष्टस्योत्पत्यादिकमादाय वर्तमानत्वमूह्यम् उक्तञ्च भाष्ये "इह भूतभावष्यद्वर्तमानानां राज्ञां क्रियाः तिष्ठतेरधिकरणमिति,,।
परतोभिद्यते सर्वमात्मा तु न विक्सपते । पर्वतादिस्थितिस्तस्मात्पररूपेण भिद्यत इति ।
वाक्यपदीये च । एवं "तमआसीत्,, "तुच्छेनाभ्यापिहितं यदासीत्,, "अहमेकः प्रथममासं वामि च भाविष्यामि,, चेत्यादिश्रुतयोऽपि योंज्याः, तच्च वर्तमानत्वादि लड़ादिाभोत्यते, क्रियासामान्यवाचकस्य तद्विशिष्टे लक्षणायां लड़ादिस्तात्पर्य्यग्राहकत्वेनोपयोगात्, अन्वयव्यतिरेकाभ्यां तद्रूपं लड़ादिवाच्यमेव, अन्यथाप्रत्ययानां वाचकत्वविलोपापत्तिरित्यापि पक्षान्तरम् ॥
लिडर्थमाह परोक्षे इति “परोक्षे लिडिति,, मूत्रात् , कालस्तावदद्यतनानद्यतनभेदेन द्विविधः द्विविधोऽपि भूतभविष्यद्रूपः, तित्रानद्यतने भूते परोक्षे लिडित्यर्थः, तेनाद्यतने मृते अनद्यतने चे न लिट् प्रयोगः स्यात्, परोक्षत्वञ्च । साक्षात्करोमीत्येताहशविषयताशालिज्ञानाविषयत्वम् , नच "क्रिया नामेयमत्यन्तापरिदृष्टा पूर्वापरीभूतावयवा न शक्या पिण्डीभूता निदर्शयितुं,, मिति . * वाचकत्वपक्षमवलम्ब्याऽऽह । अन्वयव्यतिरेकाभ्यामित्यादि । न च तक्रकौण्डिन्यन्यायात्कळद्यर्थ बाधः शक्तताऽच्छेदकभेदात् किं चैवं लाकमणीतिसूत्रं निरवकाशं स्यात् स्थलाऽन्तरेऽपि विध्याद्यर्थैर्बोधसम्भवादिति भावः।
। ननु परोक्षत्वं प्रत्यक्षाऽन्यज्ञानविषयत्वम् । तथाच प्रत्यक्षक्रियायामपि श्रुतानुमितत्वयोः सत्वात्पपाचेत्यादिप्रयोगाऽऽपत्तिरत आह । परोक्षत्वञ्चेति ।
Page #33
--------------------------------------------------------------------------
________________
लकारार्थनिर्णयः। ३३ भाष्यात्तस्या अतीन्द्रियत्वेन परोक्षे इत्यव्यावर्तकमितिशङ्कयम् पिण्डीभूतायानिदर्शायतुमशक्यत्वेऽप्यवयवशः साक्षात्करोमीति प्रतीतिविषयत्वसम्भवात् अन्यथा पश्यमृगोधावत्यत्र तस्या दर्शनकर्मता न स्यादिति प्रतिभाति व्यापाराविष्टानां क्रियानुकूलसाधनानामेवात्र पारोक्ष्यं विवक्षितमतोनोक्तदोषः अयं पपाचेत्याद्यनुरोधाद्व्यापाराविष्टानामित्यपि वदान्त कथं तर्हि "व्यातेने किरणावलीमुदयन" इति स्वक्रियायाः स्वप्रत्यक्षत्वादिति चेत् असङ्गत मेव व्यासङ्गादिना स्वव्यापारस्य परोक्षत्वोपपादनेऽपिअनद्यतनातीतत्वयोरभावेन तदर्थकलिड़सम्भवात् ।
लुड़र्थमाह श्वोभाविनीति अनद्यतने भाविनीत्यर्थः "अनद्यतने लाड़ति,, सूत्रात् यथा श्वोभवितेत्यादौ ।
लुइर्थमाह भविष्यतीति भविष्यत्सामान्ये इत्यर्थः "लुद् शेषे च इति सूत्रात् यथा घटोभविष्यतीत्यादौ तत्त्वञ्च * वर्तमानपागभावप्रतियोगिसमयोत्पत्तिमत्त्वम् ।
.
_* नन्वहमेकःप्रथममासं वामिभविष्यामि चेत्यत्रधात्वर्थ सत्तायांवर्तमानप्रागभावप्रतियोगित्वस्य भविष्यत्त्वस्य वाधात्तदर्थकाद्भविष्य दर्थकप्रत्ययाऽप्रसक्तिरत आह । तत्त्वश्चेति । वर्तमानप्रागभावप्रतियोग्युत्पत्तिकसमयवत्त्वमिति पाठः। तथा च तदर्थव्यापाराऽधिकरणस्य कालस्याऽनित्य राजक्रियाऽऽद्यात्मकस्योक्तभविष्यत्त्वात्तदादायैव लुडु पपत्तिीरति यथाश्रुतार्थाऽनुसारिणः । अन्ये तु ननु येषां मते नश्यत्या दिधातूनां नाशमात्रमर्थस्तेषां भविष्यत्वस्य वर्तमानप्रागभावप्रतियोगि स्वसत्वे श्वोभाविनाशके परश्वो नझ्यतीति प्रयोगाऽऽपत्तिः वर्तमान नाशप्रागभावप्रतियोगिनि तन्नाशे परश्वस्तनकालवृत्तित्वसत्त्वात्। नच परश्वस्तनकालस्यभविष्यत्त्वघटकप्रागभावेऽन्वयाऽभ्युपगमात्तस्य च तत्प्रागभावे बाधान्नोक्तप्रयोगाऽऽपत्तिरिति वाच्यम् । तथा सति श्वोभा.
Page #34
--------------------------------------------------------------------------
________________
३४ .
वैयाकरणभूषणसारे लेटोऽर्थमाह विध्यादाविति “लिङथै लोड़ति,, सूत्रात् लिङर्थश्च विध्यादिरिति वक्ष्यते ।
लोडर्थमाह प्रार्थनेति आदिना विध्याद्याशिषागृह्यन्ते 'आशिषि लिङ् लोटौ,, "लोद चे,, ति सूत्राभ्यां तथावगमात् यथा, भवतु ते, शिवप्रसादइत्यादौ एतयोरर्थोलिङथएव त्रयाणां समानार्थत्वादिति तनिर्णयेनैव निर्णयः ॥ २२ ॥
लडादिक्रमेण डितामर्थमाह। ह्योभूते प्रेरणादौ च भूतमात्रे लङादयः। सत्यां क्रियातिपत्तौ च भूते भाविनिलमृतः॥
लङर्थमाह ( योभूतइति ) अनद्यतने भूतइत्यर्थः “अनघतने लङिति,, सूत्रात् यथास्य पुत्रोऽभवदित्यादि।
लिर्थमाह प्रेरणादाविति "विधिनिमन्त्रणामन्त्रणाधीटसंप्रश्नप्रार्थनेषु लिङि, ति सूत्रात् (विधिः) प्रेरणं भृत्यादेनिकृष्टस्य प्रवर्त्तनम् (निमन्त्रणम् ) नियोगकरणम् आवश्यके प्रेरणेत्यर्थः ( आमन्त्रणम् ) कामचारानुज्ञा ( अधीष्टम् ) सत्कारपूर्वकोव्यापारः एतच्चतुष्टयानुगतप्रवर्तनात्वेन वाच्यता लाघवात* उक्तश्च।
विनाशकेऽपिश्वो नक्ष्यतीति प्रयोगाऽनुपपत्तिः। तन्नाशप्रागभावे श्वस्त नकालसम्बन्धबाधादत आह । तत्त्वश्चेति । ___ * लाघवादिति । तस्य शक्यताऽवच्छेदकत्वकल्पने लाघवा दित्यर्थः। विधिवाक्याद्विध्यादीनां बोधस्य सर्वसिद्धत्वेऽपि तत्तद्रूपस्य शक्यताऽवच्छेदकत्वकल्पने गौरवादुक्ताऽनुगतरूपस्यैव शक्यता ऽवच्छेदकत्वमुचितमितिभावः ।
Page #35
--------------------------------------------------------------------------
________________
धात्वर्थनिर्णयः ।
1
अस्ति प्रवर्त्तनारूपमनु चतुर्ष्वपि । तत्रैव लिङ् विधातव्यः किं भेदस्य विवक्षया ।। न्यायव्युत्पादनार्थ वा प्रपञ्चार्थमथापि वा । विध्यादीनामुपादानं चतुर्णामादितः कृतमिति ॥
A प्रवर्त्तनात्वञ्च प्रवृत्तिजनकज्ञानविषयतावच्छेदकत्वं तच्चेष्टसाधनत्वस्यास्तीति तदेव*विध्यर्थः यद्यप्येतत् कृतिसाध्यत्वस्यापि तद्भानस्यापि प्रवर्त्तकत्वात्तथापि यागादौ सर्व्वत्र तल्लोकतएव गम्यतइत्यन्यलभ्यत्वान्नतच्छक्यम् वलवदनिष्टाननुबन्धित्वज्ञानञ्च न हेतुः द्वेषाभावेनान्यथासिद्धत्वात् आस्तिककामुकस्य नरकसा
* तदेवेति । इष्टसाधनत्वमेवेत्यर्थः ॥ एवकारेण कृतिसाध्यत्वाऽऽदिव्यवच्छेदः ॥ इष्टत्वं च समभिव्याहृतपदोपस्थापितकामनाविषयत्वं ॥ स्वर्गकामो यजेतेत्यत्र स्वर्गकामपदोपस्थापित कामनाविषयत्वस्य स्वर्गे सत्त्वादिष्टत्वं तस्याऽक्षतम् ॥ तेनैव च स्वर्गादीष्ठानामनु गमः ॥ यदि च सामान्यत इष्टसाधनत्वज्ञाने प्रवृत्त्यनुदयात्तदूरूपेण स्वर्गत्वाऽऽदिना स्वर्गसाधनताज्ञानं तथा वाच्यम् । तथा च तेन रूपे णेष्टसाधनत्वस्य श्रुतेरनवगमाद्विधिवाक्यात्कथं प्रवर्तकज्ञाननिर्वाह इति विभाव्यते तष्टताऽवच्छेदकत्वेन स्वर्गत्वादीननुगमय्य तदयच्छिन्नसाधनत्वे विधेः शक्तिरुपगन्तव्या ॥ एवं च न विधेर्नानार्थत्वमपि तदादिवत् ॥ इष्टताऽवच्छेदकत्वस्योपलक्षणत्वोपगमाश्च न स्वर्ग त्वादीनां तद्रूपेण भानाऽऽपत्तिः ॥ अथ स्वर्गकामो ज्योतिष्टोमेन यजेतेत्यत्र श्रुत्या स्वर्गसाधनत्वं ज्योतिष्टोमे बोधनीयम् ॥ तच्च न सम्भवति वाजपेयादपि स्वर्गेौत्पत्तेव्यभिचारात् ॥ वैजात्यस्य चोत्तरकालकल्प्यत्वेन पूर्वमनुपस्थितत्वादिति चेन्न ॥ घटं द्रव्यत्वेनैव जानातीत्यादौ घटत्वोपलक्षितव्यक्तितद्विशेष्यकद्रव्यत्वप्रकारकज्ञानाऽवगम
वत्स्वर्गत्वाऽऽश्रययत्किञ्चिद्व्यक्तिसमानाधिकरणाऽभावा ऽप्रतियोगित्वमेव श्रुत्या यागेऽवगम्यतेऽथवा यागाऽनुत्तरकालाऽवृत्तित्वमेवे स्वर्गत्व सामानाधिकरण्येनेति न कश्चिद्दोषः ॥
Page #36
--------------------------------------------------------------------------
________________
वैयाकरणभूषणसारे धनताज्ञानदशायामप्युत्कटेच्छया द्वेषाभावदशायां प्रवृत्तेर्व्यभिचाराच्च तस्मादिष्टसाधनत्वमेव प्रवर्तना, उक्तञ्च मण्डनामश्रेः ।
पुंसां नेष्टाभ्युपायत्वात् क्रियास्वन्यः प्रवर्तकः । प्रवृत्तिहेतुं धर्मञ्च प्रवदन्ति प्रवर्तनामिति ।
प्रपञ्चितं चैतद्वैयाकरणभूषणे आदिना “हेतुहेतुमतोलिङ्, "आशिषि लिङ लोटौ" इत्यादिसूत्रोक्ता हेतुहेतुमद्भावादयो गृह्य, न्ते “योब्राह्मणायावगुरेत्तं शतेन यातयादिति,, यथा ।।
लुङर्थमाह ( भूतमात्रे इति ) भूतसामान्ये इत्यर्थः भूतइत्य, धिकृत्य "लुङिति,, सूत्रात तत्र विद्यमानध्वंसप्रतियोगित्वं भूतत्वम् तच्च क्रियायां निबोधमिति विद्यमानेऽपि घटे घटोऽभूदिति प्रयोगः विद्यमानध्वंसप्रतियोगी घटाभिन्नाश्रयक उत्पत्याउनुकूलोव्यापार इति बोधः अयमत्र संग्रहः कालो द्विविधः अद्यतनोऽद्यतनश्च आद्यस्त्रिविधिः भूतभविष्यद्वर्तमानभेदात् अन्त्योद्विविधः भूतोभविष्यश्च तत्र वर्तमानत्वे लट् भूतत्वमात्रे लुङ् भविष्यत्तामात्रेलूट हेतुहेतुमद्भावाद्यधिकार्थ विवक्षायामनयोलिङ अनद्यतने भूते तत्त्वेन विवक्षिते लङ् तव परोक्षत्वविवक्षायां लिट् तादृशे भविष्यात लुट् इति द्रष्टव्यः।
लुर्थमाह ( सत्यामिति ) क्रियाया अतिपत्तिरानिष्पत्तिः तस्यां गम्यमानायाम् (भूते भाविनि ) हेतुहेतुमद्भावे सति लडित्यर्थः "लिनिमित्ते लुङ् क्रियातिपत्ताविति, सूत्रात् लिडोनिमित्तं हेतुहेतुमद्भावादि यथा सुदृष्टिश्चेदभाविष्यत् सुभिक्षमभविष्यत् बाह्नश्चेत्याज्वालिष्यत् ओदनमपक्ष्यदित्यादौ अब वह्नय
Page #37
--------------------------------------------------------------------------
________________
सुषर्थनिर्णयः। भिनाश्रयकप्रज्वलनानुकूलव्यापाराभावप्रयुक्त ओदनाभिन्नाश्रयकविक्लित्त्यनुकूलव्यापाराभावइति शाब्दबोधातरीत्या द्रष्टव्यम् अयञ्च अनिर्देश उपलक्षणम् अर्थान्तरेऽपि बहुशोविधानदशनात प्रसिद्धत्वादेष्वेवार्थेषु शक्तिरन्यत्र लक्षणेति मतान्तरत्यिा चोक्तम् एतेषां क्रमनियामकश्चानुबन्धक्रमएव अतएव पञ्चमोलकार इत्यनेन मीमांसकैलेंटव्यवाहियत इति दिक* ॥२३॥ ___ इति वैयाकरणभूषणसारे लकारावशेषानिरूपणम् ।
अथ सुबर्थनिर्णयः। सुवर्थमाह। आश्रयोऽवधिरुद्देश्यः सम्बन्धः शक्तिरेव वा । यथायथं विभक्त्या “सुपां कम्मति,, भाष्यतः॥
द्वितीयातृतीयासप्तमीनामाश्रयोऽर्थः तथाहि "कमणि द्वितीया,, तच्च कर्तुरीप्सिततमम् , क्रियाजन्यफलाश्रया इत्यर्थः क्रियाजन्यफ
* ननु मात्र प्रत्ययस्य तिबादेरदर्शनम् तत्र द्योतकत्वं वाचकत्वं वेति पक्षद्वयेऽप्यनुपपत्तिः वाचकस्य द्योतकस्य वाऽसत्त्वेन वर्तमानत्वाऽऽदिबोधस्योपपादयितुमशक्यत्वादत आह । दिगिति। तदर्थस्तु पदं वाचकमिति पक्षे प्रकृतिप्रत्यय विभागकल्पनया वाचकत्वं तत्राऽ. ऽरोप्य पदशक्तिरेव व्युत्पाद्यते यत्र प्रत्ययस्य प्रकृतेर्वाऽश्रूयमाणत्वं तत्र श्रूयमाणस्यैव तदर्थकत्वं कल्प्यते । तदाहुः। शिष्यमाणं लुप्यमानाऽ. र्थाऽभिधायोति । अत एव व्यातसे इरियानित्यादौ प्रत्ययमात्रात्प्रकृत्ययविषयको बोध इत्यादिः॥ + ननु यथाश्रुते कर्तुरोप्सिततममित्यनेन कर्तृसम्वन्धिप्राप्तीच्छा
Page #38
--------------------------------------------------------------------------
________________
वैयाकरणभूषणसारे लवत्त्वेन कर्मणएव कर्तुरीप्सिततमत्वात् "तथा युक्तञ्चानीप्सित,, मित्यादिसंग्रहाच्चैवमेवयुक्तम् इप्सितानीप्सितत्वयोः शाब्दबोधे भानाभावेन संज्ञायामेव तदुपयोगो नतु बाच्यकोटौ तत्प्रवेशः तथा विशेष्यस्यैव कर्मत्वं प्रतिपाद्यते न तु क्रियाजन्यफलाऽऽश्रयस्येत्यत आह । क्रियाजन्यफलाश्रयत्वे नेति । अयं भावः । सूत्रे ईप्सिततमशब्द आप्नोतरिच्छासन्नन्तात्कर्मक्तान्तात्प्रकृत्यर्थाऽतिशयद्योतके तमपि निपन्नस्तद्योगाश्च कत्लॅशब्दात् क्तस्यच वर्तमान इति कतीर षष्ठी । तथा च कर्जपस्थितत्वात्स्वीयव्यापारेण व्याप्तुमिष्यमाणतमं व्यापारजन्यफलसम्बन्धित्वप्रकारककर्तृनिष्टोत्कटेच्छावि यः कर्मेति पयंवसानाक्रियाजन्यफलाऽऽश्रयस्य कर्मतालाभ इति । न चेच्छाकर्मी भूताऽर्थधातोरेव धातोःकर्मणइति सूत्रणेच्छायां सनो विधानाव्या. पाच्छार्थकसम्नन्तधातुना व्याप्तिरूपकर्मोपसंग्रहाज्जीवत्यादिवदकर्मकतया ततः कथं कर्मक्तोपपत्तिरिति वाच्यम् । धात्वर्थोपसगृहीतकमत्वामत्यत्र कर्मणा तद्धात्वर्थीयकर्मान्तराऽनाकांक्षत्वविशेषण सन्प्र. कृतिधात्वर्थकर्मणः काऽन्तरसाऽऽकांक्षत्वेनोक्ताऽकर्मकत्वस्य सन्नन्तेऽसम्भवात् एवं सन्नन्तस्य वृत्तितया तघटककर्माऽऽदाय कर्म संशकाऽन्वय्यर्थकत्वरूपसकर्मकत्वाऽभावेऽपि तद्वाहभूतकर्माऽन्वयित्वमादायैव सकर्मकत्वं वोध्यमेव फलताऽवच्छेदकसम्बन्धेन तद्धात्व. थफलव्यधिकरणब्यापारवाचकत्वरूपं तदपीति नेप्सत्यादितः कर्मप्रत्ययाऽनुपपत्तिः। जिघ्रतेरपि स्वार्थाऽन्तरभूतकर्मणस्तदीयपुष्पाऽऽ दिकर्माऽन्तरसाऽऽकांक्षत्वमस्त्येव। गन्धनिरूपितलौकिकविषयितायां पुष्पादेराधेयत्वीयसांसर्गिकविषयतानिरूपितप्रकारतानिरूपकत्वेनाऽ न्वयेनाऽकर्मकत्वात् । कृष्णाय राध्यतीत्यस्य कृष्णस्य शुभाऽशुभं पर्यालोचयतीत्यर्थान्न धात्वर्थान्तभूतशुभकर्मणः कर्माऽन्तरसाऽऽकांक्षत्वमिति न तत्राऽप्रसङ्गः बुभूषेत्यादीनां तु भवनादिकर्मणः कर्माऽन्तराऽनाकांक्षस्य धात्वर्थतावच्छेदककोटिप्रविष्ठत्वादकर्मकत्वं व्यक्तमेव । एवं स्वर्यत इति भाष्यप्रयोगस्थस्वर वद्रूपविकृतिकर्मणः सन्निहितशब्दरूपप्रकृतिकर्मसाकांक्षतया करोत्यर्थणिजन्तात्कर्मप्रत्ययोपपत्तिरिति बोध्यम् । केचितु सनाद्यन्तस्य धात्वर्थोपसगृहातत्वेनाकर्मकत्वेऽपि तत्प्रकृतेः सकर्मकत्वमादाय तस्मात्कर्मप्रत्ययोपपत्तिमाहुः ।
Page #39
--------------------------------------------------------------------------
________________
सुबर्थनिर्णयः ।
३९
च क्रियायाः फलस्य च धातुनैव लाभादनन्यलभ्य आश्रयएवार्थः तत्त्वञ्चाखण्डशक्तिरूपमवच्छेदकम्, *ओदनं पचतीत्यत्र विक्लित्त्या श्रयत्वात्कर्म्मता घटं करोतीत्यत्रोत्पत्न्याश्रयत्वात् उत्पत्तेर्धात्वर्थत्वात् जानातत्यित्रावरणभङ्ग ं रूपज्ञाधात्वर्थफलाश्रयत्वात् अतीतानागतादिपरोक्षस्थलेऽपि ज्ञानजन्यस्य तस्यावश्यकत्वात् अन्यथा यथा पूर्व्वं न जानामीत्यापत्तेः अतीतादेराश्रयता च विषयतया ज्ञाना
* अखण्डशक्तिरूपमिति । शक्तिर्धर्मः इतरपदार्थाघटितमूर्तिकधर्मरूपमिति यावत् आश्रय इत्यनुगतव्यवहारादाश्रयपदशक्यता - वच्छेदकत्वाश्च तत्सिद्धिद्रव्यत्वादिवदिति भावः । नैयायिकास्तु आश्रयताया नियतान्यनिरूपितस्वरूपाया अनुगमकत्वसम्भवः शक्यतावच्छेदकत्वस्यापि विभुत्वान्यतरत्वादौ व्यभिचारेण नाखण्डत्वसाधकत्वमिति न द्वितीयाया आश्रयोर्थः तस्य प्रकृत्यैव लाभात् प्रकृत्य
भिन्नत्वेन तत आश्रयस्याननुभवाच्च । किं तु फलान्वायनी कृतिरेव तदर्थः । कर्मणि द्वितीयेत्यस्य फलनिष्ठाधेयत्वान्वये प्रकृतितात्पय्ये तदुत्तरं द्वितीयेत्यर्थात् तद्विरोधोपि अनादितात्पर्यग्राहकत्वेन परम्परया शक्तिग्राहकत्वाच्च न तद्वैय्यर्थ्यम् । आश्रयत्वं तु न तच्छक्यं तस्य निरूपकतासम्बन्धेनैव फलान्वयित्वस्या भ्युपगन्तव्यतयानिरू पकत्वस्य च वृत्त्यनियामकतया भावप्रतियोगितानवच्छेदकत्वेन विहगो भूमिं गच्छति न महीरुहमित्यादौ धात्वर्थफले संयोग महीरुह निष्ठाश्रयतायास्तेन सम्बधेनाभावस्याप्रसिद्धतया तत्राबोधत्वा सम्भवान्न च सूत्रस्वरसभङ्गः । शक्तिः कारकमितिपक्षे तदयोगात् आधेयताया अपि निरूपकतया कारकधर्मत्वादित्याहुः ।
+ आवरणभङ्गेति । प्रचनिमताऽनुसारेणेदं निकृष्टमते तु शानरूपफलस्यविषयतया घटादौ सत्त्वात्कर्मतेति बोध्यम् । न चाकर्मकतापत्तिः फलतावच्छेदकसम्बन्धेन सामानाधिकरण्याभावात् । नैयायिकमते त्वेतादृशस्थले यथा घटादीनां कर्मत्वम् तथोपपादितम् धात्वर्थनिरूपणावसरे |
Page #40
--------------------------------------------------------------------------
________________
४०
वैयाकरणभूषणसार श्रयता नैयायिकानामिव सत्कार्यवादसिद्धान्ताद्वोपपद्यते इति उक्तञ्च ।
तिरोभावाभ्युपगमे भावानां सैव नास्तिता ।
लब्धक्रमे तिरोभावे नश्यतीत प्रतायतइति ॥ ननु चैत्रोग्रामं गच्छतीत्यत्र ग्रामस्येव चैत्रस्यापि क्रियाजन्यग्रामसंयोगरूपफलाश्रयत्वात्कर्मतापत्तौ चैत्रं चैत्रो गच्छतीत्यापत्तिः, प्रयागतः काशीं गच्छति चैो प्रयागं गच्छतीत्यापत्तिश्च क्रियाजन्यसंयोगस्य काश्यामिव विभागस्य प्रयागेअप सत्त्वादिति चेन्न ग्रामस्येव चैत्रस्यापि फलाश्रयत्वेऽपि तदीयकर्तृसंज्ञया कर्मसंज्ञाया बाँधेन चैत्रश्चैतमिति प्रयोगासम्भवात् द्वितीयोत्पत्तौ संज्ञायाएव नियामकत्वात् अन्यथा गमयति कृष्णं गोकुलमित्यतेव पाचयाति कृष्णेनेत्यतापि कृष्णपदावितीयापत्तेः शाब्दबोध श्चैतामत्यत् स्यादिति चेन्न तथा व्युत्पन्नानामिष्टापत्तेः उच्यतां वा प्रकारतासम्बन्धेन धात्वर्थफलविशेष्यकबोधं प्रतिधात्वर्थव्यापारानाधिकरणाश्रयोपस्थितिहेतुरित कार्यकारणभावान्तरम्, प्रकृते चैत्रस्य व्यापारानधिकरणत्वाभावान दोषः प्रयागस्य कर्मत्वन्तु सम्भावितमाप न, समभिव्याहृतधात्वर्थफलशालित्वस्यैव क्रियाजन्येत्यनेन विवक्षणस्यउक्तपायत्वात् नैयायिकास्त्वायदोषवारणाय परसमवेतत्वम् ड्वितीयदोषवारणाय धात्वर्थतावच्छदेकत्वं फले विशेषणं द्वितीयावाच्यमित्युपाददते परसमेवतत्वं धात्वर्थक्रियायामन्वति तथैव कार्यकारणभावान्तरकल्पनात्, परत्वमपि द्वितीयया स्वप्रकृत्यर्थापेक्षया बोध्यते । तथाच चैत्रस्तण्डुलं पचति
Page #41
--------------------------------------------------------------------------
________________
सुवर्थनिर्णयः । इत्यादौ तण्डुलान्यसमवेतव्यापारजन्यधात्वर्थतावच्छेदकवि क्लित्तिशालित्वात्तण्डुलानां कर्म्मता । शाब्दबोधस्तु तण्डुलसमवेतधात्वर्थतावच्छेदकबिक्लिन्यनुकूलतण्डुलान्यसमवेत क्रियाजन ककृतिमांश्चैव इत्याहुः । तन रोचयामहे परसमवेतत्वादेगौरवे Wartererत् । अतिप्रसङ्गः, किं द्वितीयायाः शाब्दबोधस्य वा नाद्यः । तावद्वाच्यताकथनेऽपि तत्तादवस्थ्यात् गमयति कृष्णं गोकुलमितिवत्पाचयति कृष्णं गोपइत्यापत्तेः तण्डुलं पचति चैत्र इतिवत्तण्डुलं पच्यते स्वयमेवेत्यापत्तेश्च विक्लित्यनुकूलतण्डुला न्यसमवेताग्निसंयोगरूपधात्वर्थाश्रयत्वात् । शाब्दबोधातिप्रस risयुक्तरीत्यैव निरस्तः । परसमवेतत्वस्य शक्यत्वेऽपि परस्वस्य परसमवेतत्वस्य च इष्टान्वयलाभायानेकशः कार्यकार णभावाभ्युपगमे गौरवतरत्वादितिस्पष्टं भूषणे । एतच्च सप्तबि धम् ।
निर्वर्त्यश्च विकार्य्यश्च प्राप्यञ्चेति त्रिधा मतम् । तच्चेप्सिततमं कर्म्म चतुर्द्धान्यत्तु कल्पितम् । औदासीन्येन यत्प्राप्तं यच्च कर्तुरनीप्सितम् । संज्ञान्तरैरनाख्यातं यद्यच्चाप्यन्यपूर्वकमिति
वाक्यपदीयात् ।
यदसज्जायते सवा जन्मना यत्प्रकाशते । निर्वर्त्य विकान्तु द्विधा कर्म्म व्यवस्थितम् । प्रकृत्युच्छेदसम्भूतं किञ्चित् काष्ठादिभस्मवत् । किञ्चिद्गुणान्तरोत्पत्या सुवर्णादिविकारवत् ।
४१
Page #42
--------------------------------------------------------------------------
________________
वैयाकरणभूषणसारे
क्रियाकृतविशेषाणां सिद्धिर्यत्र न गम्यते । दर्शनादनुमानाद्वा तत्प्राप्यमिति कथ्यते । इति च तत्रैवोक्तम् ।
४२
ा है
घटं करोतीत्याद्यम् । काष्ठं भस्म करोतीति, सुवर्ण कृण्डलं करोतीति च द्वितीयम् । घटं पश्यतीत्युदासीन विषं भुङ्क्ते इति द्वेष्यम् । गां दोग्धीति संज्ञान्तरैरनाख्यातम् । क्रूरमभिक्रुध्यतीत्यन्यपूर्व्वकम् ॥
कर्तृतृतीयाया आश्रयोऽर्थः । तथाहि " स्वतन्त्रः कर्त्ता "
स्वातन्त्र्यश्च धात्वर्थव्यापाराश्रयत्वम् ।
धातुनोक्तत्रिये नित्यं कारके कर्तृतेष्यते ।
इति वाक्यपदीयात् । अतएव ।
यदा यदीयो व्यापारो धातुनाभिधीयते तदा स कर्त्तेति, स्थाली पचत्यग्निः पचति एधांसि पचन्ति तण्डुलः पच्यते स्वयमेवेत्यादि सङ्गच्छते । नन्वेवं “कर्म्मकर्तृव्यपदेशाच्चेति" सूत्रे मनोमयः प्राणशरीरइति वाक्यस्थमनोमयस्य जीवत्वे वाक्यशेषे तस्य " एतमितः प्रेत्याभिसम्भवितास्मीति" प्राप्तिकर्म्मत्वकर्तृत्वव्यपदेशो विरुद्ध इति भगवता व्यासेन निर्णीतं कथं सङ्गच्छताम् । उच्यते जीवस्यैव ज्ञेयत्वे प्राप्तिकर्म्मत्वमपि वाच्यम् । कर्तृत्वञ्च तस्य आख्यातेनोक्तम् । न चैकस्यैकदा संज्ञाद्वयं युक्तम् कर्तृसंज्ञया कर्म्मसंज्ञाया वाधात् । तथाचैतमिति द्वितीया न स्यात् । कर्म्मकतृतायाश्च यगाद्यापत्तिरिति शब्दविरोधद्वारा भवति स भेदहेतुः । एवञ्च व्यापारांशस्य धातुलभ्यत्वादाश्रयमात्रं तृती
Page #43
--------------------------------------------------------------------------
________________
सुवर्थनिर्णयः ।
४३
1
यार्थः । कारक चक्रप्रयोक्तृत्वं कृत्याश्रयत्वं वा दण्डः करोतीत्यत्राव्याप्तम् । अयञ्च त्रिविधः शुद्धः प्रयोजकोहेतुः कर्म्म कर्त्ताच । मया हरिः सेव्यते । कार्य्यते हरिणा । गमयति कृष्ण गोकुलम् । मदभिन्नाश्रयको हरिकर्म्मक सेवनानुकूलव्यापारः । हयमिम्नाश्रयक उत्पादनानुकूलो व्यापारः । गोकुलकर्म्म कगमनानुकूल कृष्णाश्रयकव्यापारानुकूलो व्यापार इति शाब्दबोधाः । करणतृतीयायास्त्वाश्रयव्यापारौ वाच्यौ । तथाहि “ साधकतमं करणम्" । तमबर्थः प्रकर्षः स चाव्यवधानेन फलजनकव्यापारवत्ता । तादृशव्यापारवत्कारणश्च करणम् । उक्तञ्च वाक्यपदीये ।
क्रियायाः परिनिष्पत्तिर्यद्व्यापारादनन्तरम् । विवक्ष्यते यदा यत्र करणं तत्तदा स्मृतम् । वस्तुतस्तदनिर्देश्यं न हि वस्तु व्यवस्थितम् । स्थाल्या पच्यतइत्येषा विवक्षा दृश्यते यतइति । वित्रस्यतइत्यनेन सकृदनेकेषां तदभावाद्दितीयासप्तम्पादेरवकाशं सूचयति । नचैवं " कर्त्ता शास्त्रार्थवत्वात्" इत्युत्तरमीमांसाधिकरणे “शक्तिविपर्य्ययादिति" सूत्रेणान्तः करणस्य कर्तृत्वे करणशक्तिविपर्य्ययापत्तिरुक्ता न युज्येतेति वाच्यम् । “ तदेतेषां प्रागानां विज्ञानेन विज्ञानमादायेति " श्रुत्यन्तरे करणतयास्य ं कॢप्तकर्तृतां प्रकल्प्य शक्तिविपर्ययापत्तिर्निष्यमाण कल्प्येतेत्यभिप्रायात् । वस्तुतस्तु अभ्युच्चयमात्रमेतदिति यथा च तक्षोभयथा, इत्यधिकरणे, भाष्य एव स्पष्टम् ।
66
Page #44
--------------------------------------------------------------------------
________________
वैयाकरणभूषणसारे |
इत्यादि प्रपञ्चितं भूषणे । सप्तम्या अप्याश्रयोऽर्थः । “ सप्तम्यधिकरणेच " इत्यधिकरणे सप्तमी । तच्च " आधारोऽधिकरणमि" तिसूत्रादाधारः । तच्चाश्रयत्वम् । तत्राश्रयांशः शक्यः तत्वमवच्छेदकम् । न चाश्रयत्वमात्रेण कर्म्मकर्तृकरणानामाधारसंज्ञा स्यात् । स्यादेव यदि ताभिरस्या न बाधः स्यात् । " कारके " इत्यधिकृत्य विहितसप्तम्याः क्रियाश्रयइत्येवं यद्यपि तात्पर्य तथाप्यत्र कर्तृकर्म्मद्वारा तदाश्रयत्वमस्त्येव स्थाल्यादेर्भूतलकटादेवोत स्थाल्यां पचति भूतले वसति कटे शेते इत्याद्यपपद्यते । उक्तञ्च वाक्यपदीये ।
४४
कर्तृकर्म्मव्यवहितामसाक्षाद्धारयत् क्रियाम् । उपकुर्व्वत् क्रियासिद्धौ शास्त्रेऽधिकरणं स्मृतम् । एतच्च त्रिविधम् । औपश्लेषिकं वैषयिकमभिव्यापकञ्च । कटे शेते, गुरौ वसति, मोक्षे इच्छास्ति । तिलेषु तैलमिति । एतच्च "संहितायामिति " सूत्रे भाष्ये स्पष्टम् ।
1
अवधिः पञ्चम्यर्थः । अपादाने पञ्चमी । तच्च “ ध्रुवमपायेsपादान " मिति सूत्रात् (अपायः) विश्लेषजनकक्रिया तत्रावधिभूतमपादानमित्यर्थकादवधिभूतमिति भावः । उक्तञ्च वाक्य
पदीये ।
अपाये यदुदासीनं चलं वा यदि वाऽचलम् । ध्रुवमेवाऽतदावेशात्तदपादानमुच्यते ।
पततोध्रुव एवाश्वो यस्मादश्वात्पतत्यसौ । तस्याप्यश्वस्य पतने कुड्यादि ध्रुवमुच्यते ।
Page #45
--------------------------------------------------------------------------
________________
सुवर्थनिर्णयः।
४५ उभावष्य ध्रुवों मेषौ यद्यप्युभयकमजे । विभागे प्रविभके तु क्रिये तत्र व्यवस्थिते । मेपान्तरक्रियापेक्षमवधित्वं पृथक् पृथक् ।
मेषयोः स्वक्रियापेक्षं कर्तृत्वश्च पृथक् पृथक् इति । अस्यार्थः (अपाये) विश्लेषहेतुक्रियायाम् (उदासीनम्) अनाश्रयः । (अतदावेशात्) तक्रियानाश्रयत्वात् । एवञ्च विश्लेषहेतुक्रियानाश्रयत्वे सति विश्लेषाश्रयत्वं फलितम् । वृक्षात्पर्ण पततीत्यत्र पर्णस्य तद्वारणाय सत्यन्तम् । धावतोऽश्वात्पततीत्यत्राश्वस्य क्रियाश्रयत्वाद्विश्लेषहत्विति । कुड्यात्पततोऽश्वात्पततीत्यत्रावस्य विश्लेषजनकक्रियाश्रयत्वेऽपि तन्न विरुद्धमित्याह यस्मादश्वादिति । तद्विश्लेषहेतुक्रियानाश्रयत्वे सताति विशेषणीयमिति भावः । एवमश्वनिष्ठक्रियानाश्रयत्वात्कुड्यादेराप ध्रवत्वमित्याह तस्यापीति। उभयकर्मजविभागस्थले विभागस्यैक्यात्तविश्लेषजनकक्रियानाश्रयत्वाभावात्परस्परान्मेषावपसरतइति न स्यादित्याशङ्कय समाधत्ते उभावपीति । मेषान्तरेति । यथा निश्चलमेषादपसरहितीयमेषस्थले निश्चलमेषस्यापरमेषक्रियामादाय ध्रुवत्वम् तथात्रापि विभागैक्येऽपि क्रियाभेदादेकक्रियामादाय परस्य ध्रुवत्वमिति । तथा च विश्लेषाश्रयत्वे सति तजनकतक्रियानाश्रयत्वं ततक्रियायामपादानत्वं वाच्यम् । क्रिया चात्र धात्वर्थो नतु स्पन्दः । तेन वृक्षकर्मजविभागवति वस्त्रे वृक्षावस्त्रं पततीति सङ्गच्छते । वस्तुतो नैतावत्पश्चम्या वाच्यम् । किन्तु अवधेलक्षणमात्रं द्वितीयार्थोक्त
Page #46
--------------------------------------------------------------------------
________________
४६ वैया रणभूषणसारे । रीत्या प्रयोगातिप्रसङ्गस्यासम्भवन वाच्यकोटी प्रवेशस्य गौरवेणासम्भवादिति तु प्रतिभाति । न चैवमपि वृक्षात् स्पन्दतइति स्यादिति शङ्कयम् आसनाचलितः राज्याच्चलितइति वाइष्टत्वात् । एतेन पञ्चमीजन्यापादानत्वबोधे सकर्मकधातुजन्योपस्थितेहेतुत्वमिति समाधानाभासोऽन्यपास्तः। नचैवर्माप वृक्षात्यजतीति दुबारम् कर्मसंज्ञया अपादानसंज्ञाया बाधेन पञ्चम्यसम्भवात् । भ्रमात् कृते तथाप्रयोगे यदि बोधाभावोऽनुभवसिद्धस्तर्हि पञ्चमीजन्यापादानत्वबोधे त्यज्यादिभिन्नधातुजन्यबुद्धेर्हेतुत्वं वाच्यम् । बलाहकाद्विद्योततइत्यादौ निःमृत्येत्यध्याहार्य्यम् । रूपं रसात् पृथगित्यत्र तु बुद्धिपरिकाल्पतमपादानत्वं द्रष्टव्यम् । पृथग्विनति पञ्चमी वा । इदश्च
निर्दिष्टविषयं किश्चिदुपात्तविषय तथा । अपेक्षितक्रियश्चति त्रिधाऽपादानमुच्यतइति ॥
वाक्यपदीयात्त्रिविधम् यत्र साक्षादातुना गतिनिश्यिते तनिर्दिष्टविषयम् यथाश्चात्पतति यत्र धात्वन्तराया स्वार्थ धातुराह तदुपात्तविषयम् यथा बलाहकारिद्योतते निःसरणाङ्गे विद्योतने गुतिर्बतते अपेक्षिता क्रिया यत्र तदन्त्यम् यथा कुतोभवान् ? पाटलिपुत्रात् अत्रागमनमर्थमध्याहत्यान्वयः कार्यः। __उद्देश्यश्चतुर्थ्यर्थः तथाहि “सम्पदाने चतुर्थी" तच्च "कर्मणा यमाभौति स संप्रदानमिति" मूत्रात् (कर्मणा) करणभुतेन (यमभिप्रति) ईप्सति तत् कारकं संप्रदानमित्य
Page #47
--------------------------------------------------------------------------
________________
सुवर्थनिर्णयः।
४७
र्थकादुद्देश्यः इदमेव शेषित्वम् तदुद्देश्यकेच्छाविषयत्वञ्च शेषित्वमित्येव पूर्वतन्त्रे निरूपितम् । अतएव"प्रासनवन्मैत्रावरुणाय दण्डप्रदान"मित्यधिकरणे क्रीते सोमे मैत्रावरुणाय दण्डं प्रयच्छतीति विहितं दण्डदानं न प्रतिपत्तिः किन्तु चतुर्थीश्रुत्यार्थकम्र्मेति तत्र निर्णीतम् ।रजकाय वस्त्रं ददातीत्यपि खण्डिको पाध्यायः शिष्याय चपेयं ददातीति भाष्योदाहरणादिष्टमेवः । वृत्तिकारास्तु
"सम्यक् प्रदीयते यस्मै तत्सम्प्रदानम्" इत्यन्वर्थसंज्ञया खखत्वनिवृत्तिपर्यन्तमर्थ वर्णयन्तो रजकस्य बस्त्रमित्ये वाहुः । इदञ्च - अनिराकरणात्कर्तु स्त्यागाङ्गकर्मणेप्सितम् । प्रेरणानुमतिभ्याश्च लभते सम्प्रदानतामिति ॥
वाक्यपदीयात्रिविधम् । सूर्यायार्घ ददातीत्याद्य, नात्र मूर्यः प्रार्थयते नानुमन्यते न निराकरोतिं । प्रेरकम् , विप्राय गां ददाति । अनुमन्तृ, उपाध्यायाय गां ददाति । अत्र सर्वत्र प्रकृतिप्रत्ययार्थयोरभेदः संसर्गः विभक्तीनां धम्मिवाचकत्वात् धर्मवाचकत्वे "कर्मणि द्वितीयेति" सूत्रस्वरसभङ्गापत्तेः कर्मार्थककृत्तद्धितादौ तथादर्शनाच्च द्वितीयार्थकबहुव्रीही प्राप्तोदकइत्यादौ धम्मिवाचकतालाभाच्च ।
सुपा कर्मादयोऽप्यर्थाः संख्या चैव तथा तिममिति ।
भाष्याच्चेति दिक् आश्रयस्यापि प्रकृत्यैव लाभान विभक्तिवाच्यता किन्त्वाश्रयत्वमात्रं वाच्यम् तदेव च तादा
Page #48
--------------------------------------------------------------------------
________________
४८ वैयाकरणभूषणसारे । त्म्येनावच्छेदकम् करणतृतीयायाश्च व्यापारोऽपि पञ्चम्याविभागमात्रं, चतुर्थाउद्देश्यत्वमात्रम् अतएवाकृत्यधिकरणमाप न विरुध्यतइत्यभिप्रेत्याह शक्तिरेव वेति षण्णामपीति शेषः "शेषे षष्ठी" ति सूत्रात्तस्याः सम्बन्धमात्रं वाच्यम् कारकषष्ठयास्तु शक्तिरेवेन्यूह्यम् “सप्तमीपञ्चम्यौ कारकमध्य" इतिसूने शक्तिः कारकमिति पक्षस्य भाष्ये दर्शनात् एवश्च देवदत्तस्य गौर्ब्राह्मणाय गेहाद्गायां हस्तेन मया दीयतइत्यत्र देवदत्तसम्बन्धिनी या गौस्तदभिनाश्रयकत्यागानुकूलो ब्राह्मणोद्देश्यको गेहनिष्ठविभागजनको गङ्गाधिकरणको हस्तकरणको मनिष्ठो व्यापारइति बोधः यथायथम् उक्तप्रकारेण। अत्र मानमुपदर्शयन् घटं जानातीत्यादौ द्वितीयाया विषयतायां लक्षणेति बहाकुलं वदतो नैयायिकादीन् प्रत्याह सुपां कम्म॑तीति अयं भावः।
मुपां कादयोप्यर्थाः संख्या चैव तथा तिङाम् प्रसिद्धोनियमस्ता नियमः प्रकृतेषु चेति
वार्तिकतद्भाष्याभ्यां कादेर्वाच्यतायास्तनियमस्य च लाभः तथा हि " स्वौजसमौट्" कर्मणि द्वितीया" "देयकयोर्दिवचनैकवचने" इत्यादेः, "लः कर्मणि च" "तिप् तस् झि" तान्येकवचनद्विवचने" त्यादेरेकवाक्यतया कादेस्तत्संख्यायाश्च वाच्यता लभ्यते । तथा तनियमश्च द्विविधो लभ्यते द्वितीया कर्मण्येव, तृतीया करणे एवे, त्येवमादिरर्थनियमः कर्मणि द्वितीयैव, करणे तृतीय, वेत्येवं शब्दनि
Page #49
--------------------------------------------------------------------------
________________
नामार्थनिर्णयः।
४९ यमश्च । उभयथापि सिद्धनियमविरुद्धलक्षणादिकमसाधुत्वप्रयो जकमिति यज्ञे कर्माणि "नानृतं वदे" दिति निषेधविषयोभवत्येवेति स्वेच्छया लक्षणापि विभक्तावप्रयोजिकैव । अतएव "विभक्तौ न लक्षण" त्यादिनैयायिकवृद्धानां व्यवहारइति दिक् ॥२४॥
इति बैयाकरणभूषणसारे सुबर्थनिर्णयः ।
-
-
-
नामार्थानाह। • एकं द्विकं त्रिकञ्चाथ चतुष्कं पञ्चकं तथा।
नामाइति सर्वेऽमी पक्षाशास्त्रे निरूपिताः ___ एकं जातिः लाघवेन तस्याएव वाच्यतौचित्यात् अनेकव्यक्तीनां वाच्यत्वे गौरवात् । नच व्यक्तीनामपि प्रत्येकमेकत्वाद्विनिगमनाविरहः । एवं हि एकस्यामेव व्यक्तौ शक्त्यभ्युपगमे व्यक्त्यन्तरे लक्षणायां स्वसमवेताश्रयत्वं संसर्गइति गौरवम् । जात्या तु सहाश्रयत्वमेव संसर्गइति लाववम् । किश्च विशिष्टवाच्यत्वमपेक्ष्य नागृहीतविशेषणन्यायाजातिरेव वाच्येति युक्तम् । व्यक्तिबोधस्तु लक्षणया एवञ्च तत्र विभक्त्यर्थान्वयोऽभ्युपपद्यते इति दिक् । यद्वा केवलव्यक्तिरेवैकशब्दार्थः केवलव्यक्तिमध्ये ग्रहणस्यैकशेषस्य चारम्भेण तस्यापि शास्त्रसिद्धत्वात् । युक्तं चैतत् । व्यवहारेण व्यक्तावेव तद्रहणात् । सम्बन्धितावच्छेदकजातेरैक्याच्छाक्तरेकैवेति न गौरवमपि ।
Page #50
--------------------------------------------------------------------------
________________
५०
वैयाकरणभूषणसारे ।
नचैवं घटत्वमपि वाच्यं स्याच्छक्यतावच्छेदकत्वात्तथा च 1 नागृहीतविशेषणन्यायात्तदेव वाच्यमस्त्विति शंक्यम् अकारणत्वेऽपि कारणतावच्छेदकत्ववदलक्ष्यत्वेऽपि लक्ष्यतावच्छेदकत्ववत्तथापि सम्भवात् । उक्तश्च
I
आनन्त्येsपिं हि भावानामेकं कृत्वोपलक्षणम् । शब्दः सुकरसम्बन्धो नच व्यभिचरिष्यतीति । वस्तुतस्तु “न ह्याकृतिपदार्थस्य द्रव्यं नं पदार्थ " इति भाष्याद्विशिष्टं वाच्यम् । एकमित्यस्य चायमभिप्रायः शक्तिशाने विषयतयावच्छेदिका जातिरेकैव । तथा च घटत्वविशिष्टबोधे घटत्त्रांशे अन्याप्रकारकघुद्धत्वशक्तिज्ञानत्वेन हेतुतेति कार्यका रणभावइत्यादि प्रपञ्चितं भूषणे । तदेतदभिप्रेत्याह द्विकमिति । जातिव्यक्ती इत्यर्थः पूर्व्वपक्षविरोधपरीहारः पूर्ववत् । त्रिकमिति | जातिव्यक्तिलिङ्गानीत्यर्थः । सत्वरजस्तमोगुणानां साम्याबस्था नपुंसकत्वम् । आधिक्यं पुंस्त्वम् । अपचयः स्त्रीत्वं तत्तच्छब्दनिष्ठं वाच्यम् । तमेव विरुद्धधर्म्ममादाय तटादिशब्दा भिद्यन्ते । केषाञ्चिदनेकलिङ्गत्वव्यवहारस्तु समानानुपूर्वीकत्वेन शब्दानामभेदारोपात् । एवञ्च पदार्थपदे पुंस्त्वमेव । व्यक्तिपदे स्त्रीत्वमेव । वस्तुपदे नपुंसकत्वमेवेति सर्वत्रैवायं पदार्थः, इयं व्यक्तिः । इदं वस्त्विति व्यवहारः तटस्तटी तटमिति चोपपद्यते । तच्च लिङ्गमर्थपरिच्छेदकत्वेनान्वेतीति पश्वादिशब्दोक्तं " पशुना स्तौति" पशुनेत्यादिविधि र्न छाग्यादीनङ्गत्वेन प्रयोजयतीति विभावनीयम् । नच व्यक्त्यादिशब्दोक्तलिङ्गस्येव
Page #51
--------------------------------------------------------------------------
________________
नामार्थनिर्णयः। पश्वादिशब्दोक्तस्यापि साधारण्यं शङ्कयम् व्यक्तिशब्दस्य नित्यस्त्रीलिङ्गत्वेन तथासम्भवेऽपि पशुशब्दस्य नित्य पुंलिङ्गत्वे प्रमाणाभावात् । “पश्वानयापुं गुहाघरन्तम्"। "पश्वेतृभ्यो यथा गवे" इतयादिवेददर्शनाच्च मीमांसायां चतुर्थे पशुना यजेतेत्यत्रैकत्वपुंस्त्वयोर्विवक्षितत्वानानेकपशुभिः पशुस्त्रिया वा यागइति प्रतिपादितत्वाच । वस्तुतस्तु विशेषविध्यभावे उप्रत्ययान्तानां पुंस्त्वस्य व्याकरणे निर्णीतत्वादिभाष्येऽपि “जसादिषु छन्दसि वावचन" मिति नाभावाभाव इत्युक्तेः पशुशब्दस्य नित्यपुंस्त्वनिणयात् । प्रकृते "छागोवा मन्त्रवर्णादिति" न्यायेनैव निर्णयः । मन्त्रवणे हि "छागस्य वपाया मेदस" इति श्रूयते तत्र छागस्योत छाग्यामसम्भावितमिति भवति ततः पुंस्त्वनिर्णयइति विस्तरेण अपश्चितं भूषणे।(चतुष्कम्) संख्यासहितं त्रिकमित्यर्थः। (पञ्चकम्) कारकसहितं चतुष्कमित्यर्थः । नन्वन्वयव्यातरेकाभ्यां प्रत्यय-. स्यैव तद्वाचयम् ततएव लिङ्गादीनामुपस्थितौ प्रकातवाच्यत्वे मानाभावादिति चेत्सत्यम् प्रत्ययवर्जिते दधि पश्येत्यादौ मृत्ययमजानतोऽपि बोधात्प्रकृतेरेव वाचकत्वं कल्पयते । लिङ्गानुशासनस्य प्रकृतरेव दर्शनाच्चेति अतएवैषु पक्षेषु न निर्बन्धः प्रत्ययस्यैव वाचकताया युक्तत्वात
योतिका वाचिका वा स्युर्द्रित्वादीनां विभक्तय इति
वाक्यपदीयेऽपि पक्षद्वयस्य व्युत्पादनात् शास्त्र इति बहुषु स्थलेषु व्युत्पादनं व्यञ्जयितुम् प्राधान्यं तु सरूपसूत्रादौ व्यतम् ॥ २५॥
Page #52
--------------------------------------------------------------------------
________________
da
वैयाकरणभूषणसारे। शब्दस्तावच्छाब्दबोधे भासते न सोऽस्ति प्रत्ययोलोके यः शब्दानुगमाहते अनुविद्धमिव ज्ञानं सर्च शब्देन भासते .
इत्याद्यानुभविकोक्तेः विष्णुमुच्चारयेत्यादावर्थोच्चारणासम्भवेन विनाशब्दविषयं शाब्दबोधासङ्गविधेति सोऽपि प्रातिपदिकार्थः नच लक्षणया निर्वाहः निरूढलक्षणायाः शक्त्य तिरेकात् जबगड़दशमुच्चारयेत्यादौ शक्याग्रहेण शक्यसम्बन्धरूपलक्षणाया अग्रहाच्च अशातायाश्च वृत्तेरनुपयोगात् गाङ्गमुच्चारयेत्यादिभाषाशब्दानुकरणे साधुतासम्प्रतिपत्तेस्तेषां शत्यभावेन परनये लक्षणाया असम्भवाच्चेत्यभिप्रेत्य पोदापि कचित्यातिपदिकार्थइत्याह शब्दोऽपि यदि भेदेन विवक्षा स्यात्तदा तथा । नोचेच्छ्रोत्रादिभिः सिद्धोऽप्यसाव]ीवभासते ___ यद्यनुका-नुकरणयोर्भेदविवभा तदा शब्दार्थोपि प्रातिपदिकार्थः यदि न भेदविवक्षा तदा श्रोत्रादिभिरुपस्थितोऽपि अर्थवद्भासते अपिढेतौ उपस्थितत्वाद्भासतइत्यर्थः अयं भावः अनुका-नुकरणयोर्भेदेऽनुकार्यस्य पदानुपस्थितत्वात्तत्सिद्धये शक्तिरुपेया अभेदे प्रत्यक्षे विषयस्य हेतुत्वात् स्वप्रत्यक्षरूपां पदजन्योपस्थितिमादाय शाब्दबोधविषयतोपपत्तिरिति यद्यप्यतिप्रसङ्गवारणाय वृत्तिजन्यपदोपस्थितिरेव हेतुस्तथाप्यत्राश्रयतया वृत्तिमत्त्वस्य सरवानानुपपत्तिः निरूपकताश्रयता
Page #53
--------------------------------------------------------------------------
________________
8..
..
समासार्थनिर्णयः।
५३ न्यतरसम्बन्धन वृत्तिमतएव शाब्दबोधविषयत्वं कल्प्यतइत्यनवद्यम् सम्बन्धस्योभयनिरूप्यत्वात् पदार्थस्येव तद्बोधकत्वेन स्वस्यापि ज्ञानसम्भवाच्चति उक्तश्च चाक्यपदीये
ग्राह्यत्वं ग्राहकत्वञ्च द्वे शक्ती तेजसोयथा . तथैव सर्वशब्दानामेते पृथगवस्थित इति
विषयत्वमनादृत्य शब्दैर्नार्थः प्रकाश्यतइति चोत ॥ २६ ॥ .. प्रसङ्गादनुका-नुकरणयोरभेदपक्षे साधकमाह अतएव गवित्याह भू सत्तायामितीदृशम् । न प्रातिपदिकंनापि पदंसाधुतु तत्स्मृतम्।२७ } गवित्ययमाह “भू" सत्तायामित्येवमादयो यतोऽनुकरण शब्दा अनुका-न भिधन्ते अतस्तेषामर्थवत्त्वाभावात् “अर्थव दधातु" रित्याद्यप्रवृत्तौ न प्रातिपदिकत्वम् नापि पदत्वम् अथच साधुत्वमित्युपपद्यते अन्यथा “प्रत्ययः” “परश्च” “अपदं न प्रयुञ्जीते" ति निषेधादिलङ्घनादसाधुतापत्तिरित्यर्थः २७
इति वैयाकरणभूषणसारे नामार्थनिर्णयः
॥ अथ समासशक्तिनिर्णयः ॥ समासान्विभजते । सुपांसुपा तिङा नाम्ना धातुनाथ तिङां तिङा। सुबन्तेनेति चज्ञेयः समासः षड्विधोवुधैः।२८
(सुपां सुपा) पदद्वयमपि सुबन्तम् । राजपुरुषइत्यादिः।
Page #54
--------------------------------------------------------------------------
________________
५४ वैयाकरणभूषणसारे ।, सुपां तिडा )पूर्वपदं सुबन्तमुत्तरपदं तिङन्तम् पर्यभूषत् अनुव्यचलत् गतिमतोदात्तवता तिडापि समास इति बातिकात्समासः (सुपां नाना) कुम्भकारइत्यादि "उपपदमतिङि"ति समासः स च गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक मुबुत्पत्तेरिति परिभाषया भवति सुबुत्पत्तेःमा अनोत्तरपदेसुबुत्पत्तेः प्रागित्यर्थः अन्यथा चर्मक्रीतीत्यादौ नलोपानापत्तेः (सुपां धातुना) उत्तरपदे धातुमान तिङन्तम् कटप्रः आयतस्तू : किब्बचिपच्छयायतस्तुकटमजुश्रीणां दीर्घचति वार्ति कात् 'तिड तिडा' पिवतखादता पचतभृज्जतेत्यादि "आख्यातमाख्यातेन क्रियासातत्ये" इति मयूरव्यंसकाद्यन्तर्गणसूत्रात् 'तिङ सुबन्तेन' पूर्वपदं तिङन्तमुत्तरं सुबन्तम् जहिस्त म्बः जहिकर्मणा बहुलमाभीक्ष्णये कारश्चाभिदधातीत मयूरव्यंसकाधन्तर्गणसूत्रात अयं षद्विधोअप समासः “सह सुपा" इत्यत्र योगबिभागेन भाष्ये व्युत्पादितः स्पष्टः शब्दकौस्तुभादौ २८
स्वयं भाष्यादिसिद्धतनेदं व्युत्पाद्य प्राचीनवैयाकरणोक्तविभागस्याव्याप्त्यादिभिस्तल्लक्षणस्य मायिकत्वं दर्शयात समासस्तु चतुर्वेति प्रायोवादस्तथापरः। योऽयं पूर्वपदार्थादिप्राधान्यविषयः स च । भौतपूर्ध्यात्सोऽपि रेखागवयादिवदास्थितः२९ - चतुर्धा अव्ययीभावतत्पुरुषद्वन्द्वबहुब्रीहिभेदात् अयं
Page #55
--------------------------------------------------------------------------
________________
समासार्थनिर्णयः। ५५ पायोवादः भूतपूर्वः हम्भूः आयतस्तूः बागाविवेत्याद्यसङ्ग्रहात् तथा पूर्वपदार्थप्रधानोऽव्ययीभावः उत्तरपदार्थप्रधानस्तत्पुरुषः उभयपदार्थप्रधानोद्वन्द्रः अन्यपदार्थप्रधानो बहुव्रीहिरित्यादिलक्षणमापि प्रायिकम् उन्मत्तगङ्गं सूपप्रति अर्द्धपिप्पली द्वित्राः शशकुशपलाशमित्यादौ परस्परव्यभिचारात् तथाहिउन्मत्तगङ्गमित्यव्ययीभावे पूर्वपदार्थप्राधान्याभावादव्याप्तिः अन्यपदार्थप्राधान्याबहुव्रीहिलक्षणातिव्याप्तिश्च “अन्यपदार्थे च संशायामिति" समासात् सूपप्रनीत्यव्ययीभाव उत्तरपदार्थप्राधान्यात्तत्पुरुषलक्षणातिव्याप्तिरव्ययीभावाव्याप्तिश्च "सुपातिना मात्रार्थे " इति समासात् अपिप्पलीत तत्पुरुषे पूर्वपदार्थप्राधान्यसत्त्वादव्ययीभावातिव्याप्तिस्तत्पुरुषाव्याप्तिश्च । “अर्द्ध नपुंसकमिति" समासात् । एवं पूर्वकाय इत्यादौ द्रष्टव्यम् । द्वित्राइति बहुव्रीहाबुभयपदार्थप्राधान्याद् द्वन्द्वातिव्याप्तिः वहुव्रीह्यव्याप्तिश्च । शशकुशपलाशमित्यादिदन्छे समाहारान्यपदार्थप्राधान्याबहुव्रीह्यतिव्याप्ति ईन्द्राव्याप्तिश्च स्यादिति भावः । सिद्धान्ते त्वब्ययीभावाधिकारपठितत्वमव्ययीभावत्वामित्यादि द्रष्टव्यम् । असम्भकाचैषामि- । त्याह । भौतपूर्व्यादित्यादि । रेखागवयादि निष्ठलागृलादास्तवपश्वलक्षणस्ववदेतेषामपि न समासलक्षणत्वम् । बोधकता तु तदेव स्यादिति भावः ॥ २९ ॥ ___ ननु पूर्वपदार्थप्राधान्यादि समासे सुवचम् तथाहि "समर्थः पदविधिरित" सूत्रे भाष्यकारैरनेकधोक्तेष्वपि पक्षेषु
Page #56
--------------------------------------------------------------------------
________________
वैयाकरणभूषणसारे ।
जहत्स्वार्थाजहत्स्वार्षपक्षयोरेवैकार्थीभावव्यपेक्षारूपयोः पर्ण्यवसानं लभ्यते तत्राजहत्स्वार्थपक्षे उक्तव्यवस्था नासम्भविनी - त्याशङ्कां मनसिकृत्याह
जहत्स्वार्थाऽजहत्स्वार्थे द्वे वृत्ती ते पुनस्त्रिधा । भेदः संसर्गउभयं वेति वाच्यव्यवस्थितेः॥३०॥
जहति पदानि स्वार्थ यस्यां सा जहत्स्वार्था पदे वर्णवद्त्तौ पदानामानर्थक्यमित्यर्थः अयं भावः, समासशक्त्यैव राजा - शिष्टपुरुषभानसम्भवे न राजपुरुषपदयोरपि पुनस्तद्बोधकत्वं कल्प्यम् वृषभयावकादिपदेषु वृषादिपदानामिव अन्यथा राजपदेन विग्रहवाक्यsa राशः स्वातत्र्येणोपस्थितिसत्त्वादृद्धस्य राज्ञः पुरुष इत्यत्रेव ऋद्धस्य राजपुरुषइत्यस्याप्यापचेरिति । अजहदिति न जहति पदानि स्वार्थयस्यां सा अजहत्स्वार्था अयमभिप्रायः राजपुरुषादिसमासादौ नाविरिक्ता शक्तिः कल्पकाभावात् क्लृप्तराजादिपदादेवार्थोपस्थितिसम्भवे तत्कल्पनस्य गौरवपराहतत्वाच्च कृप्तशक्तित्यागोऽप्यप्रामाणिकः कस्पेचत तथाचाकाङ्क्षादिवशात् कृतशक्त्यैव विशिष्टार्थबोध: अयमेव व्यपेक्षापक्षो मतान्तरत्वेन भाष्यकारैरुक्तः नचात्र मते समासे ऋद्धस्येति विशेषणान्वयापत्तिः “ सविशेषणानां वृत्तिर्न वृत्तस्य वा विशेषणयोगो नेति " वार्त्तिकात् तथाचैतन्मतवादिनां पूर्वोत्तरपदार्थ सत्वात्पूर्वपदार्थप्रधानइत्यादिव्यवस्थासूपपादोति भावः । प्रसङ्गाद्वृत्तिभेदमपि निरूपयति । ते पुना दे
५६
Page #57
--------------------------------------------------------------------------
________________
समासार्थनिर्णयः। अपि वृत्ती त्रिविधे वाच्यत्रविध्यात् । वाच्यमेवाह । भेदइत्यादि । भेदः अन्योन्याभावः तथा च राजपुरुषइत्यादावराजकीयभिन्नइति बोधः । अस्यावाच्यत्वे च राजपुरुषः मुन्दरइतिवदाजपुरुषोदेवदत्तस्य चेत्यपि स्यात् । वाच्यत्वे सद्विरोधावं प्रयोग इति भावः। राजसम्बन्धवानित्येव शाब्दमानं भेदस्तूचरकालमुपातिष्ठतइत्याशयेनाह संसर्गइति । विनिगमनाविरहादनास्वामिकेऽपि राजपुरुषइत्यादिप्रयोगापत्तिश्च मनसिकत्योभयं वाच्यमित्याह । उभयं वति । तथा चाराजकीयभिबोराजसम्बन्धवांश्चायमिति बोधः ॥ ३० ॥ _ व्यपेक्षावादस्यैवंयुक्ति भाष्यविरुद्धत्वात्तन्मूलकः पूर्वपदार्थप्रधान इत्यायुत्सर्गोऽप्ययुक्तः। किन्तु रेखागवयन्यायेनोत्सर्गोऽपि परम्परयैव बोधकइत्याशयेन समाधत्ते । समासे खलु भिन्नैव शक्तिः पङ्कजशब्दवत् । बहूनां वृत्तिधर्माणां वचनैरेव साधने । स्यान्महद्गौरवं तस्मादेकार्थीभाव आश्रितः३१ ___ सभासइति वृत्तिमात्रेपलक्षणम् । “समर्थः पदविधिरि " त्यत्र पदमुद्दिश्य यो विधियते समासादिः स समर्थः विग्रहवाक्याभिधानशक्तः सन् साधुरिति सूत्राथस्य भाष्याल्लाभात् । पदोद्देश्यकविधित्वञ्च कृत्तद्धितसमासैकशेषसनाचन्तधातुरूपासु पश्चस्वाप वृत्तिष्वस्त्येव । विशिष्टशक्त्यस्वीकर्तृणां मते दुषणं शक्तिसाधकमेवेत्याशयेनाह पङ्कजशब्दवदिति। पङ्कजान
Page #58
--------------------------------------------------------------------------
________________
५८
वैयाकरणभूषणसारे ।
कर्तुरपि योगादेवोपस्थितौ तत्रापि समुदायशक्तिर्न सिध्येत् । नच पद्मत्वरूपेणोपस्थितये सा कल्प्यतइति वाच्यम् चित्रग्वादिपदेऽपि स्वामित्वेनोपस्थितये तत्कल्पनावश्यकत्वात् । लक्षणयैव तथोपस्थितिरिति चेत पङ्कजपदेऽपि सा सुवचा । एवं रथकारपदेऽपि तथा च " वर्षासु रथकारोऽग्निमादधीते " त्यत्रापि बिना लक्षणां कृप्तयोगेन ब्राह्मणादिविषयतयैवोपपत्तौ तत्कविया ल्पनां कृत्वा जातिविशेषस्याधिकारित्वं प्रकल्प्यापूर्व्वकल्पनमयुक्तं स्यादिति भावः साधकान्तरमाह वहूनामिति वृत्तेर्धम विशेषणलिङ्गसंख्याद्ययोगादयस्तेषां वचनैरेव साधने गौरवमित्यर्थः अयं भावः विशिष्टशक्त्यस्वीकारे राज्ञः पुरुषइत्यत्रेव राजपुरुषइत्यत्रापि स्याद्विशेषणाद्यन्वयः राजपदेन स्वतन्त्रोपस्थितिसत्त्वात् विभाषावचनञ्च समासनियमवारणाय कामिति ननु " सविशेषणानामिति" वचनान्न विशेषणाद्यन्वयः विभाषावचनञ्च कृतमेवेत्याशङ्कां समाधत्ते वचनैरेवेोति न्यायसिद्धमेव सूत्रम् व्यपेक्षाविवक्षायां वाक्यस्य एकार्थीभावे समासस्योत स्वभावतएव प्रयोगनियमसम्भवात् सविशेषणेत्यपि विशिष्टशक्तौ राज्ञः पदार्थकदेशतयाऽन्वयासम्भवात् न्यायसिद्धमिति भावः अतएव व्यपेक्षापक्षमुद्भाव्य अथैतस्मिन् व्यपेक्षायां सामर्थ्य योऽसावेकार्थीभावकृतो विशेषः स वक्तव्यइति भाष्यकारेण दूषणमप्युक्तम् ॥ ३१ ॥
