SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ धात्वर्थनिर्णयः। २१ भाव्यत्वेन विवक्षिते । (अस्त्येव ) प्रतीयतेएव । अयमर्थः स ततो गतो न वेति प्रश्ने महता यनेनास्तीति प्रयोगे सत्तारूपफलानुकूला भावनाप्रतीयतएव उत्पत्त्यादिबोधने * तु सुतरां "रोहितोलोहितादासीद्धन्धुस्तस्य सुतोऽभवदित्यादि,, दर्शनात् । किञ्च अत्र भावनाविरहे लड़ादिव्यवस्था न स्यात् तस्याएव र्वतमानत्वादिविवक्षायां तद्विधानात् । "क्रियाभेदाय कालस्तु संख्या सर्वस्यभेदिकेति,वाक्यपदीयादिति । नन्वेवमस्तीत्यत्र स्पष्टं कुतोन बुद्धयतइत्यतआह (अन्यवेति ) ( अशेषभावात् ) भावनायाः फलसमानाधिकरणत्वात् । तथा च भावनायाः फलसामानाधिकरण्यं तदस्पष्टत्वे दोषइतिभावः । नन्वेवं किं करोतीति प्रश्ने पचतीत्युत्तरस्येवास्तीत्युत्तर - * ननु स ततो गतो न वेति वाक्याद् गेहाद्यवधिकविभागाऽनुकूलव्यापाराऽऽश्रयत्वतदभावाऽन्यतरस्य जिज्ञास्यत्वमवगम्यते मह ता यत्नेनाऽस्तीति वाक्यात्वस्तापाराऽर्थकत्वाऽभ्युपगमेऽपि चैत्रा दिकर्तृकसत्ताऽनुकूलव्यापार एवेति कथमेतयोः प्रश्नोत्तरत्वं । तथाहि यद्धर्मावच्छिन्ने यद्धाऽवच्छिन्नस्य सम्बन्धो यत्प्रश्नवाक्यात्प्रतीयते तद्धर्माऽवच्छिन्ने जिज्ञासिततद्धर्माऽवच्छिन्नसम्बन्धबोधवाक्यस्योत्तरता । यदाहुः जिज्ञासितपदार्थस्य संसर्गो येन गम्यते तदुत्तरमिति प्रोक्तमन्यदा भासशाब्दितमिति यथा घटत्वाऽवच्छिन्ने जिशासितधर्माऽवच्छिन्नसम्बन्धबोधकस्य कस्माद् घट इति प्रश्नवाक्यस्य घटत्वाऽवच्छिन्ने जिज्ञासितदण्डत्वाऽवच्छिस्य हेतुहेतुमद्भावबोधकं दण्डाद् घट इति वाक्यमुत्तरम् प्रकृते तु गत इति नेति वेत्युत्तरं युज्यते । किंचोक्तप्रश्ने न सत्तासाधकव्यापारस्य जिज्ञास्यत्वाऽनवगमात्कथमेतस्योत्तरत्वम् तथात्वेऽपि पूर्वोत्तरवाक्ये यत्नेनेत्युपादानाद्यनपदोपस्थाप्ययत्ननिष्पाद्यत्वबोधनैवोत्तरत्वसिद्धया न ततोधातोव्यापारार्थकत्वसिद्धिरत आह । उत्पत्त्यादीति ।
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy