________________
कारकवादार्थः ।
काढं पचति, स्थाली पचतीत्यादिप्रयोगवशात्करणादीनां कर्तृत्वमिष्टं तदा पच्यत ओदनः स्वयमेवेत्यादी कर्मकर्तृकर्मणोऽपि तदिष्टं ओदनः स्वयं पचतीत्यप्रयोगस्त्वसाधुत्वात् । कर्माख्यातयागादिह विभाव्यते । कर्मत्वविशिष्टस्य कर्तृत्वरूपतावारणाय तदुपादेयं । नहि कर्मत्वादेः कर्तृत्वरूपत्वे "अनभिहिते कर्त्तरि" इत्यनुशासनार्थः संगच्छते इत्याहुः । यत्तु "स्वतंत्रः कर्त्ता" इति पाणिनिसूत्रात्कारकांतराप्रयोज्यत्वे सति कारकांतरप्रयोजकत्वं कर्तृत्वं । सत्यंतेन पुरुषादिजन्यसंयोगरूपव्यापारवत्त्वरूपं तत् । प्रयोज्यत्ववत्कुठारादेर्व्युदासः । तन्न | ईश्वरप्रयोज्यानां जीवानां कर्तृत्वानापत्तेः । दण्डजन्यसंयोगरूपव्यापारवति कुलालादावव्यातिश्चेति दिक् ॥ कर्मत्वं न करणव्यापारित्वं । तद्धि करणजन्यव्यापारवत्त्वं । दात्रेण धान्यं लुनातीत्यादौ हस्तादिकरणव्यापारवति दात्रादावतिव्याप्तम् । नापि परसमवे - तक्रियाजन्यफलशालित्वं । गमिपत्योः कर्मत्वस्य पूर्वस्मिन्देशे त्यजेश्चोत्तरस्मिन्देशे स्यंदेः पूर्वपरयोः प्रसंगात् । नदी वर्द्धत इत्यादौ वृद्धेरवयवोपचयरूपायाः परंपरया तीरप्राप्तिरूपयत्नस्याश्रये तीरे कर्मत्वप्राप्तिश्चेत् - अत्र वदन्ति - ' धात्वर्थतावच्छेदकफलशालित्वं कर्मत्वं ' तादृशं फलं गमेः संयोगस्त्यजेर्विभागः पतेरधः संयोगस्तदवच्छिन्ने स्पन्दे शक्तिः । स्पन्दमात्रे तेषां शक्तौ पर्यायतापत्तेः । स्पन्देर्वृध्वातोश्च न फलावच्छिन्नव्यापारे शक्तिरिति न कोपि दोषः । फलावच्छिन्नव्यापारबोधकत्वादेव धातूनां सकर्मकत्वव्यापारो मुख्यः । ज्ञाधात्वादीनां नामार्थान्वितोद्देश्यत्वातिरि