तथा धवखदिरौ, निष्कौशाम्बिगरथो घृतघटो गुड़धानाः केशचूड़ : सुवर्णालङ्कारो द्विदशाः सप्तपर्ण इत्यादावितरेतरयो
Page #59
--------------------------------------------------------------------------
________________
समासार्थनिर्णयः। गादिकान्तयुक्तपूर्णमिश्रसङ्घातविकारसुच्प्रत्ययलोपो, वीप्सापर्थोवाचनिको वाच्यइत्यतिगौरवं स्यादिति दूषणान्तरमाह चकारादिनिषेधोऽथ बहुव्युत्पत्तिभञ्जनम् । कर्तव्यं तेन्यायसिद्ध त्वस्माकं तदिति स्थितिः। आदिना घनश्यामः हंसगमनइत्यादाविवादीनां पूर्वोक्तानाच संग्रहः दूषणान्तरमाह बहुव्युत्पत्तिभञ्जनमिति अयमाशयः चित्रगुरित्यत्र स्वाम्यादिप्रतीतिरनुभवसिद्धा नच तत्र लक्षणा प्राप्तोदकोग्राम इत्यादौ तदसम्भवात् प्राप्तिकर्षभिन्नमुदकमित्यादिवोधोत्तरं तत्सम्बन्धिग्रामलक्षणायामप्युदकर्तृकमाप्तिकामग्रामइत्यर्थालाभात् प्राप्तति क्तप्रत्ययस्यैव कर्थकस्य कर्मणिलक्षणति चेत्तर्हि समानाधिकरणमातिपदिकार्थयोरभेदान्वयव्युत्पत्तेरुदकाभिमप्राप्तिकम्मति स्यात् अन्यथा समानाधिकरणप्रातिपदिकार्थयोरभेदान्वयव्युत्पत्तिभङ्गापत्तेः प्राप्तेर्धात्वर्थतया कर्तृतासम्बन्धेन भेदेनोदकस्य तत्रान्वयासम्भवाच अन्यथा देवदत्तः पच्यतइत्यत्र कर्तृतासम्बन्धेन देवदत्तस्यान्वयसम्भवेनानन्वयानापत्तेः अथोदकाभिन्नकर्तृका प्राप्तिरिति वोधोत्तरं तत्सम्बन्धिग्रामो लक्ष्यतइति चेन प्राप्तेर्धात्वर्थतया तार्थकतीरें प्रति विशष्यताया असंभवात् प्रकृतिप्रत्यययोः प्रत्ययार्थप्राधान्यमिति व्युत्पत्तेः प्राप्तपदे प्राप्तर्विशेष्यत्वेतस्याएव नामार्थत्वेनोदकेन सममभेदान्वयापत्तेश्च एवमूढ़रथः उपहृतपशुः उद्धतौदना बहुपाचिकेत्यादावाप दष्टव्यम् अत्र हि रथकर्मकवहनकर्ता, . पशुकर्मकोपहरणोद्देश्यः, ओदनकर्मकोद्धरणा
Page #60
--------------------------------------------------------------------------
________________
६०
वैयाकरणभूषणसारे ।
वधिः बहुपाककर्त्रधिकरणमिति बोधाभ्युपगमात् अतिरिक्तशतिपक्षे च घटत्वविशिष्टे घटपदस्येवोदककर्तृकप्राप्तिकर्मत्वावशिष्टे प्राप्तोदकइत्यादिसमुदायशक्त्यैव निब्र्वाहइति भावः॥ ३२ ॥
साधकान्तरमाह ।
अषष्ठ्यर्थबहुव्रीहौ व्युत्पत्त्यन्तरकल्पना । क्लृप्तत्यागश्चास्ति तव तत्किं शक्तिं न कल्पयेः ३३
अयं भावः । चित्रगुरित्यादिषु चित्रगवीनां स्वाम्यादिप्र सीतिर्न विना शक्तिमुपपद्यते । नच तत्र लक्षणा साहि न चित्रपदे चित्रस्वामी गौरिति वाघापत्तेः । नापि गोपदे गोस्वा मी चित्र इत्यन्वयबोधापत्तेः । चित्रादिमात्रस्य लक्ष्यैकदेशत्वेन तत्र गवादेरन्वयायोगात् । नच चित्राभिन्ना गौरिति शक्त्युपस्थाप्ययोरन्वयबोधोत्तरं तादृशगोस्वामी गोपदेन लक्ष्यते इति वाच्यम् । गोपदस्य चित्रपदस्य वा विनिगमनाविरहेण लक्षकत्वासम्भवात् । नच गोपदे साक्षात् सम्बन्धएव विनिगमकइति वाच्यम् । एवमपि प्राप्तोदकः कृतविश्व इत्याद्यषष्ठयर्थबहु विनिगमकाप्राप्तेः । यौगिकानां कत्राद्यर्थकतया साक्षात्सम्बन्धाविशेषात् । नच पदद्रये लक्षणेति नैयायिकोक्तं युक्तम् बोधावृत्तिप्रसङ्गात् । नच परस्परं तात्पर्य्यग्राहकत्वादेकस्यैवैकदा लक्षणा न द्वयोरिति न बोधावृत्ति रिति वाच्यम् । एवमपि विनिगमनाविरहतादवस्थ्यन लक्षणाया असम्भवात् । नच चरमपदे एव सा प्रत्ययार्थान्वयानुरोधात् प्रत्ययानां सन्निहिनपदार्थगत स्वार्थबोधकत्वन्युत्पतेरिति वाच्यम् । एवं हि
Page #61
--------------------------------------------------------------------------
________________
समासार्थनिर्णयः। ६१ बहुव्रीयसम्भवापत्तेः "अनेकमन्यपदार्थ" इत्यनेकसुबन्ताना. मन्यपदार्थप्रतिपादकत्वेन तद्विधानात् । किन एवंसति घटादिपदेष्वपि चरमवर्ण एव वाचकताकल्पना स्यात् पूर्वपूर्ववर्णानां तात्पर्यग्राहकत्वेनोपयोगसम्भवात् । एवं सति चरमवर्णमात्रश्रवणेऽर्थबोधापत्तिरिति चेदत्राप्युदकपदमात्रश्रवणादर्थप्रत्ययापत्तिस्तुल्येत्यन्यत्र विस्तरः। एवञ्च अषष्ठयर्थबहुब्रीहौ ( व्युत्पत्यन्तरकल्पना ) उक्तयुक्तः अगत्या शक्त्यन्तरकल्पनेत्यर्थः ( कृप्तत्यागः) इत्यस्य क्लप्तशक्त्योपपत्तिरिति व्युत्पत्तित्यागश्च (तवास्ति) (तत्किम् ) सर्वत्र समासे शक्तिं न कल्पयेरिति वाक्यार्थः । यत्तुव्यपेक्षावादिना नैयायिकमीमांसकादयः न समासे शक्तिः राजपुरुषइत्यादौ राजपदादेः सम्बन्धिलक्षणयैव राजसम्बन्ध्यभिन्नः पुरुषइति बोधोपपत्तेः ।
अतएव राज्ञः पदार्थकदेशतया न तत्र शोभनस्येत्यादिविशेषणान्वयः। नवा घनश्यामोनिष्कौशाम्बिर्गोरथइत्यादौइवादिप्रयोगापत्तिः उक्तार्थतया इवक्रान्तादिपदप्रयोगासम्भवात् न वा"विभाषति"सूत्रावश्यकत्वम् लक्षणया राजसम्बन्ध्यभिन्नः पुरुषइति बुबोधयिषायां समासस्य, राजसम्बन्धवानिति बुबोधयिणायां विग्रहस्येत्यादिप्रयोगनियमसम्भवात् नापि पङ्कजपदप्रतिवन्दी शक्तिसाधिका तत्रावयवशक्तिमजानतोपि बोधात् नच शक्त्यग्रहे लक्षणयातेभ्योविशिष्टार्थप्रत्ययःसम्भवतिअतएवराजा दिपदशक्त्यग्रहे राजपुरुषश्चित्रगुरित्यादौ न बोधः नच चित्रगुरित्यादौ लक्षणासम्भवेऽप्यषष्ठपर्धवहुव्रीही लक्षणाया असम्भवे बहुव्युत्पत्तिभञ्जनापतेरिति वाच्यम् प्राप्तोदकइत्यादावुदक
Page #62
--------------------------------------------------------------------------
________________
६२ वैयाकरणभूषणसारे । पदे एव लक्षणास्वीकारात् पूर्वपदस्य यौगिकत्वेन तल्लक्षणाया धातुमत्यवतदर्थज्ञानसातया विलम्वितत्वात् प्रत्ययानां समिहितपदार्थगतस्वार्थबोधकत्वव्युत्पत्त्यनुरोधाच घटादिपदे चातिरिक्ता शक्तिः कल्प्यमाना विशिष्टे कल्प्यते विशिष्टस्यैर सङ्केतितत्वात् बोधकत्वस्यापि प्रत्येकं वर्णेष्वसत्वात् । प्रकृते चात्यन्तसन्निधानेन प्रत्ययार्थान्वयसौलभ्यायोत्तरपदे एव सा कल्प्यत इति विशेषः स्वीकृतश्च घटादिपदे पाप चरमवर्णस्यैव वाचकत्वं मीमांसकम्मन्यरित्याहुः अोच्यते समासे शक्त्यस्वीकारे तस्य प्रातिपदिकसंज्ञादिकं न स्यात् अर्थवत्त्वाभावात् " अर्थवदधातुरप्रत्ययः प्रातिपदिकमि" त्यस्याऽप्रवृत्तेः न च "कृत्तद्धितसमासाश्चे" त्यत्र समासग्रहणात् सा, तस्य नियमार्थताया भाष्यसिद्धाया वैयाकरणभूषणे स्पष्टं प्रतिपादितत्वात् समासवाक्ये शक्त्यभावेन शक्त्यसम्बन्धरूपलक्षणाया अप्यसम्भवेन लाक्षणिकार्थवत्त्वस्याप्यसंभवात् । __ अथ तिप्तस्झि इत्यारभ्य ङ्योस्सुबिति तिप्पत्याहारोभाष्यसिद्धः तमादायाऽतिपातिपदिकमित्येव सूत्र्यताम् कृतमर्थवदादिसूत्रद्वयन समासग्रहणश्च नियमार्थमस्तु तथा च सुप्तिङन्तभिन्न प्रातिपदिक मित्यर्थात्समासस्यापि सा स्यादिति चेत्तथापि प्रत्येकं वर्णेषु संशावारणायाऽर्थवत्वाऽऽवश्यकत्वेन समासाऽव्याप्तितादवस्थ्यमेव तथा च प्रातिपदिकसंज्ञारूपं काठमेवार्थवस्वमनुमापयति धूम ईव वह्निम् किश्चैवं चिनगुमानयेत्यादौकर्मत्वाचनन्वयाऽऽपत्तिः प्रत्ययानां प्रकृत्यान्वित
Page #63
--------------------------------------------------------------------------
________________
समासार्थनिर्णयः ।
स्वार्थबोधजनकत्वव्युत्पत्तेः विशिष्टोत्तरमेव प्रत्ययोत्पत्तेर्विशिष्टस्यैव प्रकृतित्वात् यत्तु समहितपदार्थगत स्वार्थबोधकत्वव्युत्पत्तिरेव कल्प्यत इति तन्न उपकुभ्भं अर्द्धपिप्पलीत्यादौ पूर्वपदार्थे विभक्त्यर्थान्वयेन व्यभिचारात् न च तत्रापि समिधानमेव आनुशासनिकसन्निधेर्विवक्षितत्वात् तथा च यत्पदोतरं यानुशिष्टा सा तदर्थगतं स्वार्थ बोधयति समासे च समस्यमानपदोत्तरमेवानुशासनमिति वाच्यम् । अर्थवत्सूत्रेण वि - शिष्टस्यैव विभक्त्यनुशासनात् । अथ प्रकृतित्वाश्रये विभक्त्यन्वयइत्येव कल्प्यतइति चेत्तर्हि पङ्कजमानय दण्डिनं पश्य शूलिनं पूजयेत्यादौ पङ्कजदण्डशूलेष्वानयनदर्शनपूजनादेरन्वयप्रसङ्गात् अघटमानयेत्यत्र घटेप्यानयनान्वयापत्तेश्व । नच दण्डादीनां विशेषणतया न तत्रानयनाद्यन्वयः । पाकानीलः धर्म्मासुखी इत्यादौ पाकधर्मादिहेतुताया रूपसुखादावनन्वयप्रसङ्गात् यच्च प्रकृत्यर्थत्वं तज्जन्यज्ञानविषयत्वमात्रं तच्चात्राविरुद्धमिति तन्न घटं पश्येत्यत्र घटपदात्समवायेनोपस्थिताकाशवारणाय वृत्त्या प्रकृत्यर्थत्वस्यावश्यकत्वात् । अथ प्रत्ययप्राग्वर्त्तिपदज न्योपस्थितिविशेऽयत्वं प्रकृत्यर्थत्वमिति चेन्न गामानयति कृष्णो दण्डेनेत्यत्र कृष्णे तृतीयार्थान्वयप्रसङ्गात् । अथ समस्यमानप दार्थबोधकत्वं समासोत्तरविभक्तेः कल्प्यतइति चेन्न अकृतकल्प नां कृप्त व्युत्पत्तित्यागञ्चापेक्ष्य समुदायशक्तिकल्पनस्यैव युक्त त्वादिति दिक् । अपि च समासे विशिष्टशक्त्यस्वीकारे राज पुरुषचित्रगुः नीलोत्पलमित्यादौ सर्व्वत्रानन्वयप्रसङ्गः । राज
६३
Page #64
--------------------------------------------------------------------------
________________
६४
वैयाकरणभूषणसारे। पदादेः सम्बन्धिनि लक्षणायामपि तण्डुलः पचतीत्यादौ कर्म त्वादिसंसर्मेण तण्डुलादेः पाकादावन्वयवारणाय प्रातिपदिका प्रकारकबोधं प्रति विभक्तिजन्योपस्थितेहेतुताया आवश्यक त्वात् पुरुषादेस्तथात्वाभावात् । तण्डुलः शुभ्रइत्यादौ च प्राति पदिकार्थकप्रथमार्थे तण्डुलादेस्तस्य.प शुक्ले अभेदेनैवान्वयः। शुभ्रेण तण्डुलेनेत्यादौ च विशेषणविभक्तिरभेदार्था पार्णिको वान्वय इति नातिपूसङ्गः। तथा च समासे परस्परमन्वयास म्भवादावश्विकैव समुदायस्य तादृशे विशिष्टार्थे शक्तिः। किन राजपुरुषइत्यादेः सम्बन्धिनि सम्बन्धे वा लक्षणा। नायः राज्ञः पुरुषइति विवरणविरोधात् समानार्थकवाक्यस्यैव विग्रहत्वात् । अन्यथा तस्माच्छक्तिनिर्णयोन स्यात् नान्यः राजसम्वन्धरूपः पुरुषइति बोधपूसङ्गात् विरुद्धविभक्तिरहितप्रातिपदिकार्थयोरभे दान्वयव्युत्परित्यादिं पूपश्चितं वैयाकरणभूषणे । अतएव "वषट्कर्तुः पृथमभक्ष" इयत्र न भक्षमुद्दिश्य प्राथम्यविधानं युक्तम् एकपूसरत्वभङ्गापोरिति तृतीये, "ः स्विष्टकृतं यज ती" त्यत्राङ्गानुवादेन न त्रित्वविधानं युक्तम् एकपूसरत्वभङ्गा पत्तेरिति दशमे च निरूपितं सङ्गच्छते । सङ्गच्छते चारुणाधि करणारम्भः। अन्यथा "अरुणया एकहायन्या पिङ्गाक्ष्या सोमं क्रीणातीत्यतारुण्यपदवदितरयोरपि एकत्वादिगुणमातृवाचक तया अमूत्वात् क्रीणातौ करणत्वासम्भवस्य तुल्यत्वादारुण्य स्यैव वाक्या दशकाया असम्भवादिति अपश्चितं भूषणे तस्मा समासशक्तिपक्षो जैमिनीयरवश्याभ्युपेयइत्यास्तां विस्तरः॥३३॥
Page #65
--------------------------------------------------------------------------
________________
६५
समासशक्तिनिर्णयः। राजपुरुषइत्यादौ राजा चासौ पुरुषश्चेत्येव विग्रहः । चित्रगुरित्यादौ च चित्राणां गवामयमित्येव समानार्थानुरोधात् । यद्यपि प्रथमान्तानामेव बहुब्रीहिरिति" शेषोबहुब्रीहिरिति मूत्राल्लभ्यते इति प्राथमान्तं पक्षे वाक्यं चित्रा गावोयस्येत्येवं सम्भवत्येव । षष्ठीति समासविधानाद्राज्ञः पुरुषइति च पक्षे वाक्यम् तथापि तस्य न विग्रहत्वम् भिन्नार्थत्वात् किन्तूक्तस्यैवेति मीमांसकाः । तान् प्रसङ्गानिरस्यति । आख्यातं तद्धितकृतोर्यत्किञ्चिदुपदर्शकम् । गुणप्रधानभावादौ तत्र दृष्टोविपर्ययः॥३४॥
तद्धितकृतोर्यत्किञ्चिदर्थबोधकम् विवरणमाख्यातं तत् बिपर्ययोदृष्टः। तथा हि । आक्षिकः कुम्भकारइत्यताक्षकरणकब्यापाराश्रयः कुम्भोत्पत्त्यनुकूलव्यपाराश्रय इति बोधः । अक्षैर्दीव्यति कुम्भं करोतीत्यत्राक्षकरणिका देवनानुकूला भावना कुम्भोत्पत्त्यनुकूला भावनेति बोधः। कृत्पत्ययेकारकाणामाख्याते च भावनायाः प्राधान्यं वदतोमीमांसकस्यापीति गुणप्रधानभावांशव्यत्यासो न विवरणत्वबाधकइति नातू पाक्षिकस्य चित्रागावो यस्येत्यादोर्वग्रहत्वे बाधकमस्तीति भावः ॥ ३४ ॥
नन्वस्तूक्तरीत्या सर्वत्र समासे शक्तिरस्तु च तथा विग्रहस्तथापि षष्टीतत्पुरुषकर्मधारययोः शक्तिमत्त्वाविशेषानिषादस्थपत्यधिकरणसिद्धान्तसिद्धिर्न स्यात् इत्यत आह । पर्यवस्यच्छाब्दबोधाविदूरप्राक्क्षणास्थिते । शक्तिगहेऽन्तरङ्गत्ववहिरङ्गत्वचिन्तनम्॥३५॥
Page #66
--------------------------------------------------------------------------
________________
वैयाकरणभूषणसारे ।
पर्यवस्यंश्वासौ शाब्दबोधश्च तस्मादविदूरश्वासौ प्राक्क्षfe | तदानीन्तनलाघवमादायाधिकरणाविरोधइत्यर्थः । अयं भावः निषादस्थपतिपदं समासशक्तिपक्षे निषादरूपे निषादानाञ्च स्थपतौ निषादस्वामिके पुरुषान्तरे चेत्येवं सर्व्वत्र शक्तत्वान्नानार्थकम् । तथा चं "नानार्थे तात्पर्य्याद्विशेषावगति” रिति न्यायेन तत्कल्पनायां पदद्वये पूर्वोपस्थितार्थे एवोपस्थित्यादिलाघवात् तत्कल्पनमिति । परेषामपि सीत तात्पर्ये यष्ठीः प्रवेशयेतिवल्लक्षणायादुवारत्वात्तात्पय्र्यमेव कल्पयकोटौ अवशिष्यतइति दिक् ||३५||
इति वैयाकरणभूषणसारे समासशक्तिनिरूपणम् ।
६६
शक्तिप्रसङ्गादस्याः स्वरूपमाह । इन्द्रियाणां स्वविषयेष्वनादिर्योग्यता यथा । अनादिरर्थैः शब्दानां संबन्धो योग्यता तथा ३६
इन्द्रियाणां चक्षुरादीनां स्वविषये चाक्षुषादिषु घटादिषु यथानादिर्योग्यता तदीयचाक्षुषादिकारणता तथा शब्दानामपि अथैः सह तद्बोधकारण योग्यता सैव शक्तिरित्यर्थः । ननु न बोधकारणत्वमनादिभूतं शक्तिः आधुनिकदेवदत्तादिपदे तदभावात् अन्यथा पित्रादिसङ्केताज्ञानेऽप्यन्वयबोधप्रसङ्गः लाक्षणिकातिव्याप्तेश्चेति सङ्केतज्ञानमपि हेतुर्वाच्यः । तथाचाव श्यकत्वात्स एव शक्तिरस्तु स चाधुनिके पित्रादेर्गवादौ चेश्वरस्योत चेत् अत्रोच्यते सङ्केतोन स्वरूपेण हेतुः अगृहीतशक्तिकाद
Page #67
--------------------------------------------------------------------------
________________
म
र्थबोधप्रसङ्गात्। नापि सामान्यतोज्ञातःप्रमेयत्वादिनातज्ञानेऽपि बोधप्रसङ्गात् नापि सङ्केतत्वेन तज्ज्ञानं हेतुः गवादिपदेष्वीश्वरादेः सङ्केतत्वेन तज्ज्ञानशून्यानां लौकिकर्मामांसकादीनां तदर्थबोधजनकत्वग्रहवतामेव बोधेन व्यभिचारात् । न चार्थीजनकतावच्छेदकत्वेन तज्ज्ञानं हेतुः ततोऽपि लाघवेनार्थवोधजनकत्वेनैव हेतुतायामस्मत्पक्षसिद्धः। न चाधुनिकदेवदत्तादौ सङ्केतज्ञानादेव बोधेनास्य व्यभिचारः। ततापीद पदमेनमर्थ बोधयत्वितीच्छाग्रहे पदे तदर्थबोधकत्वस्यावगाहनेन व्यभिचाराभावात् । नच स्वातन्त्र्येणबोधकताज्ञानं कारणं वाच्यम् अन्यथा नेदं तद्धीजन कमिति जानतोऽस्माच्छब्दादयमर्थोबुद्धोऽनेनेति जानतस्तद्ग्रहापत्तेरिति वाच्य नेदं तद्धीजनकमिति ग्रहवतोबाधेन पदे परग्रहं जानतोपि तद्ग्रहासम्भवात् । अन्यथा भ्रान्तिज्ञस्यापि भ्रान्तत्वापत्तेरिति । इदश्चार्थधीजनकत्वं पित्रादिसङ्केतज्ञानात् गृह्यते अतस्तज्ज्ञानात्पूर्वं न बोधः।नापि लाक्षणिकोच्छेदापत्तिरिष्टत्वात् शक्तिग्राहकव्यवहारस्य मुख्यलक्ष्यसाधारण्यात् । किञ्च प्रत्यक्षादिनन्योपस्थितेः शाब्दबोधानङ्गत्वात् शाब्दबोधं प्रतिशक्तिजन्योपस्थितेर्लक्षणाजन्योपस्थितेश्च कारणत्वं वाच्यम्। तथा च कार्यकारणभावद्वयकल्पने गौरवं स्यात् । अस्माकं पुनः शक्तिजन्योपस्थितत्वेनैव हेतुतेति लाघवम् । आप च लक्षणावृत्तिस्वीकारे कार्यकारणभावस्य प्रत्येकं ब्यभिचारः । शक्तिजन्योपस्थिति विनापि लक्षणाजन्योपस्थितितः शाब्दवोधात् । न चाव्यवहितोत्तरत्वसम्बन्धेन तत्तदुपस्थितिमत्त्वं कार्यताव
Page #68
--------------------------------------------------------------------------
________________
६८ वैयाकरणभूषणसारे । च्छेदकं तत्तदुपस्थितित्वश्च कारणतावच्छेदकम् अनन्तकार्यकारणभावप्रसङ्गात् । किञ्च पदार्थोपस्थितिं प्रत्यपि शक्तिज्ञानत्वेन लक्षणाज्ञानत्वेन च हेतुतेतिव्यभिचारो गौरवश्च प्राग्वदेव द्रष्टव्यम्। नचेदं पदमेतदर्थबोधकामिति शक्तिज्ञानकार्यकारणभावकल्पनेऽपि तत्तदर्थभेदेनानेककार्यकारणभावकल्पने गौरवम् तवापि समानम् परस्परव्यभिचारवारणायाव्यवहितोत्तरत्वघटितत्वे च सुतरामिति वाच्यम्, शक्तिभ्रमानुरोधेन तत्तत्पदतत्तदथेभेदेन कार्यकारणभावानन्त्यस्य तवापि साम्यात् । लक्षणाकार्यकारणभावकल्पनागौरवं परं तवातिरिच्यते । अथ वृत्तिजन्योपस्थितित्वेनैव शाब्दबोधहेतुता बृत्तिज्ञानत्वेन च पदार्थोपस्थितिकारणतेत्वेवं मया वाच्यमिति चेन्न शक्तिलक्षणान्यतरत्वस्य शाब्दबोधहेतुपदार्थोपस्थित्यनुकूलपदपदार्थसम्बन्धत्वस्य वा वृत्तित्वस्य कारणतावच्छेदकत्वात् शक्तित्वमपेक्ष्य गौरवात् शाब्दबोधहेतुतावच्छेकपदार्थोपस्थिातहेतुवृत्तेरज्ञाने तद्घटितकार्यकारणभावग्रहस्यासम्भवात् । अथ ममापि शक्तिज्ञानत्वेनैव हेतुता शक्यसम्बन्धरूपल क्षणायां शक्तेरपि प्रवेशादिति चेन्न । शक्तिज्ञानपदार्थोपस्थित्यो कार्यकारणभावे समानविषयत्वस्यावश्यकत्वात्-अन्यथा गङ्गातीरयोः सम्बन्धाग्रहवतो गङ्गापदशक्तिं जानतोपि गङ्गायां घोष इति वाक्यात्तीरबोधप्रसङ्गः शक्तिज्ञानस्य हेतोः सत्त्वात् । अपिच घटमानयेति वाक्यं हस्तिनश्च स्मरतो घटपदादिभ्यो घटादेः गजाद्धस्तिपकस्य च समूहालम्बनस्मरणवतो घटानयनवद्धस्तिपकस्यापि शाब्दबोधापत्तिः समूहालम्बनरूपायां पदार्थोपस्थितौ पदजन्यत्वसत्त्वात् । तथा च विष
Page #69
--------------------------------------------------------------------------
________________
. शक्तिनिणेयः। यतया शाब्दबोधं प्राति तदशविषयकवृत्तिजन्योपस्थितिहेतुरिति वाच्यम् एवञ्च लक्षणाया अपि शक्तिज्ञानत्वेन हेतुत्वमसम्भवीति । एतेन शक्तिप्रयोज्यैवोपस्थितिहेतु रिति न लक्षणाज्ञाने कार्यकारणभावान्तरं ममापीति परास्तम् प्रयोज्यत्वस्यानतिमसक्तस्य दुर्वचत्वाच्चेत्यादि विस्तरेण प्रपश्चितं भूषणे ।। ३६ ॥
नन्वेवं भाषादितोबोधदर्शनाद्वोधकतारूपा शक्तिस्तत्रापि स्यात् तथा च साधुतापि स्यात् । शक्तित्वस्यैव साधुताया व्याकरणाधिकरणे प्रतिपादनादित्याशङ्का द्विधा समाधत्ते । असाधुरनुमानेन वाचकः कैश्चिदिष्यते । वाचकत्वाविशेषे वा नियमः पुण्यपापयोः।३७
(असाधुः अनुमानेन)साधुशब्दमनुमाय वाचकः बोधकः कैश्चिदिष्यते । तथा च लिपिवत्तेषां साधुस्मरणएवोपयोगो नतु साक्षात्तद्वाचकत्वमतोन साधुत्वमिति भावः। उक्तं हि वाक्यपदीये।
ते साधुष्वनुमानेन प्रत्ययोत्पत्तिहेतवः।। तादात्म्यमुपगम्येव शब्दार्थस्य प्रकाशकाः । न शिष्टैरनुगम्यन्ते पर्याया इव साधवः । न यतः स्मृतिशास्त्रेण तस्मात्साक्षादवाचकाः। । अम्बाम्बति यथा बालः शिक्षमाणः प्रभाषते । अव्यक्तं तद्विदां तेन व्यक्त भवति निर्णयः । एवं साधौ प्रयोक्तव्ये योऽपभ्रंशः प्रयुज्यते । तेन साधुव्यवहितः कश्चिदर्थोऽभिधीयते इति
Page #70
--------------------------------------------------------------------------
________________
वैयाकरणभूषणसारे ।
नन्वपभ्रंशानां साक्षादवाचकत्वे किं मानम् शक्तिकल्पकव्यवहारादेस्तुल्यत्वादिति चेत्तत्तदेशभेदभिन्नेषु तेषु तेषु शक्तिकल्पने गौरवात् । नच पर्यायतुल्यता शङ्कया तेषां सर्व्वदेशेष्वेकत्वाद्विनिगमनाविरहेण सर्व्वत्र शक्तिल्पना न हि अपभ्रंशे तथा, अन्यथा भाषाणां पर्यायतया गणनापत्तेः । एवञ्च शक्तत्वमेवास्तु साधुत्वमिति नैयायिकमीमांसकादिनां मतेनैव द्रष्टव्यम् । इदानीं स्वमतमाह | वाचकत्वाविशेषेवेति । अयं भावः । अपभ्रंशानामशक्तत्वे ततोबोधएव न स्यात् । नच साधुस्मरणात्ततो बोधः तानविदुषां पामराणामपि बोधात् तेषां साधोरबोधाच्च । नच शक्तिभ्रमात्तेभ्योबोधः बोधकत्वस्याबाधेन तद्ग्रहस्याभ्रमत्वात् । ईश्वरेच्छा शक्तिरिति मतेऽपि सन्मात्रविषयिण्यास्तस्या बाधाभावात् । शक्तेः पदपदार्थविशेषघटिताया भ्रमासम्भवाच्चेति । उक्तञ्च वाक्यपदीये ।
७०
पारम्पर्यादपभ्रंशा विगुणेष्वभिधातृषु । प्रसिद्धिमागता येन तेषां साधुरवाचकः । देवी वाग्व्यवकीर्णेयमशक्तै रभिधातृभिः । अनित्यदर्शिनान्त्वास्मिन्वादे बुद्धिविपर्ययइति ।
(अवाचकः) अबोधकः (बुद्धिविपर्ययः) एत एव वाचका नान्ये इति विपर्यय इत्यर्थः । किञ्च विनिगमनाविरहाद्भाषणयामपि शक्तिः । नच तासां नानात्वं दोषः । संस्कृतवन्महाराष्ट्रभाषायाः सर्व्वत्रैकत्वेन प्रत्येकं विनिगमनाविरहतादवस्थ्यात् । किञ्चानुपूर्वी पदेऽवच्छेदिका सा च पर्यायेष्विव भाषाया
Page #71
--------------------------------------------------------------------------
________________
शक्तिनिर्णयः। ७१ मप्यन्यान्यैवेति कस्तयोविशेषइति विभाव्यं सूरिभिः। तथा च संस्कृतवद्भाषायाः सर्बत्रैकत्वेन प्रत्येक शब्दाः शक्ताएव । नच पर्यायतया भाषाणां गणनापत्तिः साधूनामेव कोषादौ विभागाभिधानात् । नन्वेनं साधुता तेषां स्यादित्यत आह । नियमइति । पुण्यजननबोधनाय साधूनां, साधुभिर्भाषितव्यमिति विधिः पापजननबोधनाय नासाधुभिरिति निषेधः। तथा च पुग्यजननयोग्यत्वं साधुत्वम् । पापजननयोग्यत्वमसाधुत्वम् । तत्र जनकतावच्छेदिका च जातिः। तज्ज्ञापकञ्च कोषादि व्याकरणादि च । एवमेव च राजसूयादेब्राह्मणे फलाजनकत्ववद्गवादिशब्दानां नाश्वादौ साधुत्वमिति सङ्गच्छते । आधुनिकदेवदत्तादिनानामपि व्यक्षरमित्यादिभाष्येण व्युत्पादितत्वात्साधुत्वम् । एवश्च यः शब्दोयत्रार्ये व्याकरणे व्युत्पादितः स तत्र साधुरित पर्य्यवसितंम् । गौणानां गुणे व्युत्पादनात्तत्पुरस्कारेण प्रवृत्तौ साधुत्वमेवं । आधुनिकलाक्षाणकानान्त्वसाधुत्वमिटमेव । अतएव ब्राह्मणाय देहीत्यर्थे ब्राह्मणं देहीत्यादिकं लक्षणयापि न साधु इत्यादि विस्तरेण अपश्चितं भूषणे ॥ ३७॥
अतिरिक्तशक्तेहोपायमाह । सम्बन्धिशब्दे सम्बन्धो योग्यतांप्रति योग्यता समयाद्योग्यतासविन्मातापित्रादियोग्यवत्।
( सम्बन्धः ) विषयः ( योग्यतां प्रति योग्यता ) सम्बन्धिशब्दं प्रति योग्यताविषय इति समयात् योग्यतासंवित्
Page #72
--------------------------------------------------------------------------
________________
७२ वैयाकरणभूषणसारे । शक्तिग्रहः घटपदमत्र योग्यमेतत्सम्बन्धीत व्यवहारात्सा ग्राह्ये-' त्यर्थः ॥ ३८ ॥
इति वैयाकरणभूषणसारे शक्तिनिर्णयः ।
नअर्थमाह । नसमासे चापरस्य प्राधान्यात्सर्वनामता। आरोपितत्वं नद्योत्यं नासोऽप्यतिसर्ववत्।
