________________
कारकवादार्थः ।
९
तावच्छेदकावच्छिन्नप्रतियोगिताकत्वेन, प्रतियोगितामा - त्रेण वान्वयः । नाद्यः । पृथ्वीं प्रयाति विहग इत्यादी अनन्वयापत्तेः । खगस्य पृथ्वीत्वावच्छिन्नत्वात् । न द्वितीयः । स्वात्मन्यपि खगपृथ्व्युभयभेदसत्त्वात् । स्वं प्रयातीत्यापत्तेरिति चेन्न । द्वितीयाद्यर्थफले यद्वयक्तेरन्वयस्तद्वचतित्वावच्छिन्नप्रतियोगिताकत्वसंबंधेन प्रकृत्यर्थस्य कर्माख्यातार्थफलान्वयिनश्च परत्वेऽन्वयात् । इत्थं च पृथ्वीं प्रयातीत्यादौ यत्पृथिवीव्यक्तिवृत्तिसंयोगजनकत्वं प्रयाणस्य तद्वचक्तिभिन्नत्वं विहगेऽस्तीति न दोषः । परंतु पृथिवीमित्यादौ पृथिवीपदं कर्मत्ववत्पृथिवी व्यक्ति परमेवमन्यत्र कर्मवाचकं सामान्य पदलक्षणया विशेष्यपरम् । इत्थं चान्वयितावच्छेदकावच्छिन्नप्रतियोगितायास्तादृग्व्यक्तेर्न भङ्ग इत्याहुः । यत्तु परसमवेतत्वं नार्थः । किंतु अन्योन्याभावप्रतियोगितावच्छेदकत्वं क्रियान्वयि द्वितीयार्थः । तथाच भूमिवृत्तिसंयोगजनकभूमिनिष्ठान्योन्याभावप्रतियोगि
यायाः
तावच्छेदकप्रयाणानुकूलकृतिमानित्यर्थः । स्ववृत्तिक्रिस्वनिष्ठान्योन्याभावप्रतियोगितानवच्छेदकत्वान्न स्वं प्रयातीति प्रयोग इति । तन्न । तथापि येन मल्लेन मल्लांतरं न गतं सोपि मल्लो मल्लं गच्छतीति प्रयोगापत्तेः । मल्लांतरनिष्ठ भेदप्रतियोगितावच्छेदकायास्तन्मल्लवृत्तिक्रियायास्तन्मल्लवृत्तिभूमिसंयोगजनकत्वात् । यन्मल्लव्यक्तेः फ लान्वयस्तस्या एवान्योन्याभावेऽन्वयोक्तौ दोषवारणे तु तद्व्यक्तित्वादेः प्रकारत्वे शक्त्यानन्त्यं । कथंचित्कर्मवाचकपदस्य तद्व्यक्तित्वावच्छिन्नलक्षणास्वीकारे युगपद्वृत्तिद्वय