________________
कारकवादार्थः। बदरादेरपि कुंडाद्याधारतापत्तेः । नच स्वधर्मसंबंधोऽधिकरणत्वं कुंडादिकं च न बदरादिधर्म इति वाच्यम् । स्वधर्मत्वस्य स्वाधेयत्वरूपतया आधेयत्वस्य च स्वनिष्ठाधकरणतानिरूपकत्वेनान्योन्याश्रयासंगात् । नाप्युत्पत्तये स्थितये ज्ञप्तये चापेक्षणीयमधिकरणम् । उत्पत्तयेऽपेक्षणीयं कार्यस्य समवायिकारणं, स्थितये घटादेतलादिज्ञप्तये जात्यादेः समवायिसमवायादेः स्वरूपसंबंधीति वाच्यम् । अपेक्षणीयत्वस्य कारणस्वरूपत्वेनासमयायिकारणादावतिव्याप्तेः । समवायिकारणत्वं घटत्वादिज्ञप्तये घटादौ न संभवति । नापि तद्भिन्नत्वे सति तत्पतनं प्रतिसंयोगवन्मूर्त्तत्वमधिकरणत्वम् । पतनवन्मूर्ताधिकरणत्वस्य ब्रह्मांडादिधारकसंयोगाश्रयेश्वरे मूर्तत्वमुपात्तं । मूर्तमात्रस्य विलक्षणतत्संयोगादिमत्त्वेन कस्यचित्पतनापसिद्धावपि नाव्याप्तिः । गुणादेस्तत्समवायित्वं समवायादेस्तत्स्वरूपसंबंधित्वम् । एवं परंपरेति वाच्यम् ।अननुगमनात् । सप्तम्या नानार्थत्वे चान्याय्यत्वात् । किंतु प्रतियोगित्वादिवदधिकरणत्वमधिकरणमिति प्रतीतिसाक्षिकः स्वरूपसंबंधविशेष चातिरिक्तं अतिरिक्तो वेत्यन्यदेतत् । एवमाधेयत्वमपि । इत्थं च गृहे स्थाल्यामोदनं पचतीत्यादौ पच्यर्थः अधःसंपतनमधिवह्निसंयोगानुकूलकाष्ठवह्नयादेयापार इत्येके । पच्यर्थो विक्लित्त्यवच्छिन्नामितंडुलादिसंयोग एव, पाकजरूपमित्यादिव्यवहारादित्यन्ये। उभयत्रापि गेहादेः साक्षात्तदधिकरणत्वासंभवात् । कर्तृकर्मान्यतरद्वारा क्रियाश्रयत्वरूपाधिकरणत्वं सप्तम्यर्थः । तदाहुः । " कर्तृकर्मव्यवहितं साक्षाद्धारयति क्रियां ॥ उपकुर्वत्कि