नसमासे अपरस्य उत्तरपदार्थस्य प्राधान्यात्सर्वनामता सिध्यतीति शेषः । अतएव आरोपितत्वमेव नद्योत्यमित्यभ्युपेयमिति शेषः। अयं भावः असर्वइत्यादावारापितः सर्वइत्यर्थे सर्वशब्दस्य प्राधान्याबाधात्सर्वनामता सिद्ध्यति । अन्यथा अतिसर्चइत्यत्रेव सा न स्यात् घटोनास्तीत्यादावभावविषयकबोधे तस्य विशेष्यतायाएव दर्शनात् अस्मद्रीत्या च स आर्थोबोधो मानसः तथाचासर्वस्मै इत्याद्यसिद्धिप्रसङ्ग्रहति अत्र चारोपितत्वमारोपविषयत्वम् आरोपमात्रमों विषयत्वं संसर्गइति निष्कर्षः द्योत्यत्वोक्तिनिपातानां द्योतकत्वमभिप्रेत्य ॥ ३९॥ ___ घटोनास्ति अब्राह्मण इत्यादावारोपबोधस्य सानुभवविरुद्धत्वात्पक्षान्तरमाह ॥ अभावोवा तदर्थोऽस्तु भाष्यस्य हि तदाशयात् विशेषणं विशेष्योवा न्यायतस्त्ववधार्यताम्॥
Page #73
--------------------------------------------------------------------------
________________
नअर्थनिर्णयः। तदर्थोनअर्थः अर्थपदं द्योत्यवाच्यत्वपक्षयोस्साधारण्येन कीर्तनाय भाष्यस्योत तथा च नञ् सूत्रे महाभाष्यम् निवृत्तपदार्थकइति निवृत्तं पदार्थोयस्य नपुंसके भावे क्त इति क्तः अभावार्थकइत्यर्थः। यत्तु निवृत्तः पदार्थोयस्मिन्नित्यर्थः सादृश्यादिनाध्यारोपितब्राह्मण्याः क्षत्रियादयोऽर्था यस्येत्यर्थइति कैयटः तन्न आरोपितब्राह्मण्यस्य क्षत्रियादेरनब्वाच्यत्वात् । अन्यथा सादृश्यादेरपि वाच्यतापत्तेः । यत्तु
तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता। ' अप्राशस्त्यं विरोधश्च नअर्थाः षट् प्रकीर्तिता इति ।
पठित्वा अब्राह्मणः अपापम् अनश्वः अनुदरा कन्या अ. पशवोवा अन्ये गोऽश्वेभ्यः अधर्म इत्युदाहरन्ति तत्त्वार्थकार्थमभिप्रेत्यति स्पष्टमन्यत्र । बिशेषणमिति प्रतियोगिनीति शेषः । तथाच सर्वपदे सर्वनामसंज्ञा । “ अनेकमन्यपदार्थे " "सेव्यतेऽनेकयासन्नतापाङ्गया" इत्यादावेकशब्दार्थप्राधान्यादेकवचननियमः । अब्राह्मण इत्यादावुत्तरपदार्थप्राधान्यात्तत्पुरुषम् । अत्वं भवसि अनहं भवामीत्यादौ पुरुषवचनादिव्यवस्था चोपपद्यते अन्यथा त्वदभावोमदभावइतिवदभावांशे युष्मदस्मदोरन्वयेन युष्मत्सामानाधिकरण्यस्य तिवसत्त्वात्पुरुषव्यवस्था न स्यात् । अस्मन्मते च भेदप्रतियोगित्वादभिनायिका भवनक्रियेत्यन्वयात्सामानाधिकरण्यं नानुपपन्नमिति भावः । विशेष्योवेति प्रतियोगिनीति शेषः । अयं भावः गौणत्वेऽपि नसमासे "एतत्तदोः सुलोपोऽकोरनञ् समासे
Page #74
--------------------------------------------------------------------------
________________
७४
वैयाकरणभूषणसारे। हलीति" ज्ञापकात्सर्वनामसंज्ञा नानुपपना । असः शिव इत्यत्र सुलोपवारणायानञ् समासइति हि विशेषणम् । नच तत्र तच्छब्दस्य सर्वनामतास्ति गौणत्वात् । अकोरित्यकज्व्यावृत्या सर्वनान्नोरेव तत्र ग्रहणलाभात्तथाचानञ् समासइति ज्ञापकं सुवचम् ।। अनेकमन्यपदार्थे इत्यादावेकवचन विशेष्यानुरोधात् । “ मुबामन्त्रिते पराङ्गवत्वरे" इत्यतोऽनुवर्तमानमुग्रहणात् विशेष्यमेकवचनान्तमेव । किश्चानेकशब्दात द्विवचनोपादाने बहूनां, बहुवचनोपादाने द्वयोःबहुव्रीहिर्न सिध्येदित्युभयसंग्रहायैकवचनं जात्यभिप्रायमौत्सर्गिकंवा सेव्यतेऽनेकयेत्यत्रापि योषयेति.विशेष्यानुरोधात्मत्येकं सेवनान्वयबोधनाय चैकवचनं न तूत्तरपदार्थप्राधान्यप्रयुक्तम् । अतएव पतन्त्यनेके जलधेरिवोर्मयइत्यादिकमपि सूपपादम् । अत्वं भवसीत्यादौ युष्मदस्मद्भिने लक्षणा नञ् द्योतकः तथा च भिन्न युष्मदर्थेन तिङः सामानाधिकरण्यात्पुरुषव्यवस्था । त्वद्भिन्नाभिन्नायिका भवनक्रियेति शाब्दबोधः । एवं न त्वं पचसि इत्यत्र त्वदभिन्नाश्रयकपाकानुकूलभावनाभावः। घटोनास्तीत्यत्र घटाभिन्नाश्रयकास्तित्वाभाव इति रीत्या बोधः असमस्तनत्रः क्रियायामेवान्वयात् । सचाभावोऽत्यन्ताभावत्वान्यो. न्याभावत्वादिरूपेण शक्यः तत्तद्रूपेण बोधादित्यायन्यत्र विस्तरः॥ ४०॥
इति वैयाकरणभूषणसारे नअर्थनिर्णयः ।
Page #75
--------------------------------------------------------------------------
________________
७५
निपातार्थनिर्णयः। प्रादयोद्योतकाश्चादयोवाचका इति नैयायिकमतमयुक्तम् वैषम्ये बीजाभावादिति ध्वनयभिपातानां द्योतकत्वंसमर्थयते । द्योतकाः प्रादयो येन निपाताश्चादयस्तथा । उपास्येते हरिहरौ लकारोदृश्यते यथा॥४१॥
येन हेतुना प्रादयोद्योतकास्तेनैव हेतुना चादयोनिपाता स्तथा घोतका इत्यर्थः । अयं भावः। ईश्वरमनुभवतीत्यादावनुभवादिः प्रतीयमानो न धात्वर्थः भवतीत्यत्राप्यापत्तेः । नोपसर्गार्थः तथा सत्यप्रकृत्यर्थतया तत्राख्यातार्थानन्वयापत्तेः प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वव्युत्पत्तेः अनुगच्छतीत्यादौ अनुभवादिप्रत्ययापत्तेश्च। न विशिष्टार्थः गौरवात्। तथा च धातोरेव विद्यमानत्वादिवाचकस्यास्तु लक्षणा उपसर्गस्तात्पर्यग्राहक इत्यस्तु । तथा च तात्पर्यग्राहकत्वमेव द्योतकत्वमिति । तच्च चादिष्वपि तुल्यम् चैत्रमिव पश्यतीत्यादौ सादृश्यविशिष्टं चैत्रपदलक्ष्यम् इवशब्दस्तात्पर्यग्राहक इत्यस्य सुवचत्वादिति। स्वयं युक्त्यन्तरमाह । उपास्येते इति । अत्र ह्युपासना किमुपसर्गार्थः विशिष्टस्य धातुमात्रस्य वा । नायः तथा सत स्वार्थफलव्यघि करणव्यापारवाचकत्वरूपसकर्मकत्वस्यास्धातोरुपासनारूपफलवाचकत्वाभावादनापत्तेस्ततः कर्मणि लकारोन स्यात् । न द्वितीयः गौरवात् । तृतीये त्वागत द्योतकत्वं तात्पर्यग्राहकत्वलाभात् इति भावः । दृश्यते इत्यत्र कर्मणीति शेषः॥१२॥
तच्चादिष्वपि तुल्यमित्याह ।
Page #76
--------------------------------------------------------------------------
________________
७६
वैयाकरणभूषणसारे ।
तथान्यत्र निपातेऽपि लकारः कर्म्मवाचकः । विशेषणाद्ययोगोऽपि प्रादिवच्चादिके समः ॥४२
1
( अन्यत्र ) साक्षात् क्रियते अलङ्कियते उरीक्रियते शिवइत्यादौ अत्रापि धातोस्तत्तदर्थे कर्म्मणि लकारसिद्ध्यर्थं तत्तदर्थवाचकत्वं वाच्यमित्युपसर्गवद्द्योतकत्वममीषामपीत्यर्थः । यद्यपि कृधातोः सकर्मकत्वमस्त्येव तथाप्येष्वर्थेषु सकर्मकता न स्यात् । अन्यथा वायुर्व्विकुरुते सैन्धवा विकुर्व्वत इत्यत्रापि स्यादिति भावः । अथोपासना साक्षात्कारादिः निपातोर्थोऽस्तु " साक्षात्प्रत्यक्ष तुल्ययोरि " ति कोषस्वरसात् तदनुकूलोन्यापारएव धात्वर्थोऽस्तु स्वस्वयुक्तनिपातान्यतरार्थफलव्यधिकरणव्यापारवत्वं सकर्मकत्वमपि सुवचमिति दृष्टान्तदाष्टान्तिका - वयुक्ताविति नेदं साधकमिति चेन्न । नामार्थधात्वर्थयोर्भेदेन साक्षादन्वयासम्भवेननिपातधात्वर्थयोरन्वयासम्भवात् । अन्यथा तण्डुलः पचतीत्यत्रापि कर्म्मतया तण्डुलानां धात्वर्थेऽन्वयापतेरिति । किञ्च प्रादीनां वाचकत्वे भूयान् प्रकर्षः कीदृशो निश्रय इतिवद्भूयान् म, कीदृशोनिरित्यपि स्यात् । अस्मन्मते प्रादेरनकत्वान्न तदन्वय इत्यतएव द्योतकता तेषां स्यादिति । साधकान्तरमभिप्रेत्याह । विशेषणेति । शोभनः समुच्चयो द्रष्टव्य इतिवच्छोभन श्च द्रष्टव्यइत्यस्यापत्तेस्तुल्यसमाधेयत्वादिति भावः आप च निपातानां वाचकत्वे प्रातिपदिकार्थयोर्विना षष्ठयादिकं भेदेनान्वयासम्भवः | अन्यथा राजा पुरुष इत्यस्य राजसम्बन्धी पुरुषइत्यप्यापतेरित्यभिप्रेत्याह आदीति । धवखदिरयोः
Page #77
--------------------------------------------------------------------------
________________
७७
निपातार्थनिर्णयः। समुच्चयइतिवद्धवस्य च खदिरस्य चेत्येव स्यादिति भावः ।।२।
- ननु प्रातिपदिकार्थयोरभेदान्वयबोधे विभक्तिजन्योपस्थिति हेतुरिति कार्यकारणभावो निपातातिरिक्तविषयएवेति नोक्तदोष इत्याशङ्कयाह । पदार्थः सदृशान्वेति विभागेन कदाचन । निपातेतरसङ्कोचे प्रमाणं किं विभावय॥४३॥ ___ (सदृशा) सदृशेन समानाधिकरणेनेति यावात् । (अन्वेति) अभेदेनेति शेषः । ( विभागेन ) असदृशेन । असमानाधिकरणेनेति यावत् । अयमर्थः समानाधिकरणप्रातिपदिकार्थयोरभेदान्वयव्युत्पत्ति निपातातिरिक्तविषयेति कल्पने मानाभावो गौरवश्च । अस्माकं निपातानां द्योतकत्वादन्वयएव नास्तीति नायं दोषः अतएव घटोनास्तीत्यादौ घटपदं तत्प्रतियोगिके लाक्षणिकीमति नैयायिकाः ॥ ४३ ॥
· अपि च निपातानांवाचकत्वे काव्यादावन्वयोन स्यादिति साधकान्तरमाह । शरैरुपैरिवोदीच्यान् उद्धरिष्यन् रसानिव । इत्यादावन्वयोन स्यात्सुपाञ्च श्रवणं ततः।४४।
अत्रोस्रसदृशैः शरैः रससदृशानुदीच्यानुद्धरिष्यान्नित्यर्थः। अयश्चोस्रादिशब्दानां तत्सदृशपरत्वे इवशब्दस्य द्योतकत्वे सङ्कच्छते । अन्यथा प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वव्युत्प त्तिविरोधः । तथाहि । उनैरिति करणे तृतीया । न चोस्रोऽत्र
Page #78
--------------------------------------------------------------------------
________________
७८
वैयाकरणभूषणसारे |
करणम् इवार्थसदृशस्य करणत्वेऽपि तस्य करणत्वं नानेन बोधयितुं शक्यम् अप्रकृत्यर्थत्वात् । इवशब्दस्य चासत्वार्थकतया तदुत्तरतृतीयाया असम्भवात् । सम्भवे वा श्रवणप्रसङ्गात् । उस्रपदोत्तर तृतीयानन्वयप्रसङ्गाच्चेत्याह । सुपां चेति । सुप श्रवणञ्चेत्यर्थः । चकारादुखपदोत्तरतृतीयानन्वयः समुच्चीयते इत्यादावित्यादिपदात् -" वागर्थाविव सम्पृक्तौ पार्व्वतीपरमेश्वरौ वन्दे " इत्यत्र वागर्थयोर्वन्दिकर्मत्वाभावात्तदुत्तरद्वितीयाया अनन्वयः इवार्थस्य कर्मत्वान्वयबोधासम्भवश्च संगृह्यते । यदि च विशेषणविभक्तिरभेदार्था साधुत्वमात्रार्था वा तदापि इवशब्दस्य वाचकत्वेऽनन्वयएव उस्रशदृशशराणां समानाधिकरपदोपस्थाप्यतया भेदेनान्वयायोगात् । बाधादभेदेनापि न सः नह्यस्त्राभिन्नसदृशाभिन्नः शर इत्यर्थ इष्टव्यः ॥ ४४ ॥
ननु त्वन्मते अब्राह्मणइत्यादौ तत्पुरुषलक्षणाव्याप्त्यापत्तिः पूर्वपदस्यानर्थकत्वेनैवोत्तरपदार्थप्राधान्याभावात् उपसर्गस्यावाभावेन प्रातिपदिकत्वाभावाद्विभक्तिश्च ततो न स्यादित्यत आह ।
नञ् समासे चापरस्य द्योत्यं प्रत्येव मुख्यता । द्योत्यमेवार्थमादाय जायन्ते नामतः सुपः ॥ ४५
नञ्समासादौ योत्तरपदप्रधानता सा द्योत्यमर्थमादायैव । तमेवार्थमादायार्थवत्त्वात्प्रातिपदिकत्वमित्यर्थः । वस्तुतः अव्ययादाप्सुपइति शापकात्सुबुत्पात्तः । “निपातस्यानर्थकस्येति " वार्त्तिकाद्वा प्रातिपदिकत्वम् । " कृत्तद्धितसमासा " चेत्यनुक्त
Page #79
--------------------------------------------------------------------------
________________
निपातार्थनिर्णयः।
७९ समुच्चयार्थकचकारेण निपातानां संग्रहइति वा बोध्यम् । तस्मात् युक्तं निपाताना द्योतकत्वम् । उक्तञ्चाकृत्यधिकरणवार्त्तिके ।
चतुबिधे पदे चात्र द्विविधस्यार्थनिर्णयः । क्रियते संशयोत्पत्तेर्नोपसर्गनिपातयोः ।। तयोराभिधाने हि व्यापारो नैव विद्यते । यदर्थयोतकौ तौ तु वाचकः स विचार्य्यत इति । उपसर्गण धात्वर्थो बलादन्यः प्रतीयते । महाराहारसंहारविहारपरिहारवदिति ।
अत्रोपसर्गपदं निपातोपलक्षणम् । धातुपदं पदान्तरस्येति बोध्यम् ॥४५॥
नन्वन्वयव्यतिरेकाभ्यां निपातानां तदर्थवाचकत्वमेव युक्तम् बोधकतारूपशक्तरबाधात् । किञ्चोक्तरीत्या पचतीत्यादौ धातोरेव कर्वविशिष्टभावनायां लक्षणास्तु तात्पर्य्यग्राहकत्वमात्र तिडादेः स्यादित्यरुचेः पक्षान्तरमाह ।। निपातानां वाचकत्वमन्वयव्यतिरेकयोः। युक्तं वा न तु तद्युक्तं परेषां मतमेव न॥४६॥ ___ एवं च धात्वर्थप्रातिपदिकार्थयोर्भेदेनान्वयबोधो न व्युत्पअति निपातातिरिक्तविषयं, समानाधिकरणप्रातिपदिकार्थयोरभेदान्वय इत्याप तथेत्यगत्या कल्पनीयमिति भावः । न त्विति । नैयायिकोक्तं प्रादिचाद्योवैषम्यमित्यर्थः। यत्तु सर्वेषां निपातानां बाचकत्वेऽर्थवत्सूत्रेणैव तेषां प्रातिपदिकत्वसम्भवात् "निपातस्यानर्थकस्योत"विधिवैयर्थ्यम्। सर्वेषां द्योतकत्वे चा
Page #80
--------------------------------------------------------------------------
________________
वैयाकरणभूषणसारे। नर्थकस्योत व्यर्थम् । तथा च केचिद्योतकाः केचिद्राचका इत्यभ्युपेयमिति तन्न । एवं हि चादयो द्योतकाः प्रादयो वाचका इति वैपरीत्यवारणात् । सर्वथानर्थकानां पादपूरणमात्रार्थमुपात्तानां संग्रहाय वार्तिकारम्भस्य कैयटादौ स्पष्टत्वात् तस्य प्रत्याख्यातत्वाच्च । परेषामिति बहुवचनं मीमांसकसङ्ग्रहाय । केवलवृक्षशब्दात् समुच्चयावोधाच्चकारश्रवणे तद्वोधाच्चकार एव तद्भाचको न द्योतकः किश्च द्योतकत्वे पदान्तराणां तत्र शक्तिः कल्प्या चकारादेद्योतकत्वशक्तिश्च कल्प्यति गौरवं स्यादिति हि समुच्चयाधिकरणे स्थितम् तदपि न युक्त मिति भावः तथा हि अन्वयव्यतिरेको तात्पर्यग्राहकत्वेनाप्युपयुक्तौ घटादिपदानामेव समुच्चिते लक्षणा तात्पय्यग्राहकः प्रकरणादिवच्चादिरिति स्वीकारान्न शक्तिद्वयकल्पनापि अस्माकं लक्षणाग्रहदशायां बोधात्तत्कार्यकारणभाव आवश्यकः एवं शक्तिग्रहस्यापीति पक्षद्वयेऽपि कल्कान्तराभावेन गौरवाभावादुभयमपि युक्तमित्याभमतम् अतएव
स वाचकोविशेषाणां सम्भवात् द्योतकोऽपि वेति
वाक्यपदीयं सङ्गच्छते दर्शनान्तररत्या वाचकत्वमेव द्योतकत्वमेवोत नियमस्तु न युक्तइति ध्वनयन्नाह मतमेव न इति ॥ ४६॥
पर्यवसितमुपसंहरन्नाह निपातत्वं परेषां यत्तदस्माकमिति स्थितिः। व्यापकत्वाच्छक्ततायास्त्ववच्छेदकमिष्यते ४७
Page #81
--------------------------------------------------------------------------
________________
त्वादिभावप्रत्ययार्थनिर्णयः। ८१ परेषां यन्निपातत्वम् असत्त्वार्थकत्वे सति चादिगणपठितस्वं शक्तिसम्बधेन निपातपदवत्वञ्चोपार्जाितिर्वा तदेवास्माकमपि । परन्तु सामान्यधर्मे प्रमाणानां पक्षपाताच्छक्तता द्योतकता वा तदवच्छेदेनैव वल्पेयति नैयायिकोक्तं प्रादिचाद्यो:पम्यमयुक्तमित्यर्थः । (व्यापकत्वात्) सामान्यत्वात् । शक्ततायाइत्युपलक्षणं द्योतकताया वेत्यपि द्रष्टव्यम् ॥४७॥ इति वैयाकरणभूषणसारे निपातानां द्योतकत्वादिनिर्णयः ।
भावप्रत्ययार्थमाह । कृत्तद्धितसमासेभ्यो मतभेदनिवन्धनम् । त्वतलोरर्थकथनं टीकायां हरिणा कृतम् ॥४८॥
"कृत्तद्धितसमासेभ्यः सम्बन्धाभिधानं भावप्रत्ययेनान्यत्र रूट्यभिन्नरूपाव्यभिचरितसम्बन्धेभ्य" इति वार्तिकवचने मीमांसकादीनां भ्रममपाकुर्वन्नाह (टीकायामिति) भर्तृहरिणा महाभाष्यटीकायामित्यर्थः । त्वतलोरिति भावप्रत्ययमात्रोपलक्षणम् अयमर्थः समासादौ शक्तिः कल्प्यमाना राजादिसम्बन्धविशिष्ठे कल्पयत इत्युक्तम् । तथा च तदुत्तरभावप्रत्ययःसम्बन्धं वदतीत्यर्थः । एतदपि भेदः संसर्ग उभयं वेत्युक्तेषु भेदपक्षे न सम्भवतीत्यत आह मत भेदेति पक्षभेदेनेत्यर्थः । एवञ्च राजपुरुषत्वम् औपगवत्वं पक्तत्वम् इत्यादौ स्वस्वामिभावसम्बन्धः। अपत्यापत्यवत्सम्बन्धः क्रियाकारकभावसम्बन्धइत्यन्वयवाधेः। औपगवादावव्यभिचरितसम्बन्धे तु अर्थान्तरवृत्तिस्तद्धित उ
Page #82
--------------------------------------------------------------------------
________________
८२
वैयाकरणभूषणसारे ।
दाहाय्र्यः । दामोदरत्वं कृष्णसर्पत्वमित्यादौ जातिविशेषेण बोधादाह अन्यत्रेति रूढ़ेरभिन्नरूपादव्यभिचरितसम्बन्धेभ्यश्चान्यत्यर्थः रूढ़िरुक्ता । द्वितीयं यथा शुक्लत्वम् अत्र तदस्यास्त्यास्मीनिति मतुपो “गुणवचनेभ्यो मतुपो लुगिष्ट" इति लुप्तत्वात्तद्धितान्तत्वेऽपि घटः शुक्ल इत्यभेदप्रत्ययाद्गुणस्यैव प्रकारत्वेन भानं जायते तृतीये सतोभावः सत्तेति अत्र जातावेव प्रत्यइति दिक् ||४८|| दण्डीत्यादौ प्रकृत्यर्थविशिष्टद्रव्यमात्रवाचकता तद्धितस्येति वदन्तं मीमांसकम्मन्यं प्रत्याह । अत्रार्द्धजरतीयं स्यात् दर्शनान्तरगामिनाम् । सिद्धान्ते तु स्थित पक्षद्वयं त्वादिषु तच्छृणु ।४९
( अ ) भावप्रत्ययविषये । तथा हि दामोदरत्वं घटत्वमित्यादौ भावप्रत्ययस्य सम्बन्धानभिधायकत्वेन मीमांसकानां दण्डित्वमित्यादिष्वपि तदभिधानं न स्यात् । प्रकृतिजन्यबोधे प्रकारः प्रकृत्यर्थसमवेतोहि तदुत्तर्भावप्रत्ययेनाभिधीयते । अन्यथा घटत्वमित्यत्र द्रव्यत्वादेर्द्दण्डित्वमित्यादौ दण्डादेश्च तदुत्तरभावप्रत्ययवाच्यतापत्तेः । नच तन्मते दण्डीत्यादिबोधे सम्बन्धः प्रकारः । यत्तु
यदा स्वसमवेतोऽत्र वाच्योनास्ति गुणोऽपरः । तदा गत्यन्तराभावात्सम्बन्धो वाच्य आश्रितइति ॥ तन्न इन्यादेः सम्बन्धवाचकत्वेनोपपत्तौ गत्यभावाऽभावात् । प्रपञ्चितं चैतदादावेव वैयाकरणभूषणे ननु तवापीदं वैषम्यं कथमित्यत आह सिद्धान्तेत्विति ॥ ४९ ॥
Page #83
--------------------------------------------------------------------------
________________
त्वादिभावप्रत्ययार्थनिर्णयः ।
८३
तौ पक्षावाह ।
प्रयोगोपाधिमाश्रित्य प्रकृत्यर्थे प्रकारताम् । धर्म्ममात्रं वाच्यमिति यद्वा शब्दपरा अमी | जायन्ते तज्जन्यबोधप्रकारे भावसंज्ञिते । ५०|
प्रयोगे उपाधिं निमित्तं प्रकृत्यर्थे प्रकारताम् प्रकारतया भासमानं धर्मे वाच्यतया आश्रित्य त्वादयो जायन्ते प्रकृतिजन्यबोधेप्रकारस्त्वाद्यर्थइति यावत् । ननु घटत्वमित्यत्र प्रकारत्वात्तदुत्तरभावप्रत्ययेन घटत्वत्वस्यापि वाच्यता स्यादित्यत्रेष्टापत्तिमाह धर्म्ममात्रमिति नत्वत्र लघुगुरुविचार इत्यभिप्रायः ।। तत्तद्व्यक्तिविशिष्टब्रह्मसत्ताया एव घटत्वघटत्वत्वा'दिरूपत्वात् ।
सम्वन्धिभेदात्सत्चैव भिद्यमाना गवादिषु । जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिताः । तां प्रातिपदिकार्थञ्च धात्वर्थञ्च प्रचक्षते ।
सा नित्या सा महानात्मा तामाहुस्त्वतलादयइति वाक्यपदीयात् । उक्तञ्च “ तस्य भावस्त्वतलाविति " सूत्रे वार्त्तिककारैः “ यस्य गुणस्य भावाद् द्रव्ये शब्दनिवेशस्तदनिधाने त्वतलाविति " । ( यस्य गुणस्य ) विशेषणतया भासमानस्य (भावात् ) आश्रयत्वात् (द्रव्ये) विशेष्ये (शब्दनिवेश:) शब्द - प्रवृत्तिः तस्मिन् वाच्ये त्वतलावित्यर्थः । तथा च रूपादिश ब्देभ्यो जातौ शुक्लाणुदीर्धमहदादिभ्यो गुणे, पाचकादिशब्देभ्यः क्रियायां घटादिशब्देभ्यो जातौ प्रत्ययः रूपादि
•
Page #84
--------------------------------------------------------------------------
________________
८४ वैयाकरणभूषणसारे । शब्दानां जातिप्रकारकबोधजनकत्वात् । पाचकादिशब्दानां क्रियाप्रकारकबोधजनकत्वे तस्यां प्रत्ययः । संसर्गप्रकारकबोधजनकत्वमिति मते च संसर्गे इति व्यवस्था मूपपादेति भावः । तत्र जातिवाचकानां व्यक्तय एव शक्यतावच्छेदिकाः । तथा च घटत्वमित्यत्र घटवृत्तिरसाधारणो धर्म इत्यादि द्रष्टव्यम् । पक्षान्तरमाह यद्धति। " यद्वा सर्वे भावाः स्वे नार्थेन भवन्ति स तेषां भाव" इति वार्तिकोक्तेः॥ य द्वा शब्दस्तत्सूचनप्रयोजनकोऽपि (भवन्ति) वाचकत्वेन प्रवतन्ते इति भावाः शब्दाः (स्वेन रूपेणअर्थेन ) (भवन्ति) पूर्वतन्ते असः (स तेषां भावः) प्रवृत्तिनिमित्तमित्यर्थः । अयं भावः । अर्थवच्छब्दोऽपि द्रव्ये पूकारः हरिहरनलेक्ष्वाकुयुधिष्ठिरवशिष्ठादिशब्देभ्यस्तत्तद्वाच्यः कश्चिदासीदितिशब्दपूकारकबोधस्य सर्वसिद्धत्वात् । अन्यथा वनौषधिवर्गादेनागरिका न् प्रत्यबोधकत्वापत्तेश्च । एवमेवापूसिद्धार्थकपदष्वनुभवः सर्वसिद्धः नतु घटादिपदेष्विव तत्तज्जात्यादिरूपण । तथा चोभयमवच्छेदकम् । यस्य तथा शक्तिग्रहस्तस्य जात्यादिरूपेणवोपस्थितिः । पदपूकारकः शक्तिग्रहस्तु विशिष्य नापेक्षितः किं तु इदं पदं कचिच्छक्तं साधुपदत्वादित्यादिरूप एवापेक्ष्यते इति विशिष्यागृहीतशक्तिकेभ्यस्तथैव बोधः । तथा च शब्दोऽपि त्वपूत्ययार्थइति पूपश्चितं भूषणे ॥५०॥ " इति वैयाकरणभूषणसारे त्वादिभावप्रत्ययार्थविचारः ।
Page #85
--------------------------------------------------------------------------
________________
तद्धितार्थनिर्णयः ।
८५
सास्य देवतेत्यत्र देवताविशिष्टं देयं प्रत्ययार्थः ऐन्द्रः वैश्वदेवी इत्यादौ इन्द्रादेर्देवतात्वोपस्थापकान्तराभावात् तेन रूपेणोपस्थितये शक्तिकल्पनावश्यकत्वात् । अतएव
आमिक्षां देवतायुक्तां वदत्येवैष तद्धितः । आमिक्षापदसान्निध्यात्तस्यैव विषयार्पणमिति । केवलाद्देवतावाची तद्धितोऽग्नेः समुच्चरन् । नान्ययुक्तोऽग्निदैवत्यं प्रतिपादयितुं क्षम इति च
मीमांसकैरप्युक्तमित्याशयेनाह । प्रत्ययार्थस्यैकदेशे प्रकृत्यर्थोविशेषणम् । अभेदश्चात्र संसर्ग आग्नेयादावियं स्थितिः । देवतायां प्रदेये च खण्डशः शक्तिरस्तु वा । ५१|
( एकदेशे ) देवतारूपे । तच्च विशेषणमभेदेनेत्याह अभेदचेति । ननु देवतायाः प्रत्ययार्थैकदेशत्वान्न प्रकृत्यर्थस्य तत्राभेदेनाप्यन्वय इत्याशयेनाह देवतायामिति । तथा च पदार्थकदेशतैव नास्तीति भावः ॥ ४१ ॥
नवग्न्यादिदेवस्य प्रकृत्यैव लाभान्न तत्र शक्तिः कल्प्या नच देवतात्वरूपेणोपस्थितये सा कल्प्यते प्रकृतेर्लक्षणयैव तथोपस्थितिसम्भवात् । उपसर्गाणां द्योतकत्वनये प्रजपतीत्यत्र प्रकृष्टजपवदित्याभिप्रेत्याह ।
प्रदेय एव वा शक्तिः प्रकृते स्त्वस्तु लक्षणा । देवतायां निरूढेति सर्वे पक्षा अमी स्थिताः । ५२ ।
-
Page #86
--------------------------------------------------------------------------
________________
८६ वैयाकरणभूषणसारे । ___ नचैन्द्रं दधीत्यादौ द्रव्यस्य पदान्तराल्लाभात्कुतः पुनः प्रत्ययस्य तत्र शक्तिः कल्प्यतइति वाच्यम् पदान्तराश्रवणेऽपि तत्प्रतीतेः ऐन्द्रं दधीति सामानाधिकरण्याच्च । अन्यथाख्यातस्यापि कर्तृकर्मवाचित्वं न स्यात् । मीमांसकानां पुनः प्रत्ययस्य देवतात्वमेवार्थोऽस्तु । द्रव्यं पदान्तराल्लभ्यतएवेति आख्यानस्य कर्तवद्वाच्यत्वं मास्त्विति कुतोन शक्यते वक्तमिति दिक् । देवतायां देवतात्वरूपेण निरूदेति अनुपपत्तिज्ञानापूर्बकत्वमनादिप्रयोगावच्छिन्नत्वं वा तत्त्वमिति भावः ॥५२॥ ___अनयैव रीत्यान्यत्राप्यवधेयमित्याह । क्रीडायांणस्तदस्यास्तीत्यादावेषैव दिक् स्मृता। वस्तुतो त्तिरेवेति नात्रातीव प्रयत्यते॥५३॥
"तदस्यां प्रहरणमिति क्रीड़ायांण" इत्यत्र प्रहरणविशिष्टा क्रीडा प्रहरणकीड़े क्रीडामात्रं वार्थः । आदिना “ सोऽस्यनिवासः" " सास्मिन् पौर्णमासीत "" तदस्यास्त्यस्मिन् इति मतुप्" इत्यादिकं संगृह्यते । वृत्तिमात्रेऽतिरिक्तशक्तेः “ समर्थः पदविधि " रिति सूत्राल्लाभादुक्तोविचारः शास्त्रान्तरैः सह तद्रीत्यैवोक्तःआरोपितपूकृतिप्रत्ययार्थमादाय वा वस्तुतो विशिटशक्त्यैवार्थोपस्थितिरित्याह वस्तुत इति ॥५३॥ .
