SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ कारकवादार्थः । क्तविषयित्वरूपविभक्त्यर्थान्वय्यर्थकत्वं गौणं सकर्मकत्वं । घटं जानातीत्यादितो घटविषयिताशालिज्ञानाश्रयत्ववानिति बोधः । तादृशधातुप्रयोग एव च कर्मप्रत्ययः । अत एवाभुंजान एव भोजनाय यतते इति प्रयोगात् । यतधात्वर्थे नामार्थान्वितस्य चतुर्थ्यर्थोद्देश्यत्वस्यैवान्वयात्-न यतेः सकर्मकत्वं । न वा भोजनं यतते इति प्रयोगः । “भूमिं प्रयाति विहगो विजहाति महीरुहं । नतु स्वात्मानमि " ति प्रयोगात् । स्वस्य धात्वर्थतावच्छेदकसंयोगविभागरूपफलशालित्वरूपसकर्मकत्वाभावात् । परसमवेतक्रियाजन्यत्वमपि धात्वर्थतावच्छेदकफले निवेश्यम् । नचैवमपि मल्लो मल्लं गच्छतीत्यादौ उभयकर्मजसंयोगरूपफलस्य ताहशत्वात्स्वकर्तृक क्रियाकर्मत्वरूपव्यवहारः स्वस्मिन्स्यादिति वाच्यं । परसमवेतक्रियाजन्यतादृशफलशालित्वं यत्र तत्र कर्म त्वस्य स्वीकारात् । इत्थं च द्वितीयादेः क्रियान्वयिपदसमवेतत्वमप्यर्थः। परत्वं स्वप्रकृत्यर्थापेक्षया सुपा स्वार्थफलान्वय्यपेक्षया कर्माख्यातेन च बोध्यते । तथा च भूमिर्गम्यत इत्यादौ कर्माख्यातस्थले फलं परसमवेतत्वं चाख्यातार्थः । भूमिपदार्थस्य परत्वे विशेषणत्वेन फलं प्रति विशेष्यत्वेन चान्वयः । तथाच भूमिभिन्नसमवेत क्रियाजन्यफलशालिनी भूमिरित्यन्वयबोधः । भूमिं प्रयातीत्यतो भूमिभिन्नसमवेतभूमिवृत्तिसंयोगजनकस्पन्दानुकूलकृतिमानित्यन्वयबोधः । एवंच स्वभिन्नसमवेतं स्ववृत्तिसंयोगजनकं यन्मल्लान्तरवृत्तिगमनं तदनुकूलकृतिमत्त्वस्य स्वस्मिन्नभावादेव न मल्लः स्वं गच्छतीति प्रयोगः । नन्वत्र परत्वे स्वप्रकृत्यर्थस्यान्वयि .
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy