________________
२२
वैयाकरणभूषणसारे माप स्यादिति चेत् इष्टापत्तः। आसन्नविनाशं कञ्चिदुद्दिश्य किं करोतीति प्रश्नेऽस्ती त्युत्तरस्य सर्वसम्मतत्वात् । इतरत्र तु सुस्थतया निश्चिते किं करोतीति प्रश्नः पाकादिविशेषगोचर एवेत्यवधारणादस्तीत नोत्तरमिीत ॥ १२ ॥
नन्वेवं भावनायाः फलनियतत्वात् फलाश्रयस्यच कर्मत्वात्सर्वेषां क्रियावाचकत्वे सकर्मकतापत्तिरित्यत आह । फलव्यापारयोरेकनिष्ठतायामकर्मकः । धातुस्तयोर्धम्भिभेदे सकर्मक उदाहृतः॥१३॥
(एकनिष्ठतायाम् ) एकमात्रनिष्ठतायाम् भिन्नाधिकरणास्तितायामिति यावत् । तेन गम्यादौ फलस्य कर्तृनिष्ठत्वेऽपि नातिव्याप्तिः । (अकर्मकः) यथा भ्वादिः ( तयोः) फलव्यापारयोः आश्रयभेदे सकर्मक इत्यर्थः उक्तश्च वाक्यपदीये ।
आत्मानमात्मना विभ्रदस्तीत व्यपदिश्यते । अन्तर्भावाच तेनासौ कर्मणा न सकर्मकइति ।
(विभ्रदिति ) तेन स्वधारणानुकूलोव्यापारोऽत्रापि गम्यतइति भावः तेन कर्मणा सकर्मकत्वन्तु न अन्तर्भावात् फलांशेन सामानाधिकरण्यसत्वादित्यर्थः ( आत्मानमिति ) जानाति इच्छतीत्यादौ च द्वावात्मानौ शरीरात्मा अन्तरात्मा च । तत्रान्तरात्मा तत्कर्म करोति येन शरीरात्मा सुखदुःखे अनुभवतीति कर्मवत्कर्मणेति सूत्रीयभाष्योक्तरीत्या भिन्नाधिकरणनिष्ठतामादाय सकर्मकत्वमित्यवधेयम् ॥ १३ ॥ .