इति वैयाकरणभूषणसारे देवताप्रत्ययार्थनिर्णयः ।
वृत्तिपूसङ्गात्तत्राभेदैकत्वसंख्या पूतीयतइति सिद्धान्तं दृष्टान्तेनोपपादयति ।
Page #87
--------------------------------------------------------------------------
________________
अभेदैकत्वसंख्यानिर्णयः। ८७ अभेदैकत्वसंख्याया वृत्तौ भानमिति स्थितिः। कपिञ्जलालम्भवाक्येत्रित्वं न्यायाद्यथोच्यते५४
संख्याविशेषाणामविभागेन सत्त्वम् अभेदकत्वसंख्या । उक्तश्च वाक्यपदीये।
यथौषधिरसाः सर्वे मधुन्याहितशक्तयः।
अविभागेन वर्तन्ते संख्यां तां तादृशीं विदुरिति । परित्यक्तविशेषं वा संख्यासामान्यं तत् । उक्तश्च
भेदानां वा परित्यागात्संख्यात्मा स तथाविधः । व्यापाराजातिभागस्य भेदापोहेन वर्त्तते । अगृहीतविशेषेण यथा रूपेण रूपवान् । प्रख्यायते न शुक्लादि भेदापोहस्तु गम्यते इति ।
अस्याः वृत्तौ समासादौ भानं न्यायसिद्धमिति शेषः। इति मतस्थितिर्वैयाकरणानाम् । अयं भावः। राजपुरुष इत्यादौराज्ञोराकोः राज्ञां वायं पुरुषइतिजिज्ञासा जायते । विशेषजिज्ञासायां सामान्यरूपेण तत्प्रतीतिः शब्दादावश्यकी अतस्तस्यां शक्तिरिति । तस्याएकत्वेन प्रतीतौ न्यायमाह कपिअलेति । बहुत्वगणनायां त्रित्वस्यैवप्रथमोपस्थितत्वात् तद्रूपेणैव भानवदेकत्वस्य, सर्वतः प्रथमोपस्थितत्वमस्तीति भावः वस्तुतस्तु जिज्ञसैव नानुभवसिद्धा । तथात्वे वा ज्ञानेच्छयोः समानप्रकारकत्वेन हेतुहेतुमद्भावात्तत्तद्रूपेणैव वाच्यता स्यादिति ध्येयम् ॥ ५४॥
इति वैयाकरणभूषणसारे अभेदकत्वसंख्यानिरूपणम् ।
Page #88
--------------------------------------------------------------------------
________________
वैयाकरणभूषणसारे। ___संख्याप्रसङ्गादुद्देश्यविधेययोः संख्याविवक्षाविवक्षे निरूपयति । लक्ष्यानुरोधात्संख्यायास्तन्वातन्त्रे मते यतः। पश्वेकत्वादिहेतूनामाश्रयणमनाकरम् ॥५५॥ ___ गृहं समा त्यत्रोद्देश्यगृहगतमेकत्वमविवक्षितमितिवन्नास्माकमुद्देश्यविशेषणाविवक्षानियमः धातोरित्येकत्वस्य विवक्षितत्वात् ।
उत्पद्येत समस्तेभ्यो धातुभ्यः प्रत्ययो यदि । तदा सर्वैर्विशिष्येत द्वन्द्वोत्पन्नसुवर्थवदिति ।
शब्दान्तराधिकरणे भट्टपादैरभिधानाच्च । आर्द्धधातुकस्येवलाद रित्यत्रानुवाद्यार्द्धधातुकविशेषणस्य वलादित्वस्य विवक्षितत्वाच । एवं पशुना यजेत इतिवत् विधयविशेषणं विवक्षितम् इत्यपि नियमो न“रदाभ्यां निष्ठातोनः पूर्वस्य च द"इत्यत्र नकारद्वयविधानाऽनापत्तेः । तथा च भिन्नइत्यत्र नकारद्वयलाभो न स्यात् । “आद्गुण" इत्यादावेकत्वविवक्षयैवोपपत्तौ एकः पूर्वपरयोरित्येकग्रहणवैयापप्तेश्रोत भावः। शब्दार्थस्तु सङ्ख्याया लक्ष्यानुरोधात्तन्नातन्त्रे यतोमते अतः पश्वेकत्वाधिकरणोक्तहेतूनामाश्रयणं नास्मत्सिद्धान्तसिद्धमिति । आदिना गृहैकत्वसङ्ग्रहः । ५५॥
ननु विधेयविशेषणविवक्षा आवश्यकी। अन्यथा सुद्ध्युपास्यइत्यादावनन्तयकाराद्यापत्तेः । भिन्नइत्यत्रनकारद्वयवदन्येषामप्यापत्तेः । एकः पूर्वपरयोरित्यौकग्रहणश्च स्थानि
Page #89
--------------------------------------------------------------------------
________________
क्वादिप्रत्ययार्थनिर्णयः। भदोदिवारणायेत्यभिप्रेत्याह । विधेये भेदकं तन्त्रमन्यतोनियमो न हि। गृहैकत्वादिहेतूनामाश्रयणमनाकरम् ॥५६॥
(भेदकम्) विशेषणम् (तन्त्रम्) विवक्षितम् विधेयविशेषणं विवक्षितमित्यस्तु तथाप्यन्यतः अनुवाद्यस्य नियमो नहि काचत्तन्त्रं कचिनेत्यर्थः । ग्रहैकत्वादौ यो हेतुः वाक्याभेदादिस्तस्यात्राश्रयणमनाकरम् । एकत्वविशिष्टं धातुं वलादित्वबिशिष्टमादधातुकचोद्दिश्य प्रत्ययेड़ागमादेविधिसम्भवादीत भावः।५६।
नन्वेवं भिन्नइत्यत्र नकारद्वय लाभोन स्यादित्यत आह । रदाभ्यां वाक्यभेदेन नकारद्वयलाभतः ॥ क्षति वास्ति तन्त्रत्वे विधेये भेदकस्य तु ।५७॥
चकारसूचितं "निष्टातस्य नः, पूर्वस्य दकारस्य च न इति" वाक्यभेदमादाय नकारद्वयलाभइत्यर्थः ॥ ५७॥
इति वैयाकरणभूषणसारे संख्याविवक्षानिर्णयः। .
क्त्वाप्रत्ययादेरर्थं निरूपयति । अव्ययकृत इत्युक्तेः प्रकृत्यर्थे तुमादयः। समानकर्तकत्वादिद्योत्यमेषामितिस्थितिः।५८॥
तुमादयः तुमुन्नादयः (प्रकृत्यर्थे) भावे । आदिना क्त्वादेः संग्रहः । भावे इत्यत्र मानमाह अव्ययकृतइति । “अव्ययकृतोभावे" इति वत्तिकादित्यर्थः । ननु “समानकतकयोः पूर्व
Page #90
--------------------------------------------------------------------------
________________
वैयाकरणभूषणसारे। काले" इत्यादिसूत्राणां कागतिस्तत्राह समानकर्तृकत्वादीति । अयं भावः भोक्तुं पंचति भुक्त्वा व्रजतीयादावेकवाक्यता सर्वसिद्धा भोजनपाकक्रिययोर्विशेषणविशेष्यभावमन्तरेणानुपपन्ना अन्यथा भुङ्क्ते व्रजतीत्यादावण्येकवाक्यतापत्तेः । तथा च तयोविशेषणविशेष्यभावनिरूपकः संसर्गो जन्यत्वं सामानाधिकरण्यं, पूर्वोचरभावो व्याप्यत्ववेत्यादिरनेकविधः। तथा च भोक्तु पचति भुक्त्वा तृप्तः इत्यादौ भोजनजनिका पाकक्रिया, भोजनजन्या वृप्तिरिति बोधः । अतएव जलपानानन्तर्यस्य तृप्तौ सत्त्वेऽपि पीत्वा तृपइति न प्रयोगः । सामानाधिकरण्यस्यापि संसर्गत्वेनार्थात्समानकर्तृकत्वमपि लब्धम् । भुक्त्वा बजतीत्यादौ पूर्वोत्तरभावः सामानाधिकरण्यश्च संसगेइति भोजनसमानाधिकरणा तदुत्तरकालिकी वजनक्रियेति बोधः। अधीत्य तिष्ठति, मुखं व्यादाय स्वपितीत्यादावध्ययनव्यादानयोरभावकाले अप्रयोगात् यदा यदास्य स्थितिः स्वा. पश्च तदा तदाध्ययनं मुखव्यादानश्चेति कालविशेषावच्छिन्नव्याप्यत्वषोधायाप्यत्व सामानाधिकरण्यश्च संसर्गः । एवञ्चान्यलभ्यत्वान्न सूत्रात्तेषां वाच्यत्वलाभइति युक्तमव्ययकृतोभावे इति एवञ्च प्रकृत्यर्थक्रिययोः संसर्गे तात्पर्यग्राहकत्वरूपं द्योतकत्वं क्त्वादीनाम् । अतएव “समानकर्तृकयोरिति" सूत्रो स्वशब्देनोपात्तत्वानोत भाष्यप्रतीकमादाय पौर्व्यापयंकाले द्योत्ये कत्वादिर्विधीयते न तु विषये इति भाव इति कैयटः । यत्तु समानकर्तृकयोोति सूत्रात्समानकर्तृकत्वं क्त्वावाच्यम् अन्य
Page #91
--------------------------------------------------------------------------
________________
स्फोटनिरूपणम् ।
९१
थौदनं पक्वाहं भोक्ष्ये इत्यत्र मयेति तृतीयाप्रसङ्गः । न चाख्यातेन कर्तुरभिधानान्न सेति वाच्यम् भोजनक्रियाकर्तृ रभिधानेऽपि पाकक्रियाकर्तुस्तदभावात् अनभिहिते भवतीति पर्युदासाश्रयणात् । अतएव प्रासादे आस्ते इत्यत्र प्रसादनक्रियाधिकरणस्याभिधाने ऽप्यस्तिक्रियाधिकरणस्यानभिधानात् सप्तमीति भाष्ये स्पष्टम् । तस्मात् क्त्वाप्रत्ययस्य कर्तृवाचित्वमावश्यकमिति तन्न सूत्रात्तस्य वाच्यत्वालाभात् । समानकर्तृकयोः क्रिययोः पूर्वकाले क्त्वा इत्येव तदर्थात् अन्यथा समानकर्त्तरीत्येव सूत्रन्यासः स्यात् । तृतीयापादनन्तु आख्यातार्थक्रियायाः प्रधानभूतायाः कर्तुरभिधानात्प्रधानानुरोधेन गुणे कार्यप्रवृत्तेर्न सम्भवति । उक्तञ्च वाक्यपदीये ॥ प्रधानेतरयोर्यत्र द्रव्यस्य क्रिययोः पृथक् शक्तिर्गुणाश्रया तत्र प्रधानमनुरुध्यते । प्रधानविषया शक्तिः प्रत्ययेनाभिधीयते । यथा गुणे तथा तद्वदनुतापि प्रतीयते इति । किञ्चान्यथा कर्म्मणोऽपि क्वार्थतापत्तिः पक्त्वोदनो मया द्वितीयायाः प्रकारान्तरेणावारणादित्यास्तां
भुज्यतइत्यत्र
विस्तरः ॥ ५८ ॥
इति वैयाकरणभूषणसारे क्वाद्यर्थनिर्णयः ।
सिद्धान्तनिष्कर्षमाह । वाक्यस्फोटोऽतिनिष्कर्षे तिष्ठतीति मतस्थितिः । साधुशब्देऽन्तर्गता हि बोधका नतुतत्स्मृताः ५९
Page #92
--------------------------------------------------------------------------
________________
वैयाकरणभूषणसारे। . यद्यपि वर्णस्फोटः पदस्फोटोवाक्यस्फोटः अखण्डपदवाक्यस्फोटौ वर्णपदवाक्यभेदेन त्रयो जातिस्फोट इत्यष्टौ पक्षाः सिद्धान्तसिद्धा इति वाक्यग्रहणमनर्थकं दुरर्थकञ्च तथापि वाक्यस्फोटातिरिक्तानामन्येषामप्यवास्तवत्वबोधनाय तदुपादानम् एतदेव ध्वनयति अतिनिष्कर्षइति। मतस्थितिः वैयाकरणानां महाभाष्यकारादीनाम् । तत्र क्रमेण सर्वान् तान् निरूपयन् वर्णस्फोटं प्रथममाह साधुशब्द इति । साधुशब्दानन्तर्गता वाचका नवेति विप्रतिपत्तिः । विधिकोटिरन्येषां नति वैयाकरणानां साधुशब्दे पचति राम इत्यादिप्रयुज्यमानेऽन्तर्गतास्तिब्बिसर्गादय एव ( बोधकाः ) वाचकाः तस्यैव शक्तत्वस्य प्राग्व्यवस्थापितत्वात् । न तु तैः स्मृताः लादयः खादयश्चेत्यर्थः ॥ ५९॥
ये तु प्रयोगान्तर्गतास्तिविसर्गादयोन वाचका तेषां बहुत्वेन शक्त्यानन्त्यापत्तेः एधाश्चके ब्रह्मेत्यादावादेशलुगादेरभावरूपस्य बोधकत्वासम्भवाच्च । किन्तु तैः स्मृता लकाराः स्वादयश्च वाचकाः लत्वस्य जातिरूपतया शक्ततावच्छेदकत्वौचित्यात् अव्यभिचाराच्च आदेशानां भिन्नतया परस्परच्यभि चारित्वात् लः कर्मणीत्याद्यनुशासनानुगुण्याच्च । न ह्यादेशेष्वर्थवत्ताबोधकमनुशासनमुपलभामहे इत्याहुः । तान् वसाधकयुक्तिभिर्निराचष्टे । व्यवस्थितेर्व्यवहृतेस्तद्धेतुन्यायतस्तथा । किञ्चाख्यातेन शत्राद्यैर्लडेव स्मार्यते यदि । कथं कर्तुरवाच्यत्ववाच्यत्वे तद्विभावय॥६०॥
Page #93
--------------------------------------------------------------------------
________________
स्फोटनिरूपणम् । व्यवस्थानुरोधात्प्रयोगान्तर्गताएव वाचका न तु तैः स्मृता इत्यर्थः । तथाहि पचतीत्यादौ लकारमविदुषां बोधान्न तस्य वाचकत्वम् । न च तेषां तिक्षु शक्तिभ्रमाद्बोधः। तस्य भ्रमत्वे मानाभावात् आदेशिनामपि तत्तद्वैयाकरणैः स्वेच्छया भिन्नानामभ्युपगमात् कः शक्तः कोनेति व्यवस्थानापत्तेश्च । सर्वेषां शक्तत्वे गौरवम् व्यभिचारश्चास्त्येव । आदेशानां प्रयोगान्तर्गततया नियतत्वाद् युक्तं तेषां शक्तत्वम् । तथाचादेशिस्मरणकल्पना नेति लाघवम् । साधकान्तरमाह व्यवहारित व्यवहारस्तावच्छक्तिग्राहकेषु मुख्यः । स च श्रूयमाणः तिङादिष्वेवेति त एव वाचका इत्यर्थः। किञ्च तद्धेतुन्यायत इति । लकारस्य बोधकत्वे भूलेइत्यतोऽपि बोधापत्तिः स्यात् । तादृशबोधे पचतीति समभिव्याहारोऽपि कारणमिति चे त्तावश्यकत्वादस्तु तादृशसमभिव्याहारस्यैव वाचकत्वशक्तिः। अन्यथा लकारस्य वाचकत्वं समभिव्याहरस्य कारणत्वश्वत्युभयं कल्प्यमिति गौरवं स्यात् । तथा च तादृशसमभिव्याहारः समभिव्याहृता वर्णा वेत्यत्र बिनिगमकाभावात्मयोगान्तर्गता वर्णा वाचका इति सिध्यतीति भावः । अपि च लकारस्यैव पाचकत्वे कृत्तिङोः कर्तृभावनावाचकत्वव्यवस्था त्वत्सिद्धा न स्यादित्याह किश्चेति आदेशानां वाचकत्वे च तिन्त्वेन भावनायां शानजादिना कतरि शक्तिरित्युपपद्यते विभागइति भावः। न च शानजादौ कृतिर्लकारार्थः आश्रयः शानजथंइत्यस्तु कर्तरि कृदित्यनुशासनाादीत शङ्कयम् । स्थान्यर्थेन निराकास
Page #94
--------------------------------------------------------------------------
________________
९४ वैयाकरणभूषणसारे । तया शानजादौ कर्तरीत्यस्याप्रवृत्तेः । अन्यथा घआदावाप प्रवर्तेत ॥६०॥
देवदत्तः पचमान इत्यादिसामानाधिकरण्यानुरोधाच्छानचः कती वाच्यः स्यादित्याशङ्कयाह ॥ तरबाद्यन्ततिक्ष्वस्ति नामता कृत्स्विव स्फुटा। नामार्थयोरभेदोऽपि तस्मात्तल्योऽवधार्य्यताम्।
पचतितरां मैत्रः पचतिकल्पं मैाइत्यादिषु नामार्थत्वाभेदान्वययोः सम्भवएवोत कर्तृवाचकता स्यादिति भावः । नच पचतिकल्पमित्या सामानाधिकरण्यानुरोधात्कर्तरि लक्षणा, पचमान इत्यत्राप्यापत्तेरित । लः कर्मणीत्यनुशासनश्च लाघवाय कल्पिते लकारे कळदिवाचित्वं कल्पितमादायेत्युक्तम् ॥६१॥ ___ इति वर्णस्फोटनिरूपणम् ।
----- --- अथादेशा वाचकाश्चेत्पदस्फोटस्ततः स्फुटः।
एवमादेशानां वाचकत्वे सिद्ध पदस्फाटोऽपि सिद्धएकेत्याह अथव्यादि । (आदेशाः) तिग्विसादयः । अयं भावः। समभिव्याहृतवर्णानां वाचकत्वे सिद्धे तादृशवर्णसमभिव्याहाररूपपदस्य वाचकता सिध्यति प्रतिवर्णमर्थस्मरणस्यानुभवविरुद्धत्वात् प्रत्येकवर्णानामर्थवत्त्वे प्रातिपदिकत्वापत्तौ "नलोपः प्रातिपदिकान्तस्ये" त्यादिभिर्धनं वनमित्यादौ नलोपाद्याफतेश्च । एतच्च, चरमवर्णएव वाचकत्वशक्तिः शक्तासज्यकृ
Page #95
--------------------------------------------------------------------------
________________
स्फोटनिरूपणम् । तित्वे मानाभावात् पूर्वपूर्ववर्णानुभवजन्यसंस्काराचरमेणार्थधीजनने सहकारिणइति न तन्मात्रोच्चारणादर्थधारिति वर्ण स्फोटवादिनां मतान्तरस्य दूषणायोक्तम् । रामोऽस्तीति वक्तव्ये रांइत्यनन्तरं घटिकोत्तरमकारोच्चारणेऽर्थबोधापत्त्या तादृशानुपूाएव शक्ततावच्छेदकत्वौचित्यादिति दिक् ॥६१॥
सुप्तिङन्त पदमिति परिभाषिकपदस्य वाचकत्वस्वीकर्तृणां मतमाह। घटेनेत्यादिषु न हि प्रकृत्यादिभिदा स्थिता। वस्नसादाविवेहापिशम्प्रमोहोहि दृश्यते॥६२॥
घटेनेत्यादौ घटे इति प्रकृतिर्नेति प्रत्ययः घटइति प्रकृतिरेनेति प्रत्ययइतिविभागस्य " सर्वे सर्वपदादेशाइति " स्वीकारे विशिष्य प्रकृतिप्रत्यययोञ्जनासम्भवान वाचकत्वमित्यर्थः वैयाकरणैर्विभागः सुज्ञेय इत्यतो दृष्टान्तव्याजेनाह वस्नसादाविति । "बहुवचनस्य वस्नसाविति" समुदायस्यादेशविधानानात्र . तद्विभागः सम्भवतीत्यर्थः ॥ ६२॥. . सुप्तिङन्तचयरूपवाक्यस्यापि तदाह । हरेऽवेत्यादि दृष्ट्वा च वाक्यस्फोटं विनिश्चिनु६३ अर्थ विशिष्य सम्बन्धाग्रहणं चेत्समं पदे॥ लक्षणादधुना चेत्तत्पदेऽर्थेप्यस्तुतत्तथा।६४॥
हरेऽव विष्णोऽवेत्यादौ पदयोः “एङः पदान्तादती"त्येकादेशे सात न तदविभागः सुज्ञानः। तथा च प्रत्येकपदाज्ञानेऽपि समुदा
Page #96
--------------------------------------------------------------------------
________________
वैयाकरणभूषणसारे ।
यशक्तिज्ञानाच्छाब्दबोधात्समुदायेऽप्यावश्यका शक्तिः एवञ्च प्रकृतिप्रत्ययेषु विशिष्याज्ञायमानेष्वपि समुदायव्युत्पत्त्या बोधातत्राप्यावश्यिकैव शक्तिरिति भावः । वस्तुतः पदैः पदार्थबोधवद्वाक्येन वाक्यार्थबोध इति पदार्थशक्तिः पदेष्विव वाक्यार्थशक्तिर्वाक्येऽभ्युपयेोति पदस्फोटवाक्यस्फोटौ व्यवस्थितौ । अन्यथा घटः कर्म्मत्वमानयनं कृतिरित्यादौ तादृशब्युत्पत्तिरहितस्यापि बोधप्रसङ्गः । घटमानयेत्यत्रेव पदार्थानामुपस्थितौ, सत्यपि तात्पर्यज्ञाने बोधाभावाच्च । तत्रैव घटकमकमानयनमिति बोधे घटार्थकप्रातिपदिकात्तरकम्मत्ववाचकविभक्तेस्ततोधातोस्तत आख्यातस्य समभिव्याहारः कारणमिति कार्यकारणभावज्ञानवतोबोधातज्ज्ञानमपि हेतुरिति चेत्तर्हि सिद्धो वाक्यस्फोटः । घटादिपदार्थबोधे बोधकतारूपपदशक्तिज्ञानकाकारणभावस्यैव विशिष्टवाक्यार्थबोधे पदसमभिव्याहाररूपवाक्यनिष्ठबोधकतारूपवाक्यशक्तिज्ञानस्यापि हेतुत्वकल्पनात् । अर्थोपस्थापकज्ञानविषयशब्दवृत्तिज्ञानकारणत्वस्यैव शक्तित्वात् । युक्तं चैतत् विषयतासम्बन्धेन शाब्दबोधमात्रे वृत्तिज्ञानस्य लाघवेन हेतुत्वसिद्धेः । विवेचितञ्चैतद्भषणे । ननु वाक्यर्थस्यापूर्वत्वात्कथं तत्र शक्तिग्रहइत्याशङ्कयाह अर्थ इति वाक्यस्येति शेषः । वाक्यस्य वाक्यार्थे विशिष्य शक्त्यग्रहणञ्चेत्तर्हि पदेऽपि समम् । पदे एवान्वयांशे शक्तिरिति पक्षेऽपि तद्ग्रहासम्भवस्तुल्यइत्यर्थः । यदि च पदशक्तिः पदार्थशे ज्ञाता अन्वयांशे अज्ञातोपयुज्यतइति कुब्जशक्तिवादः तदा ममापि वाक्यशक्ति
९६
Page #97
--------------------------------------------------------------------------
________________
स्फोटनिरूणम् ।
९७
रज्ञातैवो युज्यतइति वादाभ्युपगमस्तुल्यइति भावः । ननु वृद्धव्यवहारं पश्यतो मनसा पदार्थवद्वाक्यार्थेऽपि तद्ग्रहइति चेत्तुल्यमित्याह लक्षणादिति । लक्ष्यते ततेऽनेनेति लक्षणं मनस्तस्मात्, अपिपदं पदोत्तरं बोध्यम् । पदेऽपि लक्षणातद्ग्रहश्वेत्तर्ह्यस्तु वाक्येऽपीति शेषः । वस्तुतस्तु समुदितार्थे विशिष्टवाक्यस्यैव प्रथमं तद्यहः । आवापोद्वापाभ्यां परं प्रत्येकं तद्ग्रहइति बोध्यम् ।। ६३ ॥ ६४
इयमेव मीमांसकानां वेदान्तैकदेशिनां गतिरित्याह । सर्वत्रैव हि वाक्यार्थो लक्ष्यएवेति ये विदुः । भाट्टास्तेऽपीत्थमेवाद्दुर्लक्षणाया गूहे गतिम् ६५
1
भाट्टाइति तदनुयायिनां वाचस्पतिकल्पतरुप्रभृतीनामुपलक्षणम् | स्पष्टमन्यत् । ननूक्तपक्षद्वयमनुपपन्नम् उत्पत्तेरभिव्यक्तेर्वैकदा असम्भवेन वर्णसमूहरूपपदज्ञानासम्भवात् । तथा च सुतरां तत्समूहरूपवाक्यज्ञानासम्भवइति चेन्न उत्तरवर्णप्रत्यक्षसमये अव्यवहितोत्तरत्वसम्बन्धेनोपस्थित पूर्वपूर्ववर्णवत्त्वं तथा तदुत्तरप्रत्यक्षकाले उपस्थितविशिष्टतद्वर्णवत्त्वं तस्मिन् सुग्रहमिति तादृशानुपूर्वीघटितपदत्वस्येव वाक्यत्वस्य सुग्रहत्वात् ॥ ६५ ॥ इदानीमखण्डपक्षमाह ॥
पदे न वर्णा विद्यन्ते वर्णेष्ववयवा न च । वाक्यात्पदानामत्यन्तं प्रविवेको न कश्चन६६
पदे पचतीत्यादौ न वर्णाः नातो वर्णसमूहः पदमिति भावः ।
१३
Page #98
--------------------------------------------------------------------------
________________
९८ . वैयाकरणभूषणसारे । दृष्टान्तव्याजेनाह वर्णेष्विति । एकारौकारऋकारादिवर्णेषु अवयवाः प्रतीयमाना अपि यथा नेत्यर्थः । कचित् इवेत्येव पाठः । एवं वाक्येऽप्याह, वाक्यादिति, पदानामपि वाक्याद्विवेकोभेदोनास्तीत्यर्थः । अयं भावः । वाक्यं पदं चाखण्डमेव न तु वर्णसमूहः, अनन्तवर्णकल्पने मानाभावात् । तत्तद्धोत्पादकत्वेनाभिमतवायुसंयोगनिष्ठं तत्तद्वर्णजनकताया व्यञ्जकताया वावच्छेदकं वैजात्यमादायैव ककारो गकार इत्यादिप्रतीतिवैलक्षण्यसम्भवात् । स्पष्टं हि भामत्यां " तारत्वादि, वायु निष्ठं वर्णेष्वाराप्यत" इत्युक्तं देवताधिकरणे । नचैवं वायुसंयोगएव वाचकोऽपि किं न ? स्यादिति वाच्यम् प्रत्यक्षोपलभ्यमानककारादेरेव वाचकत्वस्यानुभवसिद्धत्वात् । तथा च वाचकत्वानुपपत्त्या तदेवेदं पदं तदेवेदं वाक्यं सोऽयंगकारइति प्रतीत्या च स्फोटोऽखण्डः सिध्यति ॥ एतेन गौरित्यादौ गकारौकारविसगांदिव्यतिरेकेण स्फोटाननुभवात् श्रूयमाणवर्णानामेव वाचकत्वमस्तीत्यपास्तम् तेषां स्फोटातिरिक्तत्वाभावात् । यत्त वर्णानां प्रत्येकं वाचकत्वे प्रत्येकादर्थबोधापत्तिः । समूदायस्य तु क्रमवतामाशुतरोत्पन्नानां तथैवाभिव्यक्तानां वा ज्ञानमसम्भाव्यमेव । पूर्वपूर्ववर्णानुभवसंस्कारसहकारेणैकदा समूहालम्बनरूपसकलज्ञानसम्भवस्तु सरोरसः जराराजनदीदीनादिसाधारणइत्यतिप्रसङ्गइति स्फोट एवाखण्डो नादाभिव्यङ्गयो वाचकइति कैयटः । तत्तच्छम् पदज्ञानसम्भवस्योपपादितत्वात् । वर्णानां प्रत्येकं व्यञ्जकत्वं, समुदितानां वेत्यादि
Page #99
--------------------------------------------------------------------------
________________
स्फोटनिरूपणम् ।
·
विकल्पग्रासाच्च । ननु त्वन्मतेऽप्येष दोषः तत्तद्वर्णोत्पादकत्वेनाभिमतवायुसंयोगानां प्रत्येकं व्यञ्जकत्वं समुदितानां वेति विकल्पस्य सद्भावादिति चेत्, उच्यते प्रत्येकमेव संयोगा अभिव्यञ्जकाः परन्तु केचित् गत्वेन केचिदौत्वेन केचिद्विसर्गत्वेनेत्यनेकैः प्रकारैः । अतएव वर्णानां तदतिरेकास्वीकारोऽप्युपपद्यते । एवञ्चाव्यवहितोत्तरत्वसम्बन्धेन घवत्त्वं टकारे गृह्यते, एतादृशपदज्ञानकारणताया अविवादात् परं त्वव्यवहितोत्तरत्वं स्वज्ञानाधिकरणक्षणोत्पत्तिकज्ञानविषयत्वं वाच्यम् । अतएव घज्ञानानन्तरटज्ञानविषयत्वरूपानुपूर्वीत्यादि नैयायिकवृद्धानां व्यवहारः । एवञ्च न कश्चिदोषः । एतेन पर्य्यायस्थलेष्वेकएव स्फोटोनाना वा । नायः घटपदे एव गृहीतशक्तिकस्य कलशादेर्बोधप्रसङ्गात् । नच तत्पर्य्यायाभिव्यक्ते शक्तिग्रहस्तत्पर्य्यायश्रवणेऽर्थधीहेतुारीति वाच्यम् एवं सति प्रतिपर्य्यायं शक्तियहावश्यम्भावेन तत्तत्पर्य्ययगतशक्तिग्रहहेतुताया उचितत्वात् । तथा सतेि शक्तिग्रहत्वेनैव हेतुत्वे लाघवात् । अन्यथा तत्पर्य्यायाभिव्यक्तगतशक्तिमहत्वेन तत्त्वे गौरवात् । न द्वितीयः अनन्तपदानां तेषां शक्तिश्चापेक्ष्य क्लृप्तवर्णेष्वेव शक्तिकल्पनस्य लघुत्वादीत परिमलोक्तमपास्तम् । पर्य्यायेष्वनेकशक्ति स्वीकारस्य सर्व्वसिद्धत्वात् तदवच्छेदकानुपूर्व्याः प्रागुपपादनादिति दिक् । शब्दकौस्तुभे तु वर्णमालायां पदमिति प्रतीतेर्वर्णातिरिक्तएव स्फोटः अन्यथा कपालातिरिक्तघटाद्यसिद्धिप्रसङ्गश्चेति प्रतिपादितम् ॥ ६६ ॥
९९
Page #100
--------------------------------------------------------------------------
________________
१००
वैयाकरणभूषणसारे ।
नन्वेवं शास्त्राप्रामाण्यप्रसङ्गः पदस्याखण्डत्वात् । शास्त्रस्य च प्रकृतिप्रत्ययाभ्यां पदव्युत्पादनमात्रार्थत्वादित्याशङ्कां समाधन्ते । पञ्चकोषादिवत्तस्मात् कल्पनैषा समाश्रिता । उपेयप्रतिपत्त्यर्था, उपाया अव्यवस्थिताः ६७
उपयप्रतिपत्यर्था इत्यन्तेनान्वयः । अयं भावः यथा भृगुवल्ल्यां, भृगुर्वै वारुणिर्वरुणं ब्रह्म पृष्टवान् स उवाच अन्नमिति तस्योत्पत्यादिकं बुद्ध्वा पृष्ठे प्राणमनोविज्ञानानन्दात्मकपञ्चकोशोत्तरं ब्रह्म पुच्छं प्रतिष्ठेति ज्ञेयं ब्रह्म प्रतिपादितं तत्र कोषपञ्चकन्युत्पादनं शुद्धब्रह्मबोधनाय । यथा वा आनन्दवल्लीस्थपञ्चकोषव्युत्पादनं वास्तवशुद्धब्रह्मबोधनाय । एवं प्रकृति प्रत्ययादिव्युत्पादनं वास्तवस्फोटव्युत्पादनायैवेति । ननु प्रत्यक्षस्य स्फोटस्य श्रवणादितोऽपि बोधसम्भवान्न शास्त्र तदुपाय इत्यत आह उपाया इति । उपायस्योपायान्तरादूषकत्वात् । तथा च व्याकरणाभ्यासजन्यज्ञाने वैजात्यं कल्प्यते मन्त्रजन्यमिवार्थस्मरणे वेदान्तजन्यमिव ब्रह्मज्ञाने तस्य च ज्ञानस्य यज्ञादीनमन्तः करणशुद्धाविव शरीरादिशुद्धावुपयोगः साक्षात्परम्परया वा स्वर्गमोक्षादिहेतुत्वश्च ।
तदुक्तं वाक्यपदीये |
तद्वारमपवर्गस्य वाङ्मलानां चिकित्सितम् । पवित्रं सर्व्वविद्यानामधिविधं प्रकाशते । इदमाद्यं पदस्थाने सिद्धिसोपानपर्वणाम् ।
Page #101
--------------------------------------------------------------------------
________________
स्फोटनिरूपणम् । इयं सा मोक्षमाणानामजिह्मा राजपद्धतिः । अत्रातीतविपर्यासः केवलामनुपश्यतीति ।
न चालीकया प्रकृतिप्रत्ययकल्पनया कथं वास्तवस्फोटवोधः तस्या अलीकत्वासिद्धेवेक्ष्यमाणत्वात् । एवं रेखागवयन्याय आदिना गृह्यते ॥ ६७ ॥
ननु स्फोटस्य वर्णजातीनाञ्च नित्यतया ककार उत्पन्नइति न स्यात् । वायुसंयोगनिष्टजातेः स्फोटे भाने कादिमतीतीनांभ्रमत्वापत्तश्चेत्यत आह ।। कल्पितानामुपाधित्वं स्वीकृतं हि परैरपि। स्वरदैाद्यपि ह्यन्ये वर्णेभ्योऽन्यस्यमन्वते६८ ___ स्वीकारस्थलमाह स्वरदैाद्यपीति । आदिनोत्पत्तिवि नाशसंग्रहः । उदात्तत्वादि न वर्णानष्ठम् तस्यैकत्वात् नित्यत्वाच तच्च स एवायमिति प्रत्यभिज्ञानात् न च गत्वावच्छिनप्रतियोगिताकभेदाभावस्तद्विषयः व्यत्त्यंशाभेदस्यापि भास मानस्य विना वाधकं त्यागायोगात् । नचोत्पत्तिप्रतीतिर्वाधिका प्रागसत्त्वे सत्वरूपाया उत्पत्तेर्वर्णेष्वनुभवविरुद्धत्वात् । अतएव वर्णमुच्चारयतीत प्रत्ययो न तूत्पादयतीति प्रत्ययो व्यवहारश्च । उच्चरितत्वञ्च ताल्वोष्ठसंयोगादिजन्याभिव्यक्ति विशिष्टत्वम् । किश्च व्यञ्जकध्वनिनिष्ठोत्पत्त्यादेः परम्परया वर्णनिष्ठत्वविषयत्वेना ऽप्युपपत्तेने सातिरिक्तवर्णसाधिका । परम्परया वर्णनिष्ठत्वाभ्युपगमाञ्च न भ्रमत्वम् । साक्षात्सम्बन्धांशे भ्रमइत्यवशिष्यते । तदापि सो ऽयमित्यत्र व्यक्त्यभेदांशे तव भ्रमत्ववत्तुल्यम् । परन्तु ममातिरिक्तवर्णतत्प्रागभावध्वंसकल्पना नेति लाघवमतिरिच्यते । न च वर्णस्थले ध्वानसत्त्वे मानाभावः तदुत्पादकशङ्खाद्यभावेन तदसम्भवश्चेति
Page #102
--------------------------------------------------------------------------
________________
१०२
वैयाकरणभूषणसार |
वाच्यम् ककाराद्युच्चारणस्थले तत्तत्स्थानस्य जिह्वाया ईषदन्तरपाते वर्णानुत्पत्तेश्च दर्शनाज्जिह्वाभिघातजवायुकण्ठसंयोगादे र्ध्वनिजनकत्वकल्पनात् तस्य च वर्णोत्पत्तिस्थलेऽपि सत्वात् प्रतिबध्यमतिबन्धक भावकल्पना निष्प्रामाणिकी स्यादिति गौरवं विपरीतम् । एवं परस्पर विरोधादुदात्तत्वानुदात्तत्वस्वत्व दीर्घत्वादिकमपि न वर्णनिष्टं युक्तमिति तेषामभिप्रायः । एवञ्चोत्पत्त्यादिप्रतीतीनां तत्प्रमात्वस्य च निर्वाहः परेषामपि समानइति प्रतिवन्द्येवेात्तरमिति भावः ॥ ६७ ॥ इत्थं पञ्चव्यक्तिस्फोटाः । जातिस्फोटमाह ।
शक्यत्वश्व शक्तत्वे जातेर्लाघवमोक्ष्यताम् । औपाधिकोवा भेदोऽस्तु वर्णानां तारमन्दवत् ६९
अयं भावः वर्णास्तावदावश्यकाः उक्तरीत्या च सोऽयं गकार इतिवद् योऽयं गकारः श्रुतः सोऽयं हकार इत्यपि - स्यात् स्फोटस्यैकत्वात् गकारोयं न हकार इत्यनापत्तेश्च । किञ्च स्फोटे गत्वाद्यभ्युपेयं न वा । आद्ये तदेव गकारोऽस्तु वर्णनित्यतावादिभिरतिरिक्तगत्वानङ्गीकारात् । तथा चातिरिक्त स्फोट कल्पन एव गौरवम् अन्त्ये गकारादिप्रतीतिविरोधः । वायुसंयोगवृत्ति ध्वनिवृत्ति वा वैजात्यमारोप्य तथा प्रत्यय इति चेन्न प्रतीतेर्विना वाधकं भ्रमत्वायोगात् अस्तु वा वायुसंयोग एव गकारोऽपि तस्यातीन्द्रियत्वं दोष इति चेद्धर्मवदुपपत्तेरिति कृतं स्फोटेन । तस्मात्सन्त्येव वर्णाः परन्तु न वाचकाः गौरवात् आकृत्यधिकरणन्यायेन जातेरेव वाच्यत्ववद्वाचकत्वस्यापि युक्तत्वाच्च इदं हरिपदमित्यनुगतमतीत्या हर्य्युपस्थितित्वावच्छेदेन हरिपदज्ञानत्वेन हेतुत्वात्तदवच्छेदकतया च जातिविशेषस्यावश्यकल्प्यत्वात् न च वर्णानुपूर्यै
Page #103
--------------------------------------------------------------------------
________________
स्फोटनिरूपणम् ।
१०३
व प्रतीत्यवच्छेदकत्वयोर्निर्वाहः घटघटत्वादेरपि संयोगविशिष्टमृदा आकारादिभिश्चान्यथासिद्ध्यापत्तेः तस्मात्सा जातिरेव वाचिका तादात्म्येनावच्छेदिका चेति नतु सरोरस इत्यादौ जात्योः सत्त्वादर्थभेदबोधोन स्यादित्यत आह औपाधिको वेति वा स्वर्थे उपाधिरानुपूर्वी सैव जातिविशेषाभिव्यञ्जिक्रेति भेदः कारणीभूतज्ञानस्येति नातिप्रसङ्गाइति भावः उपाधिप्रयुक्तज्ञानवैलक्षण्ये दृष्टान्तमाह वर्णानामिति ॥ ६८ ॥
ननु जातेः प्रत्येकं वर्णेष्वपि सच्चात् प्रत्येकादर्थबोधः स्यादित्यत आह । अनेकव्यक्तयभिव्यङ्ग्याजातिः स्फोटइतिस्मृता कैश्चिव्यक्तय एवास्या ध्वनित्वेन प्रकल्पिताः ७०
अनेकाभिर्वर्णव्यक्तिभिरभिव्यङ्गैव जातिः स्फोटइति स्मृता योगार्थतया बोधिकेति यावत् । एतेन स्फोटस्य नित्यत्वात्सवर्थबोधापत्तिरित्यपास्तम् । अयं भावः यद्यपि वर्णस्फोटपक्ष कथितदोषोऽस्ति तथापि पदवाक्यपक्षयोर्न, तत्र तस्या व्यासज्यवृत्तित्वस्य धार्मग्राहकमानासिद्धत्वादिति कैश्चिद्व्यक्तयो ध्वनय एव ध्वनिवर्णयोर्भेदाभावादित्यभ्युपेयन्ते इति शेषार्थः । उक्तं हि काव्यप्रकाशे “ बुधैर्वैयाकरणैः प्रधानीभूतस्फोटरूपव्यङ्ग्यव्यञ्जकस्य शब्दस्य ध्वनिरिति ब्यवहारः कृत " इति । ६९ । ननु का सा जातिस्तत्राह ।
सत्यासत्यौ तु यौ भागौ प्रतिभावं व्यवस्थितौ । सत्यं यत्तत्र सा जातिरसत्या व्यक्तयोमताः ७१
( प्रतिभावम् ) प्रतिपदार्थम् । सत्यांशोजाति असत्या व्यक्तयः। तत्तद्व्यक्तिविशिष्टं ब्रह्मव जातिरिति भावः । उक्तञ्च कैयटेन “असत्योपाध्यवच्छिन्नं ब्रह्मतत्त्वं द्रव्यशब्दवाच्यमित्यर्थ
Page #104
--------------------------------------------------------------------------
________________
१०४ वैयाकरणभूषणसारे। इति"। "ब्रह्मतत्त्वमेव शब्दस्वरूपतया भातीति" च । कथं तर्हि ब्रह्मदर्शने च गोत्वादिजातेरप्यसत्त्वादनित्यत्वम् , आत्मैवेद सर्वमिति श्रुतिवचनादिति कैयटः सङ्गच्छताम् ? अविद्या आविधिको धर्मविशेषोवेति पक्षान्तरमादायोत द्रष्टव्यम् ॥ ७० ॥
तमेव सत्यांशं स्पष्टयति । इत्थं निष्कृष्यमाणं यच्छब्दतत्त्वनिरञ्जनम्। ब्रह्मवेत्यक्षरं प्राहुस्तस्मै पूर्णात्मने नमः।७२।
अयं भावः "नामरूपे व्याकरवाणीति" भूतिसिद्धाद्वयी सृष्टिः तत्र रूपस्येव नाम्नोऽपि तदेव तत्त्वम् । प्रक्रियांशस्त्वविद्याविजृम्भणमात्रम् । उक्तश्च वाक्यपदीये। . __शास्त्रेषु प्रक्रिया दैविद्यैवोपवर्ण्यते ।
समारम्भस्तु भावानामनादि ब्रह्म शाश्वतमिति । ब्रह्मैवेत्यनेन " अायं पुरुषः स्वयं ज्योतिः" " तमेव भान्तमनुभाति सर्च" " तस्य भासा सर्वमिदं विभातीति" श्रुतिसिद्धं स्वपरप्रकाशत्वं सूचयति । स्फुटत्यर्थोऽस्मादिति स्फोट इति यौगिकस्फोटशब्दाभिधेयत्वं सूचयति । निर्विघ्नप्र चयायान्ते मङ्गलं स्तुतिरूपमाह । पूर्णात्मने इत्यादिना ॥७१॥
अशेषफलदातारमपि सर्वेश्वरं गुरुम् ।
श्रीमद्भषणसारेण भूषये शेषभूषणम्॥ इति श्रीमद्रगाोजिभट्टात्मजकौण्डभट्टकृते वैयाकरणभूषणसारे
स्फोटवादः समाप्तश्चायं ग्रन्थः। तूर्याङ्गनवचन्द्रेऽब्दे नवम्यां श्रावणेऽसिते । काशीयन्त्रालये काश्यां कवौ पूर्ण स्सुमुद्रणात् ॥ त्रिपाठिलक्ष्मणेनायं परिशोध्य प्रकाशितः । यद्यत्र दृष्टिदोषेण दोषश्चेद्भष्यताम्बुधैः ।।
Page #105
--------------------------------------------------------------------------
________________
ܪܘܘܘܪܘܪܘܪܘܘܘ ܘ ܘ ܘ
॥ श्रीः ॥
कारकवादार्थः ।
श्रीमन्महामहोपाध्यायजयराम पंडितविरचितः.
सच
श्रीकृष्णदासात्मज - गङ्गाविष्णुना
नैजे
"लक्ष्मीवेडुटेश्वर" मुद्रणालये
मुद्रयित्वा प्रकाशं नीतः ।
कल्याण - मुंबई.
संवत् १९५१, शके १८१६.
इस पुस्तक का सर्व प्रकारका हक्क यन्त्राधिकारीने अपने स्वाधीन रक्खा है.
Yoyo Gie eie e
०००००००० 9c9 c9 cho cho
06
Page #106
--------------------------------------------------------------------------
Page #107
--------------------------------------------------------------------------
________________
॥श्रीः॥ अथ कारकवादार्थः।
नत्वा शम्भोः पदांभोज जयरामः समासतः ॥ करोति कारकव्याख्यामिह संख्यावतां मुदे ॥१॥
कारकाणि कर्तृकर्मकरणसम्प्रदानापादानाधिकरणानि षट् । कारकत्वं च नाम क्रियानिमित्तत्वं । चैत्रस्य तंडुलं पंचतीत्यादौ संबंधिनि चैत्रादावतिव्याप्तेः । अनुमतिप्रकाशनद्वारा संप्रदानादेरिव तंडुलादिसंपादनद्वारा संबंधिनोऽपि पाकादिक्रियानिमित्तत्वात् । किंतु क्रियान्वितविभक्त्यान्वितत्वं । अस्ति च कर्नादीनां क्रियान्विततिङ्सुब्बिभक्त्यर्थान्वयः । नतूदाहृते संबंधिनि षष्ठयर्थसंबंधस्य । तंडुलादिनामार्थान्विततया क्रियानन्वितत्वात् । चैत्रस्य पचतीत्यादावपि तंडुलादिपदाध्याहारेणैव बोधः । षष्ठयर्थसंबंधस्य तंडुलादिनामाथैरेव क्रियायाः कर्मत्वादिनैव साकांक्षत्वात्परस्पराकांक्षाविरहात् । ओदनस्य भोक्ता चैत्रस्य पाक इत्यादौ कर्तृत्वकर्मत्वार्थिका षष्ठी कारकविभक्तिरेव । “कर्तृकर्मणोः कृति " इत्यनेन तद्विधानात् । अत एव संबंधस्य न कारकत्वं, क्रियायोगाभावादिति
र क्रियानिष्ठजन्यतानिरूपितजनकताशालित्वं तत्. २ चैत्रनिरूपितस्वत्वशालितंडुलान्यासमवेततंडुलसमवेतधात्वर्थतावच्छेदकविक्लित्त्यनुकूलवर्त्तमानव्यापारानुकूलकृतिमानिति वाक्यार्थः.
Page #108
--------------------------------------------------------------------------
________________
कारकवादार्थः। शाब्दिकाः । अत एव "गुरुविप्रतपस्विदुर्गतानां प्रतिकुर्वीत भिषक्स्वशेषजैरि " त्यादौ, “ सा लक्ष्मीरुपकुरुते यया परेषामि” त्यादौ च रोगे विपत्तौ चेत्यादिपदाध्याहारेणैव बोधः । यदिच विनाध्याहारं पष्ठ्यर्थसंबंधस्य क्रियायामन्वयः प्रामाणिकस्तदा क्रियान्वितकर्तृत्वकर्मत्वादिषडन्यतमान्वयित्वं कारकत्वं बोध्यम् । अत एव " चर्मणि द्वोपिनं हंति दंतयोहंति कुंजरं । केशेषु चमरी हंति सीनि पुष्कलको हतः ॥” इत्यादौ निमित्तादेरपि न कारकत्वं । एतादृश्य उपपदविभक्तयो नतु कारकविभक्तयः। गां दोग्धि पयः, अजां ग्रामं नयतीत्यादौ गौणमुख्यकर्मद्वयमपि लक्ष्य। अत्र हि द्रवद्रव्यविभागानुकूलक्रियानुकूलव्यापारविशेषः कर्तुनिष्ठो दुहेरर्थः । वायुर्वृक्षं पर्ण दोग्धीति वारणाय द्रवद्रव्येति देयं । मेघो गगनं जलं दोग्धीति वारणाय विशेषेति। विशेषो हि दुहिधातुप्रयोगगम्यः । इत्थं च द्रवद्रव्येति न देयमिति वदंति । संयोगानुकूलक्रियानुकूलव्यापारस्तादृशो नीधातोरर्थः । तत्राद्य विभागे गामित्यस्य क्रियायां पय इत्यस्यान्वयात् गोवृत्तिविभागानुकूलपयोवृत्तिक्रियानुकूलव्यापारानुकूलकृतिमानिति वाक्यार्थः। द्वितीये तु ग्राममित्यस्य संयोगेऽजामित्यस्य क्रियायामन्वयात् ग्रामवृत्तिसंयोगानुकूलअजावृत्तिक्रियानुकूलव्यापारानुकूलकतिमानिति वाक्यार्थः ॥ साक्षादात्वर्थतावच्छेदकनि
१ गुरुविप्रतपस्विदुर्गतनिरूपितसंबंधशालिरोगनिष्ठविषयतानिरूपितविषयताशालिस्वनिरूपितसंबंधशालिस्वत्वविशिष्टभेषजनिष्ठकारणतानिरूपितजन्याश्रयबलबलिष्ठाननुबंधिस्वेष्टसाधनीभूतकृतिसाध्यत्वाश्रयप्रतीकारानुकूलकृतिमानिति बोधः.
Page #109
--------------------------------------------------------------------------
________________
५
।
कारकवादार्थः । रुक्तक्रियाद्वयरूपफलान्वयिनोरजापयसेोमुख्य कर्मत्वम् । तादृशक्रियानुरूपफलान्वितान्वयिनोर्गोग्रामयोगौणकर्मत्वम् उभयत्रापि धात्वर्थान्वितविभत्तयर्थान्वितत्वमस्ति । फल - द्वयस्यापि धात्वर्थतावच्छेदकत्वात् । अत एव कर्मद्वयसाकांक्षफलबोधकधातुत्वं द्विकर्मकत्वं सूपपादं । यत्तु विभा गानुकूलक्रिया दुहेरर्थः, संयोगानुकूलक्रिया नयतेरर्थः । नतु तदुभयानुकूल कर्तृव्यापारः कर्मद्वयस्याप्येकत्र फले अन्वय इति । तन्न । प्रयोज्ययोः कर्मत्वानुपपत्तेः- परसमवेतत्वस्य क्रियायामभावात् । कर्मद्वयस्याप्येकत्र अन्वये च गौणमुख्यव्यवहारो न स्यात् । एतेन विभागाद्यनुकूला कर्तृगता चैटैव दुहादेरर्थः इत्यपास्तम् । फलद्वयाप्रवेशे गौण मुख्यव्यवहारानुपपत्तेः । यद्यपि गामित्यस्यार्थो गोवृत्तित्वं पयस्येवान्वेतीति गौणं कर्म न लक्ष्यं इति । तदपि न । गौः पयो दुह्यते इत्यादौ गोः कर्मत्वस्य दुरुपपादत्वात् । अजां ग्राममित्यादौ ग्रामवृत्तित्वस्य प्रागजायामसत्त्वेनान्वयायोगात् । काशीतः प्रयागे नीयमानामजां काशीं नयतीति प्रयोगापत्तेश्च । तत्र तत्तत्क्रियानुकूलकृतिमत्त्वं तत्तत्क्रियाकर्तृत्वं । काष्ठादौ पाकाव्यनुकूलव्यापारवत्त्वप्रतिसंधानेऽपि कर्तृपदाप्रयोगात्, कृताकृतविभागादिना सिद्धयत्नशक्तिकेन कुधातुना तृर्जतेन सिद्धस्य कर्तृपदस्य यत्नाश्रयबोधकत्वाच्च ॥ अचेतनेऽपि कर्तृपदप्रयोगस्तु गौणः । गुरुतरभारोत्तोलनादिक्रियाविषयकयत्नसत्त्वेऽपि तत्क्रियाया अनिष्पत्तौ तत्क्रियायां कर्तृत्वाव्यवहारात्-विषयत्वं विहायानुकूलत्वमुपात्तं ॥ यदि च मत्तो भूतं न तु
W
Page #110
--------------------------------------------------------------------------
________________
कारकवादार्थः। मया कृतमिति व्यपदेशान्नान्तरीयककतिसाध्यस्य पिष्टमध्यस्थशर्कराभोजनस्य न कर्तृत्वं तदा विषयत्वमपि निवेश्यं । तच्च साध्यत्वेन । तेन यागादिकतेरुद्देश्यत्वेन स्वर्गादिविषयकत्वेऽपि न यागादिकर्तुः स्वर्गकर्तृत्वम् । अस्मदादिकर्तृकयागादिकर्तृत्वमीश्वरस्येष्टम् । तथा विवक्षायामीशः पचतीति प्रयोगोऽपीष्ट एव ॥ न चेत् कार्यत्वानवच्छिन्नजन्यतानिरूपितत्वमसाधारणत्वं निवेश्यमिति नैयायिकाः । वैयाकरणास्तु “ अनभिहिते कर्तरि ” इत्यनुशासनात्-अचेतनेऽपि कर्तृपदप्रयोगाकियाश्रयत्वमेव कर्तृत्वं । कारककर्मादिपदवत्कधातुरप्यत्र क्रियार्थक एवाश्रयत्वमिहाख्यातार्थः । तथाच यागाद्यसमभिव्याहृताख्यातेन यद्धात्वान्वितयधर्मवत्त्वं बोध्यते तद्धात्वर्थनिरूपिततद्धर्मवत्त्वं तद्धात्वर्थकर्तृत्वं । यथा पचतीत्यादौ पाकानुकूलव्यापारवत्त्वं, जानातीत्यादौ ज्ञानाश्रयत्वं, नश्यतीत्यादौ नाशप्रतियोगित्वं इति । चैत्रेण तंडुलः पच्यते इत्यादौ पाकजन्यफलाश्रयत्ववारणाय यागाद्यसमभिव्याहृतेति । अत्रचैत्रादेः कर्तृत्वं तु पचतीत्याद्याख्यातबोध्यधर्ममादायैवेति बोध्यं । धात्वान्वितद्वितीयाद्यर्थकर्मत्वकरणत्वमादायाख्यातेनेति । जानातीत्याद्याख्यातार्थ आश्रयत्वं न पाककर्तृत्वं । हंतीत्यादौ हिंसाश्रयत्वं न गमनकर्तृत्वमित्येतत्संपत्तये यत्तदिति धात्वर्थविशेषणं । यदि च
१ तेन-शक्त्यातक्रियाविषयकतत्तक्रियानिष्ठकार्यत्वावच्छिन्न जन्यतानिरूपितजनकताशालिकृतिनिष्ठाधेयतानिरूपिताधिकरण. ताशालित्वं नाम कर्तृत्वम्.
Page #111
--------------------------------------------------------------------------
________________
कारकवादार्थः ।
काढं पचति, स्थाली पचतीत्यादिप्रयोगवशात्करणादीनां कर्तृत्वमिष्टं तदा पच्यत ओदनः स्वयमेवेत्यादी कर्मकर्तृकर्मणोऽपि तदिष्टं ओदनः स्वयं पचतीत्यप्रयोगस्त्वसाधुत्वात् । कर्माख्यातयागादिह विभाव्यते । कर्मत्वविशिष्टस्य कर्तृत्वरूपतावारणाय तदुपादेयं । नहि कर्मत्वादेः कर्तृत्वरूपत्वे "अनभिहिते कर्त्तरि" इत्यनुशासनार्थः संगच्छते इत्याहुः । यत्तु "स्वतंत्रः कर्त्ता" इति पाणिनिसूत्रात्कारकांतराप्रयोज्यत्वे सति कारकांतरप्रयोजकत्वं कर्तृत्वं । सत्यंतेन पुरुषादिजन्यसंयोगरूपव्यापारवत्त्वरूपं तत् । प्रयोज्यत्ववत्कुठारादेर्व्युदासः । तन्न | ईश्वरप्रयोज्यानां जीवानां कर्तृत्वानापत्तेः । दण्डजन्यसंयोगरूपव्यापारवति कुलालादावव्यातिश्चेति दिक् ॥ कर्मत्वं न करणव्यापारित्वं । तद्धि करणजन्यव्यापारवत्त्वं । दात्रेण धान्यं लुनातीत्यादौ हस्तादिकरणव्यापारवति दात्रादावतिव्याप्तम् । नापि परसमवे - तक्रियाजन्यफलशालित्वं । गमिपत्योः कर्मत्वस्य पूर्वस्मिन्देशे त्यजेश्चोत्तरस्मिन्देशे स्यंदेः पूर्वपरयोः प्रसंगात् । नदी वर्द्धत इत्यादौ वृद्धेरवयवोपचयरूपायाः परंपरया तीरप्राप्तिरूपयत्नस्याश्रये तीरे कर्मत्वप्राप्तिश्चेत् - अत्र वदन्ति - ' धात्वर्थतावच्छेदकफलशालित्वं कर्मत्वं ' तादृशं फलं गमेः संयोगस्त्यजेर्विभागः पतेरधः संयोगस्तदवच्छिन्ने स्पन्दे शक्तिः । स्पन्दमात्रे तेषां शक्तौ पर्यायतापत्तेः । स्पन्देर्वृध्वातोश्च न फलावच्छिन्नव्यापारे शक्तिरिति न कोपि दोषः । फलावच्छिन्नव्यापारबोधकत्वादेव धातूनां सकर्मकत्वव्यापारो मुख्यः । ज्ञाधात्वादीनां नामार्थान्वितोद्देश्यत्वातिरि
Page #112
--------------------------------------------------------------------------
________________
कारकवादार्थः ।
क्तविषयित्वरूपविभक्त्यर्थान्वय्यर्थकत्वं गौणं सकर्मकत्वं । घटं जानातीत्यादितो घटविषयिताशालिज्ञानाश्रयत्ववानिति बोधः । तादृशधातुप्रयोग एव च कर्मप्रत्ययः । अत एवाभुंजान एव भोजनाय यतते इति प्रयोगात् । यतधात्वर्थे नामार्थान्वितस्य चतुर्थ्यर्थोद्देश्यत्वस्यैवान्वयात्-न यतेः सकर्मकत्वं । न वा भोजनं यतते इति प्रयोगः । “भूमिं प्रयाति विहगो विजहाति महीरुहं । नतु स्वात्मानमि " ति प्रयोगात् । स्वस्य धात्वर्थतावच्छेदकसंयोगविभागरूपफलशालित्वरूपसकर्मकत्वाभावात् । परसमवेतक्रियाजन्यत्वमपि धात्वर्थतावच्छेदकफले निवेश्यम् । नचैवमपि मल्लो मल्लं गच्छतीत्यादौ उभयकर्मजसंयोगरूपफलस्य ताहशत्वात्स्वकर्तृक क्रियाकर्मत्वरूपव्यवहारः स्वस्मिन्स्यादिति वाच्यं । परसमवेतक्रियाजन्यतादृशफलशालित्वं यत्र तत्र कर्म त्वस्य स्वीकारात् । इत्थं च द्वितीयादेः क्रियान्वयिपदसमवेतत्वमप्यर्थः। परत्वं स्वप्रकृत्यर्थापेक्षया सुपा स्वार्थफलान्वय्यपेक्षया कर्माख्यातेन च बोध्यते । तथा च भूमिर्गम्यत इत्यादौ कर्माख्यातस्थले फलं परसमवेतत्वं चाख्यातार्थः । भूमिपदार्थस्य परत्वे विशेषणत्वेन फलं प्रति विशेष्यत्वेन चान्वयः । तथाच भूमिभिन्नसमवेत क्रियाजन्यफलशालिनी भूमिरित्यन्वयबोधः । भूमिं प्रयातीत्यतो भूमिभिन्नसमवेतभूमिवृत्तिसंयोगजनकस्पन्दानुकूलकृतिमानित्यन्वयबोधः । एवंच स्वभिन्नसमवेतं स्ववृत्तिसंयोगजनकं यन्मल्लान्तरवृत्तिगमनं तदनुकूलकृतिमत्त्वस्य स्वस्मिन्नभावादेव न मल्लः स्वं गच्छतीति प्रयोगः । नन्वत्र परत्वे स्वप्रकृत्यर्थस्यान्वयि
.
Page #113
--------------------------------------------------------------------------
________________
कारकवादार्थः ।
९
तावच्छेदकावच्छिन्नप्रतियोगिताकत्वेन, प्रतियोगितामा - त्रेण वान्वयः । नाद्यः । पृथ्वीं प्रयाति विहग इत्यादी अनन्वयापत्तेः । खगस्य पृथ्वीत्वावच्छिन्नत्वात् । न द्वितीयः । स्वात्मन्यपि खगपृथ्व्युभयभेदसत्त्वात् । स्वं प्रयातीत्यापत्तेरिति चेन्न । द्वितीयाद्यर्थफले यद्वयक्तेरन्वयस्तद्वचतित्वावच्छिन्नप्रतियोगिताकत्वसंबंधेन प्रकृत्यर्थस्य कर्माख्यातार्थफलान्वयिनश्च परत्वेऽन्वयात् । इत्थं च पृथ्वीं प्रयातीत्यादौ यत्पृथिवीव्यक्तिवृत्तिसंयोगजनकत्वं प्रयाणस्य तद्वचक्तिभिन्नत्वं विहगेऽस्तीति न दोषः । परंतु पृथिवीमित्यादौ पृथिवीपदं कर्मत्ववत्पृथिवी व्यक्ति परमेवमन्यत्र कर्मवाचकं सामान्य पदलक्षणया विशेष्यपरम् । इत्थं चान्वयितावच्छेदकावच्छिन्नप्रतियोगितायास्तादृग्व्यक्तेर्न भङ्ग इत्याहुः । यत्तु परसमवेतत्वं नार्थः । किंतु अन्योन्याभावप्रतियोगितावच्छेदकत्वं क्रियान्वयि द्वितीयार्थः । तथाच भूमिवृत्तिसंयोगजनकभूमिनिष्ठान्योन्याभावप्रतियोगि
यायाः
तावच्छेदकप्रयाणानुकूलकृतिमानित्यर्थः । स्ववृत्तिक्रिस्वनिष्ठान्योन्याभावप्रतियोगितानवच्छेदकत्वान्न स्वं प्रयातीति प्रयोग इति । तन्न । तथापि येन मल्लेन मल्लांतरं न गतं सोपि मल्लो मल्लं गच्छतीति प्रयोगापत्तेः । मल्लांतरनिष्ठ भेदप्रतियोगितावच्छेदकायास्तन्मल्लवृत्तिक्रियायास्तन्मल्लवृत्तिभूमिसंयोगजनकत्वात् । यन्मल्लव्यक्तेः फ लान्वयस्तस्या एवान्योन्याभावेऽन्वयोक्तौ दोषवारणे तु तद्व्यक्तित्वादेः प्रकारत्वे शक्त्यानन्त्यं । कथंचित्कर्मवाचकपदस्य तद्व्यक्तित्वावच्छिन्नलक्षणास्वीकारे युगपद्वृत्तिद्वय
Page #114
--------------------------------------------------------------------------
________________
१०
कारकवादार्थः ।
विरोधप्रसंगः । ननु नान्योन्याभावप्रतियोगितावच्छेदकत्वं क्रियान्वयि द्वितीयार्थः । न वा परसमवेतत्वं समवेतत्वत्वस्वरूपसामान्यधर्मावच्छिन्नतत्कर्मसमवेतत्वनिष्ठप्रतियोगिताकाभावात्मकस्वप्रतियोगिताकाभाव संबंधेन कर्मवाचकपदार्थान्वितद्वितीयार्थासमवेतत्वस्य क्रियायामन्वय स्वीकारात् । सामान्यरूपेण विशेषाभावानभ्युपगमे यद्वयक्तेर्द्वितीयार्थसमवेतत्वेऽन्वयस्तद्वचक्तिसमवेतत्वावच्छिन्नप्रतियोगिताकाभावात्मक स्वप्रतियोगिताका भाव संबंधेन कर्मवाचक - पदान्वितद्वितीयार्थासमवेतत्वस्य धात्वर्थक्रियायामन्वयस्वीकारात् । काप्यदृष्टचरत्वेऽपि प्रकृते गत्यंतरविरहेण स्वीकारात् । अत एव न कर्मवाचकपदस्य तत्तद्व्यक्तित्वेन ततद्व्यक्तिबोधकतया सामान्यरूपेण बोधकतया च युगपट्टूतिद्वयविरोध इति चेन्न । नव्यनये क्रियाया अव्याप्यवृत्तितया तन्निष्ठतदाश्रयद्रव्यसमवेतत्वस्यापि अव्याप्यवृत्तित्वातू - मल्लः स्वं गच्छतीति प्रयोगप्रसंगस्य दुर्वारत्वापत्तिः । एतेन तत्तत्क्रियानधिकरणत्वे सति तत्तत्क्रियावच्छेदकफलशालित्वं तत्तत्क्रियाकर्मत्वं, द्वितीयादेरपि तत्तत्क्रियानधिकरणत्वमर्थ इत्यपास्तम् । शक्त्यानंत्यापत्तेश्च । यत्तु क्रियान्वयि परसमवेतत्वमवेक्ष्य कर्त्रन्वयिपरत्वमेव लाघवात्कर्मप्रत्ययार्थ इति । तन्न । द्वितीयार्थफलपरसमवेतत्वयोरेकान्वयित्वेन लाघवात् । ग्रामो गमेः कर्म न तु चैत्रः इत्यादौ परसमवेतक्रियाजन्यत्वघटितस्यैव कर्मपदार्थतया तस्यैव कर्मप्रत्ययार्थत्वात् । गम्यते ग्रामः स्वयमित्यादौ परत्वान्वयिविरहाच्चेति दिक् । अथैवमपि पतेः संयोगाव
1
Page #115
--------------------------------------------------------------------------
________________
कारकवादार्थः। ११ च्छिन्नस्पन्दार्थकतया धात्वर्थतावच्छेदकफलशालिनो भूतलादेः कर्मत्वे वृक्षात्पर्ण भूतलं पततीति प्रयोगः स्यादिति चेत्-तथा विवक्षायां भवत्येव । अत एव “द्वितीया श्रिते" ति सूत्रे पतितशब्दयोगे द्वितीयासमासविधानम् । तददाहरणं च नरकं पतितो नरकपतित इति साधु संगच्छते । कचित्सप्तम्यपि साधुः । यथा भूमौ पतति ग्रामे गच्छतीत्यादौ । परे तु भूतलादेः कर्मत्वेऽपि न द्वितीया । यत्र फलसंबंध्याकांक्षा तत्रैव तत्स्वीकारात् । अत्र तु फलस्याधोदेशवृत्तितया उपस्थितत्वेन न संबंध्याकांक्षा। तथाहि कर्तृभिन्नान्वयिफलावच्छिन्नव्यापारबोधकस्य धातोः सकमकत्वं नतु पततः। अधःसंयोगरूपफलस्य पर्णान्वितत्वात्। अध इत्यस्य संबंधिसाकांक्षतया संबंधित्वेन पर्णस्यैवान्वयात् । भूतलं पर्णस्याधः नतु पर्ण भूतलस्येति न भूतलं पतति प्रयोग इति । अथ कथं वृक्षात्पर्णमधः पतति इति प्रयोग इति चेत् । मादयं विवक्षया वा । 'गतं तिरश्चीनमनूरुसारथेरि ' त्यत्र व्यक्तिविशेषस्याधो धाम पततीत्यर्थात् न दोष इत्याहुः । यत्तु त्यजगम्यादेः स्पन्दाद्यात्मकव्यापारमात्र शक्तिः । फलस्य द्वितीयादिलस्यत्वात् । अत एव ग्रामं गच्छतीत्यनयोनैकार्थता । त्यजगम्योोंगे द्वितीयादिना विज्ञागसंयोगयोबोधनात् । त्यजेविभागावच्छिन्नस्पन्दशब्दत्वस्य गमेः संयोगावच्छिन्नस्पन्दशब्दत्वस्य च कार्यतावच्छेदकत्वात् । अत एव गमनं त्याग इत्यनयोरपि नैकार्थता । उक्तकार्यकारणभावानुरोधेनात्रापि त्यजगम्योविभागसंयोगावच्छिन्नस्पन्दे लक्षणांगी
Page #116
--------------------------------------------------------------------------
________________
१२
कारकवादार्थः ।
कारात् । विभागाद्यवच्छिन्न स्पन्दशाब्दत्वं च विभागादिस्पन्दोभयवैशिष्टयावगाहिशाब्दत्वम् । तेन चैत्रेण ग्रामस्त्यज्यते इत्यादिवाक्यजन्य स्पन्दविशेषणकविभागादिविशेष्यकशब्दत्वसंग्रहः । इत्थं च परसमवेततद्धात्वर्थान्वितफलविशेषशालित्वं तत्तद्धात्वर्थकर्मत्वं । तेन त्यजादेर्नोत्तरदेशादौ कर्मत्वमिति । तन्न । विभागाद्यवच्छिन्नस्पन्दशाब्दत्वस्य जन्यतावच्छेदकत्वे तादृशस्पन्दे शक्तेर्दुर्वारत्वात् । परेपामितरान्विते शक्तिग्रह इतरांशवद्विभागावंशस्य त्यागो न युक्तः । त्यागगमनयोरेकार्थतावारणाय तत्फलविशिष्टे रुपन्दे शक्तिसिद्धे विनापि तल्लक्षणानुसंधानं तथा प्रतीतेरिति दिक् ॥ ददातेर्मूल्यग्रहणं विना स्वस्वत्वध्वंस परस्वत्वः जनकत्यागः यजतेर्देवतोद्देश्य कस्वस्वत्वध्वंसफल कत्यागजुहोतेस्तादृशाग्निप्रक्षेपश्चार्थः । अत एव ऋत्विजां तादृशत्यागाभावेपि होतृत्वम् । अग्निप्रक्षेपश्च अग्निसंयोग।नुकूलक्रियानुकूलघुतादिवृत्तिनोदनादिव्यापारः । न चैवमग्नौ जुहोतीत्यादौ सप्तम्यर्थस्यामिसंयोगेऽन्वये निराकांक्षतेति वा - च्यम् । अत्र संयोगानुकूलक्रियानुकूलव्यापारस्यैव धात्वर्थात् । न च तथाप्यः कर्मत्वापत्तिः । संयोगस्य धात्वर्थानवच्छेदकतया तद्वतोऽग्नेः कर्मत्वाभावात् । क्रियाया एव धात्वर्थतावच्छेदकतया तच्छालिनो घृतस्यैव कर्मत्वात् । द्वितीयार्थश्व वृत्तित्वं तच्च धात्वर्थतावच्छेदकेऽन्वेति । इत्थं च विप्राय गां ददाति, विष्णुं यजते, घृतं जुहोतीत्यादौ मूल्यग्रहणं विना विप्रोद्देश्यक गोवृत्तिस्वस्वत्वध्वंसपरस्वत्वफलकत्यागानुकूलकृतिमानित्यन्वयबोधः । विष्णोरुद्देश्यत्वसंबंधेन स्वस्वत्वध्वंसफलवत्त्वात्कर्मत्वम् । विष्णू
Page #117
--------------------------------------------------------------------------
________________
कारकवादार्थः।
द्देश्यकस्वस्वत्वध्वंसफलकत्यागानुकूलकृतिमानित्यन्वयबोधः । घृतवृत्तिअनिसंयोगावच्छिन्नक्रियानुकलव्यापारानकूलकतिमानित्यन्वयबोधः । एवं मूल्यग्रहणप्रयुक्तस्वस्वत्व ध्वंसफलकत्यागो विक्रयः । मूल्यदानप्रयुक्तस्वत्वोत्पादकस्वीकारः क्रयः । दत्तद्रव्यस्य स्वस्वत्वजनकस्वीकारः परिग्रहः । तथा च गां विक्रीणाति गां क्रीणाति गां प्रतिगृह्णातीत्यादौ गोवृत्तिमूल्यग्रहणप्रयुक्तस्वस्वत्वध्वंसफलकत्यागानकुलकतिमान्, गोवृत्तिमूल्यदानप्रयुक्तस्वस्वत्वानुकूलस्वीकारानुकूलकृतिमानिति क्रमेणान्वयधीरिति संप्रदायः । इदमत्राभिधेयं । दानस्य परस्वत्वजनकत्वे तत एव विक्रयवारणे मूल्यग्रहणं विनेति व्यर्थम् । अथ प्रतिग्रह एव स्वीकाराविशेषतया स्वत्वहेतुः । अस्वामिके स्वीकारस्य स्वत्वहेतुत्वाकल्पनात् । अत एव याजनाध्यापनप्रतिग्रहैब्राह्मणो धनमर्जयेत्' इत्यादिकं साधु संगच्छते । अन्यथा प्रतिग्रहवैफल्यापत्तेः । दानं तु स्वस्वत्वध्वंसमात्र जनयत्परस्वत्वप्रयोजकमिति मतं। तथापि तद्वैयर्थ्य, तदुपादानेऽप्युपेक्षायामतिव्याप्तः । तस्या अपि स्वस्वत्वध्वंसद्वारा परस्वत्वप्रयोजकत्वात् । तद्वारणाय वैजात्योपादानस्यावश्यकत्वात् । वस्तुतो दूरस्थपात्रमुद्दिश्य त्यक्तद्रव्यस्य प्रतिग्रहात्यागस्वामिकस्यानुकूलोदेश्येन पुरुषेण प्रतिग्रहात्स्वत्वात्स्वत्वं स्यादिति । अन्योदेश्यकत्वादेः प्रतिबंधकत्वे तु गौरवं । न च तादृशत्यागो दानाभास एव । ससंप्रदानकोहि त्यागो दानं संप्रदानं च ददस्वेत्यनुमितिप्रकाशनद्वारा दानक्रियाहेतुत्वेन । न च असन्निहि
Page #118
--------------------------------------------------------------------------
________________
१४ कारकवादार्थः। तस्य तत्त्वमिति, न ततो दातुः स्वत्वनाश इति वाच्यम् । "तीर्थ संकल्पितं यद्यत्तदन्यत्र प्रदीयते । दाता तीर्थफलं मुं. के प्रतिग्राही न दोषभाक् ॥ मनसा पात्रमुद्दिश्य भूमौ तोयं विनिक्षिपेत् । विद्यते सागरस्यांतो दानस्यांतो न विद्यते ॥” इति वाक्यात्तादृशदानसिद्धेस्तस्मादानमेव परस्वत्वजनकं प्रतिग्रहप्रागभावस्यापेक्षणीयत्वात् न प्रतिग्रहवैफल्यं । अत एव यस्मै दत्तं तस्य प्रतिग्रहेण दातुः स्वत्वनिवृत्तिः । अस्तु वा दत्तद्रव्यस्वीकारत्वरूपप्रतिमहत्वेन स्वीकर्तव्यद्रव्यदानत्वेन वेति विनिगमकाभावात् । दानं स्वस्वत्वध्वंसद्वारा परस्वत्वजनकम् । प्रतिग्रहश्च स्वस्वत्वजनकः । उअयथापि मूल्यग्रहणं विनति व्यर्थ । विक्रयस्य परस्वत्वजनकत्वे मानाभावात् । नच विक्रीतद्रव्यस्वीकारत्वरूपक्रयत्वेन स्वीकर्तव्यद्रव्यविक्रयत्वेन वा क्रयत्वमित्यत्रापि विनिगमनाविरहः । मूल्यदानपूर्वकस्वीकारस्यैव क्रयत्वात् विक्रयत्वस्य गौरवेगानिवेशात् । किंच स्वस्वत्वध्वंसजनकेत्यपि व्यर्थ । अव्यावर्तकत्वात् । अपि चाग्निप्रक्षेपो होम इत्यपि अयुक्तं । देवतोदेश्यकस्वस्वत्वध्वंसफलकत्यागो यागः, स एव प्रक्षेपावच्छिन्नो होम इति वाचस्पतिमिश्राद्युक्तेः-, याग एवं विशिष्टदेशप्रक्षेपोपहितः होम इति विवेकोक्तेश्च । अस्तु च ऋत्विजां त्यागाद्यनुमानस्य स्वस्वत्वध्वंसोनमतः- दासत्यागात विदेशस्थस्वामिस्वस्वत्वध्वंसवत् । वस्तुतस्तु दानत्वयागत्वहोमत्वादयो मानसप्रत्यक्षगम्या जातिविशेषाः। न च श्राद्धस्य पित्रपेक्षया यागत्वं ब्राह्मणापेक्षया दानत्वमिति विवेकोक्तेस्तयोः सांकर्या
Page #119
--------------------------------------------------------------------------
________________
कारकवादार्थः।
१५ न्न जातित्वमितिवाच्यम् । श्राद्धस्य गौणतदुभयरूपत्वात्। वस्तुतः श्राद्धस्य यागत्वमेव।उद्देश्यपित्रादिस्वत्वाजनकत्वात। ब्राह्मणस्य स्वत्वमपि न सार्वत्रिकम् । ब्राह्मणाभावेपि श्राद्धोक्तेः । “ पिंडास्तु गोऽजविप्रेन्य' इत्यादिनान्यत्रापि प्रतिपत्तेः । विष्णुं यजते इत्यादौ द्वितीयार्थोप्युद्देश्यत्वम् । तत्त्वं च तस्येदमित्यादिज्ञानविषयत्वं । देवतायाः स्वत्वोपगमे तु यागत्वं दानत्वव्याप्यं. होमत्वं यागत्वव्याप्यमिति सिद्धम् । देवपूजादिकमपि याग एवेति कृतमप्रकतेन । अत एवं संसृष्टिस्थलेऽसाधारणस्वत्वनाशोत्तरं साधारणस्वत्वोत्पादात् । तत्र सकलत्वविशेषणरहितदानलक्षणाव्याप्तिरित्यपास्तम् । दानवजातस्तत्राभावात् । परमत्र स्वत्वानुकूलत्वविशेषणात्-संसृष्टिनिरास इत्यन्ये । तत्र न स्वत्वनाश:-किंतु परस्वत्योत्पत्तिमात्रम् । नच स्वस्वत्ववति परस्वत्वानुपपत्तिः । तत्रेच्छाया उत्तेजकत्वात् । स्वस्वत्वध्वंमपूर्वकत्वविशेषणादेव तन्निरास इत्यन्ये । परे त्वदृष्टविशेषजनकत्वविशेषणात्नयावृत्तिरित्याहुः । एतेन विनिमये विक्रयलक्षणातिव्यातिरित्यपास्तम् । विक्रयत्वादेर्जातित्वात् । मूल्यातिरिक्तद्रव्यग्रहणप्रयुक्तस्वस्वत्वध्वंसपरस्वखानुकूलत्यागो विनिमय इत्यन्ये । किमत्र स्वत्वमिति चेत् । अत्र प्राचीनाः । यथेष्टविनियोज्यत्वं स्वत्वं । तच्च शास्त्रानिषिद्धविनियोगोपायः क्रयप्रतिग्रहादिस्तद्विषयत्वम्। तच्च न बहिरिंद्रियवेद्यं । प्रतिग्रहादेर्मानसज्ञानविशेषस्य बहिरिंद्रियायोग्यत्वात् । नव्यास्तु प्रतिग्रहादिनाशोत्तरमपि स्वत्वव्यवहारप्रामाण्यानुरोधात् स्वत्वमतिरिक्त एव
Page #120
--------------------------------------------------------------------------
________________
१६
कारकवादार्थः ।
पदार्थः । तच्च स्वत्वं दानादितो नश्यति, प्रतिग्रहा - दितश्व स्वत्वमुत्पद्यते । तच्च बहिरिन्द्रिययोग्यं स्वं पश्यामीति प्रतीतेस्तदीययथेष्टविनियोज्यत्वज्ञानस्य तदीयस्वत्वसाक्षात्कारहेतुत्वात् । न यथेष्टविनियोगाद्यज्ञानदशायां स्वत्वसाक्षात्कारापत्तिः ॥ वस्तुतस्तदीययथेष्टविनियोज्यत्वे तदीयस्वत्वव्यभिचारित्वग्रहदशायां तद्ब्रहेऽपि स्वत्वसाक्षात्कारानुदयात् । तदीयस्वत्वसाक्षात्कारं प्रति तदीयस्वत्वव्याप्यतदीययथेष्टविनियोज्यत्ववदिदमित्याकारकज्ञानस्य हेतुत्वं वाच्यम् । तथा च स्वत्वस्यानुमितिरेव नतु साक्षात्कारः । स्वत्वे लौकिकविषयताकल्पने लौकिकविषयिताशालितत्साक्षात्कारे तादृग्विशेषदर्शनस्य हेतुत्वकल्पने च गौरवात् । स्वं पश्यामीत्यनुव्यवसायस्तु - सुरभि चन्दनं पश्यामीत्यादिवद्विशेषणांशो लौकिकविषयत्वावगाही। नचायोग्यत्वकल्पने लौकिकसाक्षात्कारे स्वत्वस्य प्रतिबंधकत्वकल्पने गौरवमिति वाच्यम् । तस्यायोग्यत्वकल्पने लौकिकविषयताविरहादेव तत्प्रत्यक्षवारणसंभवात् । योग्यत्वे तगोचरलौकिकप्रत्यक्षसामध्यास्तगोचरानुमित्यादौ गौरवादित्याहुः । तच्च कर्म त्रिविधं प्राप्यं, विकार्यं निर्वर्त्यं च । तत्र संयोगादिक्रियाजन्यफलशालि प्राप्यं । यथा - ग्रामं गच्छतीत्यादौ ग्रामादिः । यल्लब्धसत्ताकमेवावस्थांतरमापद्यते तद्विकार्यं । यथा का भस्म करोति, सुवर्ण कुंडलं करोतीत्यादौ काष्ठादिपदलक्ष्यस्य काष्ठावयवादेः सत एव भस्मादिसंबंधरूपावस्थांतरप्राप्तिः । यत्तु क्रिया यत्कर्मनाशकं फलं जनयति तद्विकार्यम् । यथा काष्ठं लुनातीत्यत्र का -
1
Page #121
--------------------------------------------------------------------------
________________
कारकवादार्थः ।
१७ ष्ठमिति । तन्न । काष्पदलक्ष्यस्य काष्ठावयवस्य कर्मतया क्रियायास्तन्नाशकत्वासंभवात् । अत्र हि काष्ठपदस्य का - ष्ठावयवो लुनातेरारम्भकसंयोगप्रतिद्वंद्विविभागानुकूलक्रियाव्यापारोर्थः । तथा च काष्ठावयववृत्त्यारंभकसंयोगप्रतिद्वंद्विविभागजनक क्रियानुकूलव्यापारानुकूलकृतिमानित्यन्वयधी रिति काष्टावयवस्य प्राप्यकर्मतैवावस्थांतरप्रात्यभावान्न विकार्यता । तण्डुलं पचतीत्यादौ तण्डुलपदलक्ष्यस्तंडुलावयवः पच्यर्थो रूपादिपरावृत्त्यवच्छिन्नो विक्लित्त्यवच्छिन्नतेजः संयोगः । तथाच धात्वर्थजन्य फलशालित्वात्सतोवस्थांतरप्राश्व उभयविधकर्मत्वं तंडुलावयवस्येष्टं असंकीर्णस्थानमुक्तमेवेत्यदोषः । यत्क्रियया निष्पद्यते तन्निर्वर्त्यम् । यथा घटं कटं वा करोतीत्यादौ घटादि । अत्र कृञः फलावच्छिनव्यापारबोधकत्वाभावाद्रौणकर्मत्वम् । तच्च साधनाख्यकृतिविषयत्वम् । अत एव वीरणं करोतीत्यादिर्न प्रयोगः । वीरणादावुपादानताख्यविषयताया एवं सत्त्वात् । यत्तु कटादिपदस्यावयवे निरूढलक्षणा । तत्र विना लक्षणां कटादेगणकर्मत्वसंभवेऽपि कारकत्वासंभवात् । निरूढलक्षणाया मुख्यप्रयोगापवादकत्वाच्च न वीरणं करोतीति मुख्यप्रयोग इति । तन्न । घटं जानाति अतीतमित्यादौ घटादेखि कटादेरपि गौणकारकत्वसंभवात् । स्तोकं पचतीत्यादौ क्रियाविशेषणपदांतरद्वितीयाविशेषणविभक्तिवत् प्रयोगसाधुत्वाय नामार्थधात्वर्थयोरभेदान्वयस्वीकारेणाभेदस्य संसर्गत्वात् । तदा स्वीकारे विशेषणविभक्तिवदस्तु सा
Page #122
--------------------------------------------------------------------------
________________
१८
कारकवादार्थः। भेदार्थका । तस्याः कारकत्वानावस्तु क्रियान्वितकर्तृत्वाधन्वितत्वाभावात्-इति दिक् ॥
इति कर्मनिरूपणम् । करणत्वं कारकांतराचरितार्थत्वे सति क्रियाहेतुत्वं । कारकांतरनिष्ठव्यापारद्वारा क्रियाहेतुत्वाभावः सत्यतार्थः । कर्तृकारके आरंजकसंयोगप्रतिद्वंद्विविभागानुकूलकुठारादिक्रियाया एव च्छिदादिधात्वर्थतया कर्तुः कुठारादिकरणनिष्ठव्यापारद्वारा छिदादिहेतुत्वान्नातिप्रसंगः । कर्मणस्तु तादृशक्रियाहेतुत्वविरहादेव नातिप्रसंगः । अधिकरणमपि कर्तृकर्मान्यतरव्यापारद्वारा क्रियाहेतुः । चैत्रो गृहे स्थाल्यामोदनं पचतीत्यादौ गृहस्थाल्यायधिकरणं कर्तृकर्मसंयोगद्वारा पाकादिक्रियासाधनं संप्रदानं स्वानुमितिप्रकाशनेन कर्तुरिच्छाद्वारा दाननिमित्तं अपादानं पतनप्रतिबंधकसंयोगनाशकपत्रादिविभागद्वारा पतनादिनिमित्तमिति नातिप्रसंगः । नचैवं कुठारादिकरणस्यापि कर्तृनिष्ठव्यापारसापेक्षत्वादसंभवः । कारकांतरनिष्ठव्यापारसंबंधावच्छिन्नजनकत्वाभावस्य सत्यंतार्थतया कुठारादिक्रियायां, कुठारस्य तादात्म्यसंबंधेन हेतुतया कर्तृनिष्ठव्यापारसंबंधेनाहेतुत्वात् । नच कुठारादिव्यापारादावतिव्याप्तिरिति वाच्यम् । तस्यापि एतन्मते लक्ष्यत्वात् । अत एव फलायोगव्यवच्छिनं कारणं करणमिति वदंति । वस्तुतस्तु व्यापारवत्त्वे सति कारणं करणं । नचैवं कार्यमाञ ज्ञानादौ चादृष्टस्य मनोयोगस्य च व्यापारस्य सत्त्वादात्मनोऽपि करणत्वापत्तिरिष्टत्वात् । उपधेयसंकरे कर्तृत्वकरणत्वलक्षणोपाधेरसंकरात् ।
Page #123
--------------------------------------------------------------------------
________________
कारकवादार्थः। व्यवहारभेदोपपत्तेः। इत्थं चानुमितौ व्याप्तिज्ञानं करणं । परामर्शस्य व्यापारत्वात् । चाक्षुषादौ चक्षुरादितत्संयोगस्य व्यापारत्वात् । श्रावणज्ञाने श्रोत्रं, मनःोत्रसंयोगस्य व्यापारस्य सत्त्वात् । नतु शब्दस्य । शब्दाभावप्रत्यक्षे तस्य व्यभिचारात् । परे तु फलानुकूलकर्तृव्यापारवत्त्वं । अस्ति च कुठारादिच्छिदानुकूलकर्तृसंयोगादिमत्त्वम् । नच गृहस्थाल्यायधिकरणस्यापि कर्तृव्यापारवत्त्वात्करणत्वापत्तिरिष्टत्वात् । स्थाल्यान्नं साधयतीत्यादिप्रयोगात् । गवा दानं साधयति, ब्राह्मणेन दानं साधयतीत्यादिप्रयोगात् । तत्रापि तदिष्टं, चैत्रात्मना चत्रेण वा पचतीत्यप्रयोगात् । कर्तुः शरीरस्य च वारणाय द्रव्यसमवायिभिन्नतत्तक्रियानुकूलकतिमतो भिन्नत्वेन विशेष्यम् । कृतिमत्त्वं समवायेनावच्छेदकतया च । तेन शरीरस्यापि व्युदासः । भिन्नत्यनेन हस्तादिसंग्रहः । हस्तादिना छिनत्तीति प्रयोगात् । व्यापारवत्त्वं जनकतया। तेन व्याप्तिस्मृत्यादिसाधारण्यमित्याहुः । अत्र परशुना छिनत्तीत्यादौ निरुक्तकरणत्वं तृतीयार्थः । प्रकृत्यान्वितस्य तस्य धात्वर्थनिरूपकत्वेनान्वयः । तथा परशुनिष्ठकरणतानिरूपकत्वच्छिदानुकूलकतिमानिति वाक्यार्थः-इति प्रांचः । नव्यास्तु परशुना छिनत्ति न दात्रणेत्यादौ नत्रान्वयानुरोधेन निरुक्तकरणत्वनिरूपितजन्यत्वमेव तृतीयार्थः। तस्य निरूपितत्वेन प्रकृत्यान्वितस्य आश्रयतया धात्वर्थे अन्वयः। इत्थं च परशुनिरूपितजन्यत्वदात्रनिरूपितजन्यत्वाभावश्च छिदायामन्तीत्याहुः । जटाभिस्तापस इत्यादौ तृतीयो
Page #124
--------------------------------------------------------------------------
________________
कारकवादार्थः। पलक्षणे । तत्त्वं च अतद्वयावृत्त्यनवच्छेदकत्वे सत्यतयावृत्तिसामानाधिकरण्यम् । अस्ति च जटानां अतापसत्वव्यावृत्त्यनवच्छेदकत्वं, शमादिमत्त्वस्यैव तदन्यूनातिरिक्तवृत्तितया तदवच्छेदकत्वात् । शमादिना तापस इत्यप्रयोगोऽविवक्षातः । तथा प्रयोगस्येष्टत्वे तु विशेषणोपलक्षणसाधारणवैशिष्टयमेव तृतीयार्थः । अक्ष्णा काणः, पादेन खंज इत्यादौ “येनांगविकारः ” इत्यनेन तृतीया । येनांगेन विकारो हानिराधिक्यं वा तदंगबोधकात्तृतीया। तृतीयाया वृत्तित्वमर्थः । तच्च व्युत्पत्तिवैचिच्यात्काणादिपदार्थस्यैकदेशे विकारेऽन्वेति । काणत्वं बहिरवच्छेदेन चक्षुःशून्यगोलकवत्त्वं । जातमात्रांधस्याकाणत्वे तु चक्षुमद्रोलकत्वे सतीति वाच्यम् । यदि च बहिरवच्छेदेन चक्षु:सत्त्वेऽपि उपघातादेव न चाक्षुषं तदा गोलकवृत्तियत्तच्छूत्यत्वमुपघातो वा तद्विशिष्टः पुरुषः अक्ष्णा काण इत्यस्यार्थः । एवं खंजत्वं संस्थानविशेषणशून्यपदत्वं । तथाच पदवृत्ति यत्तथाविधसंस्थानशून्यत्वं तद्विशिष्टः पुरुष इति पादेन खंज इत्यस्यार्थः । परे तु-अक्ष्णा काण इत्यायोदे तृतीया। तथाच तादृशगोलकाभिन्नं यच्चक्षुःशून्यमुपहतं तहानिति वाक्यार्थः । एवं मुखेन त्रिलोचन इत्यत्र लोचनपदं लोचनत्रयविशिष्टवत्परम् । तथाच मुखादिभिन्नलोचनत्रयविशिष्टवानित्यर्थ इत्याहुः । धनेन कुलमित्यादौ हेतुत्वे तृतीया । क्रियान्वयिनिरुक्तकरणत्वार्थिका तृतीया "कर्तृकरणयोस्तृतीया" इत्यनेन विहिता, “हेतौ " इति सूत्रेण तु नामान्वितहेतुत्वार्थिकेति विशेषः । पुत्रे
Page #125
--------------------------------------------------------------------------
________________
कारकवादार्थः। ण सहागतः पिता इत्यत्र तृतीयायाः कर्तृत्वमर्थः समभिव्याहृतक्रिया सहशब्दार्थ एककालीनत्वसंबंधेन समभिव्याहृतक्रियायामन्वयः । तथा च पुत्रकर्तृकागमनसमानकालीनागमनकर्तेत्यर्थः । शिष्येण सह गुरुर्बाह्मणः, पुत्रेण सह पिता सुंदरः । सहार्थो ब्राह्मणादिसमानकालीनत्वसंबंधेन ब्राह्मणत्वादिपदार्थैकदेशेन्वेति । अपरे तु सहार्थः साहित्यमेकधर्ममात्र, तृतीयार्थो वृत्तित्वं संख्यामात्रं वा-तथाच शिष्यवृत्तिसाहित्यवान्गुरुर्ब्राह्मण इत्याहुः।" एकेनापि सुपुत्रेण सिंही स्वपिति निर्भयं । सहैव दशभिः पुत्रारं वहति गर्दशी ॥” इत्यादौ पुत्रेषु भारवहनकर्तृत्वाभावेऽपि सहप्रयोगे विद्यमानपदाध्याहारात् । विद्यमानत्वं साहित्यं सहशब्दार्थः । तथाच समानकालीनत्वसंबंधेन दशपुत्रवृत्तिविद्यमानत्वविशिष्टविद्यमानत्वाश्रयः । अतएव विद्यमानत्वं सहशब्दार्थ इति शाब्दिकाः। धान्येन धनी, गोत्रेण गार्ग्यः, प्रकृत्याभिरूपः इत्यादौ तृतीयाया अभेदोऽर्थः। तथा च धान्याभिन्नधनवान्, गोत्राभिन्नगर्गकुलोत्पन्नः, साहजिकाभिन्नरमणीयतावानित्यर्थः । प्रकृतिपदस्य साहजिकार्थत्वात् । अभिरूपपदस्य रमणीयतापदार्थत्वादिति दिक् ॥
इति करणनिरूपणम् । "कर्मणा यमभिप्रेति स संप्रदानम् ” इति पाणिनिसूत्रं । तकियाकरणीभूतेन तक्रियाकर्मणा यमभिप्रैति फलभागित्वेनोद्देशीकरोति स संप्रदानमिति वाक्यार्थः । करणीभूतकर्मजन्यफलभागित्वेनोद्देश्यत्वं संप्रदानत्वमिति
Page #126
--------------------------------------------------------------------------
________________
२२
कारकवादार्थः ।
फलितम् । ग्रामं गच्छतीत्यादौ गमन कर्मग्रामजन्यसुखभागित्वेनोद्देश्यस्य चैत्रादेस्तत्क्रियायां संप्रदानत्वाभावात्तद्वारणाय करणीभूतेति । गमनक्रियायां ग्रामस्याकरणत्वान्न दोषः । दानादौ देयादिकं करणमिति प्रकृतिसंगतिपितृस्वर्गोद्देश्येन कृतगोदानस्थले दानजन्यफलभागित्वेनैव पितोद्देश्यः- नतु गोजन्यफलभागित्वेनेति न पित्रादेः संप्रदानत्वं । अत एव पित्रे गां ददातीति न प्रयोगः । यदि चाहटद्वारा दत्ता गौः पितुः स्वर्गमुत्पादयिष्यतीत्यभिसंधिस्तदा फले कर्मजन्यत्वमदृष्टद्वारकं ग्राह्यं । अत एव न स्वस्मिन्स्वकर्तृकदान संप्रदानत्वापत्तिः । न वा चैत्रश्चैत्राय गां ददातीति प्रयोगप्रसंगः । वस्तुतो धात्वर्थतावच्छेदकत्वेन फलं विशेष्यम् । पितुः स्वर्गादिकं न तथेत्यदोषः । इत्थं च विप्राय गां ददातीत्यत्र संबंधित्वेन परेच्छाविषयत्वं चतुर्थ्यर्थः । चैत्राय चैत्रो ग्रामं गच्छतीत्यादिवारणाय परेति । स च धात्वर्थतावच्छेदकफलेऽन्वेति । वृत्तित्वं द्वितीयार्थः । तथा च गोवृत्तिस्वस्वत्वध्वंस विप्रसंबंधित्वेन परेच्छाविषयपूर्वकपरस्वत्वानुकूलत्यागानुकूलकृतिमानित्यन्वयधीः । यत्तु । अत्र जन्यफलप्रकारकेच्छापूर्वकत्वं क्रियान्वयि चतुर्थ्यर्थः । व्युत्पत्तिवैचित्र्याच्च तदेकदेशे जन्यत्वे कर्मणो गवादेर्निरूपितत्वसंबंधेनान्वयः । तथा च विप्रविषयकगोनिरूपितजन्यफलप्रकारकेच्छापूर्वकगोवृत्तिस्वस्वत्वध्वंसपरस्वत्वानुकूलत्यागानुकूलकृतिमानित्यन्वयधीरिति । तन्न । गोजन्यफलस्य प्रकृते स्वत्वरूपतया विप्रविषयिका या गोजन्यफलप्रकारकेच्छा तत्पूर्वकत्व
Page #127
--------------------------------------------------------------------------
________________
कारकवादार्थः। स्य दानेऽसंभवात् । तादृशेच्छाया एव दानत्वात, गौरवाच्चेति दिक् । एवं वृक्षायोदकमासिंचतीत्यादौ संयोगावच्छिन्नद्रवद्रव्यक्रियावच्छिन्नव्यापारो धात्वर्थः, वृत्तित्वेनेच्छाविषयत्वं चतुर्थ्यर्थः। सच धावतावच्छेदके संयोगेन्वेति । वृत्तित्वरूपद्वितीयार्थोपि तादृशद्रवद्रव्यक्रियायाम् । एवं च वृक्षवृत्तित्वेनेच्छाविषयसंयोगानुकूलद्रवद्रव्यत्तिक्रियानुकूलव्यापारानुकूलकतिमानित्यन्वयधीरिति।अत्र क्रियातस्य धात्वर्थत्वे वृक्षस्य कमत्व स्यात्, नतु जलस्य। क्रियाया वृक्षापेक्षयैव समवेतत्वात् । नचैवं पयसा वृक्षमासिंचतीत्यादौ कमत्वं न स्यात् । धात्वर्थतावच्छेदकक्रियाया वृक्षावृत्तित्वादिति वाच्यम् । अत्र क्रियांतस्य धात्वर्थतया धात्वर्थतावच्छेदकद्रवद्रव्यसंयोगस्य वृक्षवृत्तित्वाद्दवद्रव्यसंयोग एव धात्वर्थ इति न युक्तम् । तर्हि फलावच्छिन्नव्यापाराबोधकत्वाद्धातोरकर्मकत्वं । धात्वर्थतावच्छेदकफलशालित्वाभावात् वृक्षादरकर्मकत्वं स्यात् । अत्राजां ग्रामं नयतीतिवविकर्मकत्वं स्यादिति नाशंकनीयम् । क्रियांतार्थत्वे धात्वर्थतावच्छेदकफलद्वयाभावात् । तादृशक्रियानुकूलव्यापारार्थत्वे च क्रियायामेव द्वितीयार्थवृत्तित्वान्वयात् । क्रियावच्छेदकसंयोगे तु वृक्षायेत्यादिचतुर्थ्यर्थस्योद्देश्यत्वस्यैवान्वयः-न द्वितीयार्थस्य । व्युत्पत्तिवैचित्र्यात् । चतुर्थीसमभिव्याहृतस्य सिन्धातोस्तादृशव्यापारार्थत्वात् । अत एवाजां ग्रामं नयतीत्यत्र ग्रामस्य न संप्रदानत्वम् । अत्र हि संयोगावच्छिन्नक्रियानकूलव्यापारः प्रेरणं धात्वर्थः, द्वितीयार्थो वृत्तित्वं । संयोगे
Page #128
--------------------------------------------------------------------------
________________
२४
कारकवादार्थः ।
"
!!
