SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ १० कारकवादार्थः । विरोधप्रसंगः । ननु नान्योन्याभावप्रतियोगितावच्छेदकत्वं क्रियान्वयि द्वितीयार्थः । न वा परसमवेतत्वं समवेतत्वत्वस्वरूपसामान्यधर्मावच्छिन्नतत्कर्मसमवेतत्वनिष्ठप्रतियोगिताकाभावात्मकस्वप्रतियोगिताकाभाव संबंधेन कर्मवाचकपदार्थान्वितद्वितीयार्थासमवेतत्वस्य क्रियायामन्वय स्वीकारात् । सामान्यरूपेण विशेषाभावानभ्युपगमे यद्वयक्तेर्द्वितीयार्थसमवेतत्वेऽन्वयस्तद्वचक्तिसमवेतत्वावच्छिन्नप्रतियोगिताकाभावात्मक स्वप्रतियोगिताका भाव संबंधेन कर्मवाचक - पदान्वितद्वितीयार्थासमवेतत्वस्य धात्वर्थक्रियायामन्वयस्वीकारात् । काप्यदृष्टचरत्वेऽपि प्रकृते गत्यंतरविरहेण स्वीकारात् । अत एव न कर्मवाचकपदस्य तत्तद्व्यक्तित्वेन ततद्व्यक्तिबोधकतया सामान्यरूपेण बोधकतया च युगपट्टूतिद्वयविरोध इति चेन्न । नव्यनये क्रियाया अव्याप्यवृत्तितया तन्निष्ठतदाश्रयद्रव्यसमवेतत्वस्यापि अव्याप्यवृत्तित्वातू - मल्लः स्वं गच्छतीति प्रयोगप्रसंगस्य दुर्वारत्वापत्तिः । एतेन तत्तत्क्रियानधिकरणत्वे सति तत्तत्क्रियावच्छेदकफलशालित्वं तत्तत्क्रियाकर्मत्वं, द्वितीयादेरपि तत्तत्क्रियानधिकरणत्वमर्थ इत्यपास्तम् । शक्त्यानंत्यापत्तेश्च । यत्तु क्रियान्वयि परसमवेतत्वमवेक्ष्य कर्त्रन्वयिपरत्वमेव लाघवात्कर्मप्रत्ययार्थ इति । तन्न । द्वितीयार्थफलपरसमवेतत्वयोरेकान्वयित्वेन लाघवात् । ग्रामो गमेः कर्म न तु चैत्रः इत्यादौ परसमवेतक्रियाजन्यत्वघटितस्यैव कर्मपदार्थतया तस्यैव कर्मप्रत्ययार्थत्वात् । गम्यते ग्रामः स्वयमित्यादौ परत्वान्वयिविरहाच्चेति दिक् । अथैवमपि पतेः संयोगाव 1
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy