________________
कारकवादार्थः। ३३ मशकनिवृत्तिविषयकेच्छाप्रयोज्यधूमकरणाश्रयः चर्मविषयकस्वप्रकारेच्छाप्रयोज्यद्वीपिचर्मकहननानुकूलकतिमानिति वाक्यार्थः । एवं 'सीम्नि पुष्कलको हत' इत्यादावपि पुष्कलको गंधमृग इति कोशात् । सा च "निमित्तात्कर्मयोगे " इत्यनुशासनाद्यत्किंचित्कर्मप्रकारकबोधजनकधातुयोगे प्रयुज्यते । तादृशबोधः, जनकता च सकर्मकस्य धातोः कर्मबोधकपदयोगेन-यथा दीपिनं हंतीत्यादौ । अकर्मकस्य तु कर्मविशिष्टस्यार्थशक्त्या-यथा विद्या रजनीक्षये यदुदेतीत्यादौ । उदेतीत्यस्योदयगिरिशिखरमारोहतीत्यर्थात् । तत्र रजनीक्षयस्य सूर्योदयाजन्यत्वेपि निमित्तत्वं ज्ञानविषयत्वेनोद्देश्यतया लोकानां रजनीक्षयज्ञानार्थमुदेतीत्यर्थम् इत्येके । एतद्द्वीपवृत्तियाबद्रश्मिसंसर्गाभावविशिष्टस्य कालस्य जनितत्वात् । सूर्योदये तद्रश्म्युत्पादेन तत्यागभावनाशे विशिष्टफलनाशात् । रजनीक्षयेच्छाप्रयोज्यत्वं सूर्योदये । क्षये इत्यन्ये । शरदि पुष्पंति सप्तच्छदा इत्यत्रोत्पत्तिरपि सप्तम्यर्थः । शरदुत्पत्तिकपुष्पाश्रयाः समच्छदा इति वाक्यार्थः । नतु शरदुत्पत्तिकपुष्पाश्रये चम्पकादावपि तथा प्रयोगः स्यादिति वाच्यम् । सप्तच्छदस्य पुष्पाश्रयत्वे लब्धे तुल्यवृत्तिवेद्यतया पुष्पेष्वसप्तच्छदवृत्तित्वलाभात्तदवच्छेदेन शरदुत्पत्तिकत्वस्य च व्युत्पत्तिसिद्धत्वात् । चंपकादिपुष्पत्वावच्छेदेन शरदुत्पत्तिकत्वाभावेन तथाप्रयोगाभावात् । धातोरेव सप्तच्छदीयपुष्पत्वेन लक्षणेति केचित् भावे सति सप्तम्याः सामानाधिकरण्यमर्थः । गुणकर्मान्यत्वे सति सत्त्वादित्यतो गुणकर्मान्यत्वसमानाधिकरणसत्त्वबोधात् । तच्च क्वचि