तु ग्रामपदोत्तरद्वितीयार्थः क्रियायामजापदोत्तर द्वितीयार्थे - ऽन्वेति । तथैव व्युत्पत्तेः । तादृशफलभागित्वेन ग्रामादेरनुद्देश्यत्वान्न संप्रदानता ॥ तादृशफलभागित्वेनोद्देश्यत्वे तु उद्देश्यत्वविवक्षायां ग्रामायाजां नयतीति भवत्येवेति दिक् ॥ परेतु त्यज्यमानद्रव्यस्वत्वभागित्वेनोद्देश्यत्वं संप्रदानत्वं । त्यागोऽत्र विलक्षणो ग्राह्यः । तेन विक्रयादौ क्रेत्रादेर्न संप्रदानत्वं, कर्मणा दानकर्मणा यमभिप्रेति तत्संप्रदानमिति कर्मणे' त्यादिसूत्रार्थः । अत एव संप्रदीयतेऽस्मै इति संप्रदानसंज्ञान्वर्थैव ॥ श्राद्धादौ पित्रादेः स्वत्वभागित्वे नोदेश्यत्वम् । किंतु प्रीतिभागितयेति संप्रदानत्वाभावेन संप्रदान चतुर्थ्य संभवात् । नमः स्वस्ती" त्यादिना सूत्रांतरेण तत्र चतुर्थी । एवं वृक्षायोदकमासिंचतीत्यादौ संप्रदानप्रयोगो गौणः चतुर्थीमात्यर्थः । अत एव शत्रवेऽखं मुंचति, मित्राय दूतं प्रेषयतीत्यादौ धात्वर्थतावच्छेदकफलभागित्वेनोद्देश्यत्वाभावेऽपि चतुर्थी | विभागानुकूलक्रियानुकूलव्यापारो मोचनम् । संयोगानुकूलक्रियानुकूलव्यापारः प्रेषणमिति धात्वर्थतावच्छेदकरूपफलजन्यफलशालित्वेन शत्रुमित्र योरनुद्देश्यत्वम् । इत्थं चोदकादिजन्यफलपल्लवाद्यजन्यदुःखादिदूतजन्यवार्ताज्ञानादिफलशालि - त्वेनोद्देश्यत्वमेव वृक्षायेत्यादिचतुर्थीत्र्यार्थः । नच गुरुप्रीत्युद्देश्येन गुरुपुत्राय दत्तायां गवि गुरवे गां ददातीति स्यात्, तथा विवक्षायामिष्टत्वात् । अत एव रजकसंबंधिनस्तस्य तात्पर्यविषयत्वे रजकस्य वस्त्रं ददातीति प्रयोगः । वख़जन्यफलभागित्वेनोद्देश्यत्वस्य तत्त्वे तु रजकाय वस्त्रं द
Page #129
--------------------------------------------------------------------------
________________
कारकवादार्थः।
दातीति भवितव्यं । नचैवं श्राद्धादावपि पित्रादेः प्रीतिज्ञागित्वेनोद्देश्यत्वात् संप्रदानचतुर्थंवोपपत्तेः" नमः स्वस्ती ॥ त्यादिसूत्रांतरं व्यर्थम्।यत्किंचिक्रियाकर्मजन्यफलशालित्वेनोद्देश्यत्वस्यैव गौणसंप्रदानत्वरूपतया नमःपदार्थादेः क्रियात्वाभावत्वेन पृथक्सूत्रप्रणयनात्।नारदाय रोचते कलहः, वैश्याय शतं धारयतीत्यादौ तु न नारदादेः संप्रदानता-किंतु “रुच्यर्थानां प्रीयमाणः । “धारेरुत्तमर्णः ” इति सूत्राभ्यां संबंधमात्रे चतुर्थी । तथा च चतुर्थ्या संबंधो धातुना रुचिराख्यातेन विषयता बोध्यते इति । नारदस्य रुचिविषयः कलह इत्याद्यस्य, पुनर्दानमंगीकृत्य द्रव्यग्रहणं धारणं वैश्यस्य शतकर्मकतादृशग्रहगाश्रयः इत्थं तस्यार्थः । संप्रदानस्य कारकत्वं धात्वर्थतावच्छेदकस्वत्वनिष्पादकत्वेन ददस्वेत्यनुमितिप्रकाशनेन दातुरिच्छामुत्पाद्य दानसंपादनेनैवेत्याहुः।परे तु त्यागजन्यस्वत्वजनकस्वीकारकत्वं संप्रदानत्वं । श्राद्धादौ पित्रादेर्न स्वीकारः । रुद्राय गां ददातीत्यादावपि गौणसंप्रदानत्वमुद्देश्यत्वरूपमित्याहुः ॥
इति संप्रदानम्। परकीयक्रियाजन्यविभागाश्रयत्वमपादानत्वम् । वृक्षात्पर्ण पततीत्यादौ पत्रादेरपादानत्ववारणाय परकीयेति । अत्र पंचम्या विभागजनकत्वमन्योन्यानावप्रतियोगितावच्छेदकत्वं चार्थः । विज्ञागेन्योन्यानावे चाधिकरणत्वेन वृ क्षोऽन्वेति । तथा च वृक्षवृत्तिविभागजनकवृक्षवत्त्यन्योन्याभावप्रतियोगितावच्छेदकपतनाश्रयः पत्रमिति वाक्यार्थः। तथा च ध्रुवमपायेऽपादानम्" इति पाणिनिसूत्रम् ।
Page #130
--------------------------------------------------------------------------
________________
२६
कारकवादार्थः। अपाये ध्रुवं निश्चलं प्रकृतिपंचम्यर्थविभागजनकत्वान्वयिक्रियाशून्यमिति तदर्थः । तेन धावतोऽश्वात्पततीत्यादौ अश्वादेः पुरुषनिष्ठविभागहेतुक्रियावत्त्वेऽपि प्रकृतिपंचम्यर्थविभागजनकत्वान्वयिनी या पतनक्रिया तच्छ्न्यत्वमव्याहतं । स्पंदजन्यविभागाश्रयत्वेन वृक्षादेरपादानत्वे वृक्षात्पर्ण स्पंदत इति स्यात्-अतः क्रियेति । क्रियापदं सकर्मकधात्वर्थपरं । व्याघ्राद्वितीत्यादौ पंचमी नापादानत्वे-किंतु हेतुत्व इत्यग्रे वक्ष्यते । धात्वर्थतानवच्छेदकत्वेन विभागो विशेष्यः । तेन वृक्षं त्यजति खग इत्यादौ वृक्षस्य नापादानत्वं । यत्तु विभागावच्छिन्नक्रियायास्त्यजधात्वर्थतया विभागविशिष्टक्रियाजन्यत्वाभावान्न दोष इति । तन्न । तर्हि अधःसंयोगावच्छिन्नक्रियाया एव पतत्यर्थतया वृक्षपर्णविभागेऽधःसंयोगविशिष्टक्रियाया अजनकत्वादसंभवापत्तेः। विभागे फलोपलक्षितव्यापारजनकत्वमुभयत्र तुल्यमिति दिक् । वृक्षाद्विाजत इत्यादौ विभागावधित्वमपादानत्वं अवधित्वं स्वरूपसंबंधरूपं पंचम्यर्थः । अपाये विभागे ध्रुवं अवधिभूतमपादानमित्यपि पाणिनिसूत्रार्थः । तथा च वृक्षनिष्ठावधितानिरूपकविभागाश्रयः पर्णमित्युक्तवाक्यार्थः । न चैवं स्वं स्वस्मात्वद्विाजत इत्यपि स्यात् । स्वप्रतियोगिकत्वविशिष्टसंयोत्युद्देश्व स्वावधिकत्वविशिष्टविभागस्यापि स्वस्मिन्नभावात् । त्, तथा :पादानपदं पंचमोपदं नानार्थमेव बोध्यम् । धावस्तस्य तात्पर्यापीत्यादावपि अवधित्वमेव पंचम्यर्थः । व्यारजन्यफलभागियोः पराजयत इत्यादौ पंचमी नापादाने ।
Page #131
--------------------------------------------------------------------------
________________
कारकवादार्थः। किंतु “भीत्रार्थानां भयहेतुः” इति सूत्रेणानुसृष्टहेतुत्वाथिका । धातोश्च यथायथे भयं भयाभावश्चार्थः । पंचम्यर्थहेतुत्वं धात्वर्थभये धात्वर्थतावच्छेदके च भयेऽन्वेति । आश्रयत्वं व्यापारश्च यथायथमाख्यातार्थः । तथाच व्याघहेतुकायाश्रय इत्याद्यस्य शत्रुहेतुकायाभावानुकूलव्यापारवानित्यंतस्यार्थः । इत्थंच पंचम्यैवोपपत्तौ पृथक् सूत्रं प्रपश्चार्थमिति बोध्यम् । एवं कूपादन्धं वारयतीत्यादौ पंचम्या अवधित्वमधःसंयोगानुकूलक्रियारूपं पतनं द्वितीयाया धात्वर्थंकदेशप्रतिबंधान्वितवृत्तित्वम् । धातोः प्रतिबंधानुकूलव्यापारोऽर्थः । तथा चांधवृत्तिकूपावधिकपतनप्रतिबंधानुकूलव्यापारानुकूलकतिमानिति वाक्यार्थः संपद्यते । सच न युक्तः । यत्र हि त्रिक्षणावस्थायिनि खण्डकूपे परमाण्वादेरधःसंयोगो मानाभावेनासिद्धः तत्रासंभवात् । अत एव द्वितीयायाः पतनं पञ्चम्या धात्वर्थतावच्छेदकाभावान्वयिवृत्तित्वम् । धातोरभावानुकूलव्यापारः । तथा च कूपवृत्तिअंधपतनाभावानुकूलव्यापारविषयकयत्नवानिति वाक्यार्थोऽपि न युक्तः । यदंधस्य पतनमप्रसिद्धम् । तत्रासंभवात् । किंत धातोरावानुकूलव्यापारः पंचम्या वृत्तित्वम् । द्वितीयाप्रतियोगित्वमनुयोगित्वं । धात्वर्थतावच्छेदकीताभावान्वितमर्थः अभावश्च कूपादिसमभिव्याहारात पतनादिना तज्जन्याधःसंयोगादिना वा संबंधेन बोध्यः । तथाच पतनादिसंबंधेन कूपवृत्त्यंधप्रतियोगिकाभावानुकूलव्यापारविषयकयत्नवानिति वाक्यार्थः । एवं एतस्मात्सविषादनान्मित्रं
Page #132
--------------------------------------------------------------------------
________________
२८
कारकवादार्थः। वारयतीत्यादौ यत्सविषान्नस्य यन्मित्रस्य च भोजनमप्रसिद्धम्-तत्रापि भोजनसंबंधेन सविषान्नवृत्तिप्रतियोगिकाभावानुकूलव्यापारविषयककृतिमानित्यन्वयधीः । परे तु कूपाद्धं वारयतीत्यत्र सविषादन्नाद्धातोरुभयत्र मित्रं वारयतीत्यत्र धातोः पतनमाये, द्वितीये भोजनं । अभावानुकूलव्यापारश्चोभयत्रार्थः । द्वितीयायाः कर्तृत्वमर्थः । धात्वर्थतावच्छेदकीभूतानावे धात्वर्थपतनादेरधिकरणत्वेन द्वित्वावच्छिन्नत्वपंचम्यर्थद्वितीयार्थकर्तृत्वोभयस्य प्रतियोगित्वेनान्वयो व्युत्पत्तिवैचित्र्यात् । तथाच पतनसामान्य कूपावच्छिन्नत्वांधककर्तृत्वोभयप्रतियोगिकाभावानुकूलव्यापारविषयकवानिति आद्यस्य, भोजनसामान्ये (?) सविषान्नकर्मत्वमित्यत्र कर्तृत्वोभयप्रतियोगिकाभावानुकूलयत्नवानिति द्वितीयस्यार्थः । आकाशं न पश्यति घटश्चैत्रो वेत्यादौ द्वितीयाविषयित्वम् । लक्षणया घटादिवृत्तित्वं बोध्यते । धातुना लौकिकविषयत्वावच्छिन्नचाक्षुपप्रत्यक्षं । तत्रैवावच्छिन्नावच्छिन्नद्वितीयान्वितनबर्थस्यान्वयः। आख्यातस्य तादृशोभयानावान्वितनिरूपितत्वमथः । तथाच लौकिकचाक्षुषप्रत्यक्षसामान्ये य आकाशविषयित्वघटादिवृत्तित्वोभयानावः तत्प्रतियोगितानिरूपको घट इत्यर्थः । आकाशादिविषयकचाक्षुषोपनीतभानेपि लौकिकविषयित्वावच्छिन्नाकाशविषयित्वचैत्रवृत्तित्वोभयात्रा वसत्त्वान्न दोषः । एवमन्यत्राप्रसिद्धस्थले बोध्यमित्याहुः । हिमवतो गंगा प्रावतीत्यादौ पंचम्या हेतुत्वं धातोरुत्पत्तिरर्थ इति न युक्तम् । तर्हि "जनिकर्तुरि"त्यत एवोपपत्तौ "भुवः
Page #133
--------------------------------------------------------------------------
________________
कारकवादार्थः। २९ प्रभवः” इति वैयर्थ्यप्रसंगात् । किंतु प्रकर्षण भवनं प्रकाशः आद्यबहिःसंयोगरूपः । स च धात्वर्थः । बहिः सर्वः प्रकृतेः स एव पंचम्यर्थः । संयोगध्वंसाव्यवहितोत्तरक्षणवृत्तित्वमाख्यातार्थ आश्रयत्वम् । तथाच हिमालयसंयोगध्वंसाव्यवहितोत्तरक्षणवत्याद्यपृथिवीसंयोगाश्रयत्ववती गंगेत्यर्थः । वैकुंठात्काशीतो वा गंगा प्रभवतीत्यप्रयोगादव्यवहितेति, आयेति च । वैकुंठसंयोगध्वंसाव्यवहितोत्तरक्षणसंबंधस्य काशीसंयोगव्यवहितोत्तरक्षणे आयस्य तस्याभावाददोषः । " वल्मीकापात्प्रभवति धनु:खण्डमाखण्डलस्य ” इत्यादावप्येवमेव । तत्र तर्हि पदार्थो वल्मीकायोर्ध्वदेश इति विशेषः । कृष्णात्पराजयते, अध्ययनात्पराजयते बाल इत्यादौ धातोरसहिष्णुता पंचम्याः कर्मत्वमाख्यातस्याश्रयत्वमर्थः । श्रीकृष्णं न सहते, अध्ययनं न सहते इति विकरणात् । असहिष्णुता द्वेषः अभिभवाशक्यत्वज्ञानं आशंक्यज्ञानं वा । तथा च श्रीकष्णविषयकभिन्नाभिभवाशक्यत्वज्ञानवान् शिशुपालः कष्णविषयकद्वेषवान् वेत्याद्यस्य, अध्ययनविषयकाशक्यत्वज्ञानवान् बालः इत्यंतस्यार्थः । विशद्वनमादत्ते इत्यादौ पथवृत्तिनियोगोर्थो नतु स्वत्वम् । चोराद्धनमादत्ते इत्यादौ चोरस्य स्वत्वाभावेन तदसंभवात् । धातोरपि यथेष्टविनियोगफलकस्वीकारोर्थः । नतु स्वत्वजनकस्वीकारः । विप्राद्धनमादत्ते चौर इत्यादौ चौरस्य तदसंभवात् । पंचम्यर्थश्व विनियोगोऽव्यवहितोत्तरत्वसंबंधेन धात्वर्थतावच्छेदके विनियोगेऽन्वेति । अव्यवहितोत्तरत्वं च स्वसमानविषयक
Page #134
--------------------------------------------------------------------------
________________
कारकवादार्थः। पुरुषांतरीयविनियोगव्यवहितभिन्नत्वं । तेन शूद्रतः प्रतिग्रहीत्रा विप्रेण दत्तं धनमादातरि शूद्रादादत्त इति न प्रयोगः। इत्थं च विप्रयथेष्टविनियोगाव्यवहितोत्तरधनवृत्तियथेष्टविनियोगफलकस्वीकारवानित्यर्थः । अधर्माज्जुगुप्सत इत्यत्र पंचम्यर्थः कर्मत्वं धातोर्निन्दार्थः । तथा च धर्म निंदतीत्यर्थः । अधर्माद्विरमतीत्यत्र धातोः करणमर्थः पंचम्याः कर्मत्वमर्थः । स च करणेऽकरणे चान्वेति। तथा चाधर्म कृत्वा पुनर्न करोतीत्यर्थः । धर्मालमायतीत्यादौ पंचम्या विषयत्वं धातोरवधानताख्यातस्याश्रयत्वमर्थः । धर्माविषयकावधानभावाश्रय इति वाक्यार्थः । उपाध्यायादतर्धत्ते शिष्य इत्यादौ धातोः स्वविषयकप्रत्यक्षविरोधव्यापारः पंचम्याः संबंधित्वं धात्वर्थतावच्छेदकप्रत्यक्षान्वितमाख्यातस्य कतिरर्थः । तथाचोपाध्यायसंबंधित्वस्वविषयकात्यक्षविरोधिव्यापारानुकूलकतिमानिति वाक्यार्थः । दंडावटः, धूमावह्निमानित्यादौ पंचमी नापादाने । क्रियायोगाभावात् । किंतु जनकत्वज्ञापकत्वरूपहेतुत्वे जन्यत्वव्याप्यत्वहेतुमत्त्वे वा “ हेतौ ” इति सूत्रानुशिष्टा । नचैवं “जनिकर्तुः प्रकृतिः ” इति व्यर्थम् । काष्ठात्पचतीत्यत्रेव दंडाज्जायत इत्यादावप्युत्पत्तिनिरूपिते हेतुत्वार्थकपंचम्याः “हेतौ” इति सूत्रेणैव संभवादिति वाच्यम् । उत्पत्तेः सहेतुत्वेपि साबाधिकत्वव्यवहारादुत्पत्तिरूपधात्वर्थनिरूपितस्वरूपसंबंधस्य हेतुत्वानात्मकतया “हेतौ” इति सूत्रेणैतदर्थकपंचम्या असंभवादिति । अधिकरणं च स्वधर्मसंबंधसंयोमादिरूपसंबंधस्य द्विनिष्ठतया
Page #135
--------------------------------------------------------------------------
________________
कारकवादार्थः। बदरादेरपि कुंडाद्याधारतापत्तेः । नच स्वधर्मसंबंधोऽधिकरणत्वं कुंडादिकं च न बदरादिधर्म इति वाच्यम् । स्वधर्मत्वस्य स्वाधेयत्वरूपतया आधेयत्वस्य च स्वनिष्ठाधकरणतानिरूपकत्वेनान्योन्याश्रयासंगात् । नाप्युत्पत्तये स्थितये ज्ञप्तये चापेक्षणीयमधिकरणम् । उत्पत्तयेऽपेक्षणीयं कार्यस्य समवायिकारणं, स्थितये घटादेतलादिज्ञप्तये जात्यादेः समवायिसमवायादेः स्वरूपसंबंधीति वाच्यम् । अपेक्षणीयत्वस्य कारणस्वरूपत्वेनासमयायिकारणादावतिव्याप्तेः । समवायिकारणत्वं घटत्वादिज्ञप्तये घटादौ न संभवति । नापि तद्भिन्नत्वे सति तत्पतनं प्रतिसंयोगवन्मूर्त्तत्वमधिकरणत्वम् । पतनवन्मूर्ताधिकरणत्वस्य ब्रह्मांडादिधारकसंयोगाश्रयेश्वरे मूर्तत्वमुपात्तं । मूर्तमात्रस्य विलक्षणतत्संयोगादिमत्त्वेन कस्यचित्पतनापसिद्धावपि नाव्याप्तिः । गुणादेस्तत्समवायित्वं समवायादेस्तत्स्वरूपसंबंधित्वम् । एवं परंपरेति वाच्यम् ।अननुगमनात् । सप्तम्या नानार्थत्वे चान्याय्यत्वात् । किंतु प्रतियोगित्वादिवदधिकरणत्वमधिकरणमिति प्रतीतिसाक्षिकः स्वरूपसंबंधविशेष चातिरिक्तं अतिरिक्तो वेत्यन्यदेतत् । एवमाधेयत्वमपि । इत्थं च गृहे स्थाल्यामोदनं पचतीत्यादौ पच्यर्थः अधःसंपतनमधिवह्निसंयोगानुकूलकाष्ठवह्नयादेयापार इत्येके । पच्यर्थो विक्लित्त्यवच्छिन्नामितंडुलादिसंयोग एव, पाकजरूपमित्यादिव्यवहारादित्यन्ये। उभयत्रापि गेहादेः साक्षात्तदधिकरणत्वासंभवात् । कर्तृकर्मान्यतरद्वारा क्रियाश्रयत्वरूपाधिकरणत्वं सप्तम्यर्थः । तदाहुः । " कर्तृकर्मव्यवहितं साक्षाद्धारयति क्रियां ॥ उपकुर्वत्कि
Page #136
--------------------------------------------------------------------------
________________
कारकवादार्थः।
यासिद्धौ शास्त्रेऽधिकरणं स्मृतं ॥"वस्तुतः परंपरया आश्रयत्वमात्र सप्तम्यर्थः । अतएव प्राङ्गणस्थेन दीर्घदंडादिकाष्ठादिचालनद्वारा गृहमध्ये पाककरणे गृहस्य कर्तृद्वारा क्रियानाश्रयत्वेपि गृहे पचतीति प्रयोगः । वह्निचैत्रादेः साक्षापाकगमनादिक्रियाश्रयत्वेऽपि वह्नौ पचति चैत्रो गच्छतीत्याद्यप्रयोगात्परंपरयेत्युक्तम् । नचैवं क्रियाश्रयत्वस्यैव सप्तम्यर्थे क्रियाप्रयोगेन विना भूतले घट इत्यादिप्रयोगो न स्यादिति वाच्यम् । इष्टत्वात् । न हि क्रियारहितं वाक्यमस्तीति शाब्दिकाः । वस्तुतोधिकरणत्वमात्रमाधेयत्वमा वा सप्तम्यर्थः । क्रियाशक्यव्यर्थत्वात् । नच यक्रियायामन्वेति तस्य तत्कियाकारकत्वव्यवहारः । अत एव भूतले घट इति शून्यवाक्यशाब्दबोध इति नैयायिकाः। अत्र भूतलनिष्ठाधिकरणतानिरूपको घट इत्यन्वयबोधः । निष्ठत्वनिरूपकत्वं च संसर्ग इति प्रांचः। एवं सति निरूपकत्वसंबंधस्य प्रतियोगितानवच्छेदकत्वात् । भूतले न घट इत्यादौ नत्रर्थान्वयासंभवात्। आधेयत्वं सप्तम्यर्थः। तत्र च प्रत्यर्थस्य निरूपकतया प्रथमांतस्याधिकरणतया चान्वये भूतलनिरूपिताधेयत्वाश्रयो घट इत्यन्वयबोधः। निरूपितत्वमाश्रयत्वं संसर्ग इति नव्याः।“चमणि दीपिनं हंती" त्यादौ सप्तम्यर्थी निमित्तत्वम् । तच्चोपदेश्यत्वं । फलत्वेन चेच्छादिविषयत्वरूपं । तत्राचं मशकनिवृत्तौ धूमं करोतीत्यादौ मशकनिवृत्तेः फलत्वात् । “चमणि दीपिनं हंती" त्यादौ चर्मादेः सिद्धतया स्वत्वरूपफलवत्त्वेनैवेच्छाविषयत्वात् । तच्च प्रयोज्यत्वेन धात्वर्थेन्वेति।
Page #137
--------------------------------------------------------------------------
________________
कारकवादार्थः। ३३ मशकनिवृत्तिविषयकेच्छाप्रयोज्यधूमकरणाश्रयः चर्मविषयकस्वप्रकारेच्छाप्रयोज्यद्वीपिचर्मकहननानुकूलकतिमानिति वाक्यार्थः । एवं 'सीम्नि पुष्कलको हत' इत्यादावपि पुष्कलको गंधमृग इति कोशात् । सा च "निमित्तात्कर्मयोगे " इत्यनुशासनाद्यत्किंचित्कर्मप्रकारकबोधजनकधातुयोगे प्रयुज्यते । तादृशबोधः, जनकता च सकर्मकस्य धातोः कर्मबोधकपदयोगेन-यथा दीपिनं हंतीत्यादौ । अकर्मकस्य तु कर्मविशिष्टस्यार्थशक्त्या-यथा विद्या रजनीक्षये यदुदेतीत्यादौ । उदेतीत्यस्योदयगिरिशिखरमारोहतीत्यर्थात् । तत्र रजनीक्षयस्य सूर्योदयाजन्यत्वेपि निमित्तत्वं ज्ञानविषयत्वेनोद्देश्यतया लोकानां रजनीक्षयज्ञानार्थमुदेतीत्यर्थम् इत्येके । एतद्द्वीपवृत्तियाबद्रश्मिसंसर्गाभावविशिष्टस्य कालस्य जनितत्वात् । सूर्योदये तद्रश्म्युत्पादेन तत्यागभावनाशे विशिष्टफलनाशात् । रजनीक्षयेच्छाप्रयोज्यत्वं सूर्योदये । क्षये इत्यन्ये । शरदि पुष्पंति सप्तच्छदा इत्यत्रोत्पत्तिरपि सप्तम्यर्थः । शरदुत्पत्तिकपुष्पाश्रयाः समच्छदा इति वाक्यार्थः । नतु शरदुत्पत्तिकपुष्पाश्रये चम्पकादावपि तथा प्रयोगः स्यादिति वाच्यम् । सप्तच्छदस्य पुष्पाश्रयत्वे लब्धे तुल्यवृत्तिवेद्यतया पुष्पेष्वसप्तच्छदवृत्तित्वलाभात्तदवच्छेदेन शरदुत्पत्तिकत्वस्य च व्युत्पत्तिसिद्धत्वात् । चंपकादिपुष्पत्वावच्छेदेन शरदुत्पत्तिकत्वाभावेन तथाप्रयोगाभावात् । धातोरेव सप्तच्छदीयपुष्पत्वेन लक्षणेति केचित् भावे सति सप्तम्याः सामानाधिकरण्यमर्थः । गुणकर्मान्यत्वे सति सत्त्वादित्यतो गुणकर्मान्यत्वसमानाधिकरणसत्त्वबोधात् । तच्च क्वचि
Page #138
--------------------------------------------------------------------------
________________
कारकवादार्थः।
त्कालिक, कचिदेशिकं । तत्राय समानकालीनत्वं पर्यवसन्नम् । यथा गोष दह्यमानास्वागतः। अत्र सप्तम्यर्थे समानकालीनत्वे दोहनमात्रस्य निरूपकत्वेनान्वयः। महिष्यादिदोहनकालीनतया प्रयोगाभावात्-नापि गोदोहनत्वेन धातोरनुपस्थितेः। किंतु दंडी पुरुषो गच्छतीत्यत्र यथा परंपरया पुरुषविशेषणतापन्नदंडसमानकालीनत्वं गमने भासते । तथा विशेषणकर्मता विशेषणस्यैव दोहनस्य । इत्थं च तादृशगोदोहनसमानकलीनातीतगमनानुकूलकतिमानिति धीः । दुग्धास्वागत इत्यादौ तु तथान्वयः । आगमनदोहनस्यातीततया दोहनकालीनत्वस्य गमने बाधात् । किंतु वर्तमानध्वंसप्रतियोगिदोहनकर्मसु गोष्वित्यर्थात् । अतीतार्थे तादृशगोदोहनविशेषणध्वंसस्य समानकालीनत्वमागमने भासते । तथाच तादृशगोदोहनध्वंसकालीनगमनानुकूलकतिमानित्यन्वयबोधः । एवं गोषु धोक्ष्यमाणास्वागत इत्यादावपि । तादृशप्रतियोगित्वविशेषणप्रागभावस्य समानकालीनत्वं भासते । न च सप्तम्यर्थ समानकालीनत्वेन प्रकृत्यर्थस्य गोरनन्वयापत्तिः। तादृशगोदोहनकर्मत्वविशिष्टाया गोः स्वविशेषणकर्मत्वविशेषणदोहनाद्याश्रयत्वसंबंधेन कालेन्वयात-इति बोध्यम् । “ यस्य च भावेन भावलक्षणम् "इति सूत्रस्य यस्य क्रियया क्रियांतरं लक्ष्यते इति व्याख्यानात्। क्रिययोः सामानाधिकरण्ये सप्तमी तत्सूत्रेणानुशिष्टा। सा च न युक्ता । गुणकर्मान्यत्वे सति सत्त्वादित्यादौ सा न स्यात्तदापि गुणकर्मान्यत्वे सति सत्त्वादित्यभियुक्तप्रयोगदर्शनात् । सूत्रतद्व्याख्यानयोविक्रियापदे धर्मपरे । तथाच
Page #139
--------------------------------------------------------------------------
________________
कारकवादार्थः ।
३५
यस्य धर्मेण धर्मांतरं निरुक्तत्वसामानाधिकरण्येन प्रतिपायते तत्र सप्तमीति सूत्रार्थशेषः ॥ इत्यधिकरणम् ।
इति श्रीमन्महोपाध्यायजयरामपण्डितविरचितः कारकवादार्थः समाप्तः ।
इदं पुस्तकं श्रीकृष्णदासात्मज - गंगाविष्णुना स्वकीये " लक्ष्मीवेंकटेश्वर" मुद्रणालये मुद्रिम् ॥ संवत् १९५१
पुस्तक मिलनेका ठिकाना
गङ्गाविष्णु श्रीकृष्णदास, “लक्ष्मीवेङ्कटेश्वर " छापाखाना. कल्याण-मुम्बई.
Page #140
--------------------------------------------------------------------------
________________ 法米米米米米米米件件件件件件件米米米米米米件件件件件件件件件件件件件件件件件件件件件件件件件件件法术性能 ************************** जाहिरात. श्रीमहाल्मीकीयरामायण गोविंदराजीय भूषण और तनिश्लोकी, रामानुजी सहित छपके तैयार है. * ग्राहक लोगोंको इसका मूल्य 25 रु० पडेगा. और कुर * भगवद्गुणदर्पणाख्य श्रीविष्णुसहस्रनामभाष्य 12000 * * ग्रन्थ भेटमें दिया जायगा. इसका डाकमहसूल अलग * पडेगा. डाकमहसूल प्रथम आनेसे पुस्तक व्हाल्युपे-* * बलसे भेजा जायगा. इसका कमिशन नहीं मिलेगा. * श्रीविष्णुसहस्रनाम-भगवद्गुणदर्पणभाष्य नि* वचन और निरुक्ति इन तीन संस्कृत टीकासहित छपके तैयार है, यह पुस्तक बहुत बड़ा है,की०५रु०॥ __ 2 भगवद्गुणदर्पणभाष्यकी व्युत्पत्ति और उसके अनुसार दीपिका नामक भाषाटीका सहित, कीमत 1 रु०। 3 शंकराचार्यकृत भाष्यकी व्युत्पत्ति और * उसके अनुसार चंद्रिका नामक भाषाटीका सहित, कीमत 12 आना.। केवल भाषाटीकासहित गुटका, की०८आ। गीता पंचरत्न-(गुटका ) पांचों रतनोंकी भापाटीकासहित. की० 2 रु० / पुस्तकें मिलने का ठिकाना गंगाविष्णु श्रीकृष्णदास, * “लक्ष्मीवेंकटेश्वर" छापाखाना, कल्याण-मुंबई.