________________
कारकवादार्थः।
यासिद्धौ शास्त्रेऽधिकरणं स्मृतं ॥"वस्तुतः परंपरया आश्रयत्वमात्र सप्तम्यर्थः । अतएव प्राङ्गणस्थेन दीर्घदंडादिकाष्ठादिचालनद्वारा गृहमध्ये पाककरणे गृहस्य कर्तृद्वारा क्रियानाश्रयत्वेपि गृहे पचतीति प्रयोगः । वह्निचैत्रादेः साक्षापाकगमनादिक्रियाश्रयत्वेऽपि वह्नौ पचति चैत्रो गच्छतीत्याद्यप्रयोगात्परंपरयेत्युक्तम् । नचैवं क्रियाश्रयत्वस्यैव सप्तम्यर्थे क्रियाप्रयोगेन विना भूतले घट इत्यादिप्रयोगो न स्यादिति वाच्यम् । इष्टत्वात् । न हि क्रियारहितं वाक्यमस्तीति शाब्दिकाः । वस्तुतोधिकरणत्वमात्रमाधेयत्वमा वा सप्तम्यर्थः । क्रियाशक्यव्यर्थत्वात् । नच यक्रियायामन्वेति तस्य तत्कियाकारकत्वव्यवहारः । अत एव भूतले घट इति शून्यवाक्यशाब्दबोध इति नैयायिकाः। अत्र भूतलनिष्ठाधिकरणतानिरूपको घट इत्यन्वयबोधः । निष्ठत्वनिरूपकत्वं च संसर्ग इति प्रांचः। एवं सति निरूपकत्वसंबंधस्य प्रतियोगितानवच्छेदकत्वात् । भूतले न घट इत्यादौ नत्रर्थान्वयासंभवात्। आधेयत्वं सप्तम्यर्थः। तत्र च प्रत्यर्थस्य निरूपकतया प्रथमांतस्याधिकरणतया चान्वये भूतलनिरूपिताधेयत्वाश्रयो घट इत्यन्वयबोधः। निरूपितत्वमाश्रयत्वं संसर्ग इति नव्याः।“चमणि दीपिनं हंती" त्यादौ सप्तम्यर्थी निमित्तत्वम् । तच्चोपदेश्यत्वं । फलत्वेन चेच्छादिविषयत्वरूपं । तत्राचं मशकनिवृत्तौ धूमं करोतीत्यादौ मशकनिवृत्तेः फलत्वात् । “चमणि दीपिनं हंती" त्यादौ चर्मादेः सिद्धतया स्वत्वरूपफलवत्त्वेनैवेच्छाविषयत्वात् । तच्च प्रयोज्यत्वेन धात्वर्थेन्वेति।