SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ कारकवादार्थः। मया कृतमिति व्यपदेशान्नान्तरीयककतिसाध्यस्य पिष्टमध्यस्थशर्कराभोजनस्य न कर्तृत्वं तदा विषयत्वमपि निवेश्यं । तच्च साध्यत्वेन । तेन यागादिकतेरुद्देश्यत्वेन स्वर्गादिविषयकत्वेऽपि न यागादिकर्तुः स्वर्गकर्तृत्वम् । अस्मदादिकर्तृकयागादिकर्तृत्वमीश्वरस्येष्टम् । तथा विवक्षायामीशः पचतीति प्रयोगोऽपीष्ट एव ॥ न चेत् कार्यत्वानवच्छिन्नजन्यतानिरूपितत्वमसाधारणत्वं निवेश्यमिति नैयायिकाः । वैयाकरणास्तु “ अनभिहिते कर्तरि ” इत्यनुशासनात्-अचेतनेऽपि कर्तृपदप्रयोगाकियाश्रयत्वमेव कर्तृत्वं । कारककर्मादिपदवत्कधातुरप्यत्र क्रियार्थक एवाश्रयत्वमिहाख्यातार्थः । तथाच यागाद्यसमभिव्याहृताख्यातेन यद्धात्वान्वितयधर्मवत्त्वं बोध्यते तद्धात्वर्थनिरूपिततद्धर्मवत्त्वं तद्धात्वर्थकर्तृत्वं । यथा पचतीत्यादौ पाकानुकूलव्यापारवत्त्वं, जानातीत्यादौ ज्ञानाश्रयत्वं, नश्यतीत्यादौ नाशप्रतियोगित्वं इति । चैत्रेण तंडुलः पच्यते इत्यादौ पाकजन्यफलाश्रयत्ववारणाय यागाद्यसमभिव्याहृतेति । अत्रचैत्रादेः कर्तृत्वं तु पचतीत्याद्याख्यातबोध्यधर्ममादायैवेति बोध्यं । धात्वान्वितद्वितीयाद्यर्थकर्मत्वकरणत्वमादायाख्यातेनेति । जानातीत्याद्याख्यातार्थ आश्रयत्वं न पाककर्तृत्वं । हंतीत्यादौ हिंसाश्रयत्वं न गमनकर्तृत्वमित्येतत्संपत्तये यत्तदिति धात्वर्थविशेषणं । यदि च १ तेन-शक्त्यातक्रियाविषयकतत्तक्रियानिष्ठकार्यत्वावच्छिन्न जन्यतानिरूपितजनकताशालिकृतिनिष्ठाधेयतानिरूपिताधिकरण. ताशालित्वं नाम कर्तृत्वम्.
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy