SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ कारकवादार्थः। पुरुषांतरीयविनियोगव्यवहितभिन्नत्वं । तेन शूद्रतः प्रतिग्रहीत्रा विप्रेण दत्तं धनमादातरि शूद्रादादत्त इति न प्रयोगः। इत्थं च विप्रयथेष्टविनियोगाव्यवहितोत्तरधनवृत्तियथेष्टविनियोगफलकस्वीकारवानित्यर्थः । अधर्माज्जुगुप्सत इत्यत्र पंचम्यर्थः कर्मत्वं धातोर्निन्दार्थः । तथा च धर्म निंदतीत्यर्थः । अधर्माद्विरमतीत्यत्र धातोः करणमर्थः पंचम्याः कर्मत्वमर्थः । स च करणेऽकरणे चान्वेति। तथा चाधर्म कृत्वा पुनर्न करोतीत्यर्थः । धर्मालमायतीत्यादौ पंचम्या विषयत्वं धातोरवधानताख्यातस्याश्रयत्वमर्थः । धर्माविषयकावधानभावाश्रय इति वाक्यार्थः । उपाध्यायादतर्धत्ते शिष्य इत्यादौ धातोः स्वविषयकप्रत्यक्षविरोधव्यापारः पंचम्याः संबंधित्वं धात्वर्थतावच्छेदकप्रत्यक्षान्वितमाख्यातस्य कतिरर्थः । तथाचोपाध्यायसंबंधित्वस्वविषयकात्यक्षविरोधिव्यापारानुकूलकतिमानिति वाक्यार्थः । दंडावटः, धूमावह्निमानित्यादौ पंचमी नापादाने । क्रियायोगाभावात् । किंतु जनकत्वज्ञापकत्वरूपहेतुत्वे जन्यत्वव्याप्यत्वहेतुमत्त्वे वा “ हेतौ ” इति सूत्रानुशिष्टा । नचैवं “जनिकर्तुः प्रकृतिः ” इति व्यर्थम् । काष्ठात्पचतीत्यत्रेव दंडाज्जायत इत्यादावप्युत्पत्तिनिरूपिते हेतुत्वार्थकपंचम्याः “हेतौ” इति सूत्रेणैव संभवादिति वाच्यम् । उत्पत्तेः सहेतुत्वेपि साबाधिकत्वव्यवहारादुत्पत्तिरूपधात्वर्थनिरूपितस्वरूपसंबंधस्य हेतुत्वानात्मकतया “हेतौ” इति सूत्रेणैतदर्थकपंचम्या असंभवादिति । अधिकरणं च स्वधर्मसंबंधसंयोमादिरूपसंबंधस्य द्विनिष्ठतया
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy