SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ५ । कारकवादार्थः । रुक्तक्रियाद्वयरूपफलान्वयिनोरजापयसेोमुख्य कर्मत्वम् । तादृशक्रियानुरूपफलान्वितान्वयिनोर्गोग्रामयोगौणकर्मत्वम् उभयत्रापि धात्वर्थान्वितविभत्तयर्थान्वितत्वमस्ति । फल - द्वयस्यापि धात्वर्थतावच्छेदकत्वात् । अत एव कर्मद्वयसाकांक्षफलबोधकधातुत्वं द्विकर्मकत्वं सूपपादं । यत्तु विभा गानुकूलक्रिया दुहेरर्थः, संयोगानुकूलक्रिया नयतेरर्थः । नतु तदुभयानुकूल कर्तृव्यापारः कर्मद्वयस्याप्येकत्र फले अन्वय इति । तन्न । प्रयोज्ययोः कर्मत्वानुपपत्तेः- परसमवेतत्वस्य क्रियायामभावात् । कर्मद्वयस्याप्येकत्र अन्वये च गौणमुख्यव्यवहारो न स्यात् । एतेन विभागाद्यनुकूला कर्तृगता चैटैव दुहादेरर्थः इत्यपास्तम् । फलद्वयाप्रवेशे गौण मुख्यव्यवहारानुपपत्तेः । यद्यपि गामित्यस्यार्थो गोवृत्तित्वं पयस्येवान्वेतीति गौणं कर्म न लक्ष्यं इति । तदपि न । गौः पयो दुह्यते इत्यादौ गोः कर्मत्वस्य दुरुपपादत्वात् । अजां ग्राममित्यादौ ग्रामवृत्तित्वस्य प्रागजायामसत्त्वेनान्वयायोगात् । काशीतः प्रयागे नीयमानामजां काशीं नयतीति प्रयोगापत्तेश्च । तत्र तत्तत्क्रियानुकूलकृतिमत्त्वं तत्तत्क्रियाकर्तृत्वं । काष्ठादौ पाकाव्यनुकूलव्यापारवत्त्वप्रतिसंधानेऽपि कर्तृपदाप्रयोगात्, कृताकृतविभागादिना सिद्धयत्नशक्तिकेन कुधातुना तृर्जतेन सिद्धस्य कर्तृपदस्य यत्नाश्रयबोधकत्वाच्च ॥ अचेतनेऽपि कर्तृपदप्रयोगस्तु गौणः । गुरुतरभारोत्तोलनादिक्रियाविषयकयत्नसत्त्वेऽपि तत्क्रियाया अनिष्पत्तौ तत्क्रियायां कर्तृत्वाव्यवहारात्-विषयत्वं विहायानुकूलत्वमुपात्तं ॥ यदि च मत्तो भूतं न तु W
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy