SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ धात्वर्थनिर्णयः। नन्वसत्व भूतक्रियाया धात्वर्थत्वे पाक इनाम वत्सलवीपत्तिः। न चेष्टापत्तिः कृदभिहितोभावो द्रव्यवत् + प्रकाशतइति भाष्यविरोधादित्यत आह । आख्यातशब्दे भागाभ्यां साध्यसाधनरूपता। प्रकल्पिती यथाशास्त्रेस घादिष्वपि क्रमः१४॥ (आख्यातशब्दे) पश्यमृगोधावतीत्यादौ । (भागाभ्याम् ) तिङन्ताभ्याम् प्रकृतिप्रत्ययभागाभ्यामिति विवरणकारोक्तमपव्याख्यानम् पचतीत्यत्रापि भागद्वयसत्वात् (साध्यसाधनरूपता) यथाक्रमं ग्राह्या । साध्यत्वं क्रियान्तराकाङ्क्षानुत्थापकरूपवत्वम् । साधनत्वं कारकत्वेनान्वयित्वम् , ( सघादिष्वपीति ) प्रकृत्या साध्यावस्था, प्रत्ययेन साधनावस्था, इयान्विशेषः, घनाद्यपस्थाप्या लिंगसंख्यान्वयिनी कारकत्वान्वायनी च, आख्यातान्तो पात्ता तु नैवम्, तथापि कारकत्वेनान्वयित्वमात्रेण दृष्टान्तदा - "न्तिकतेत्यवधयम्, नच घान्ते धातुना तथाभिधाने मानाभावः, (ओदनस्य पाकइति कर्मषष्ठया मानत्वात्, नचाध्याहृततिङन्तक्रियान्वयात् षष्ठी "कर्तृकर्मणोः कृतीत" कृदन्तेन योगएव * क्रियाऽन्तराऽऽकांक्षाऽनुत्थापकताऽवच्छेदकधर्माऽऽक्रान्ताया इत्यर्थः। ___+ द्रव्येण नामार्थेन तुल्यं प्रकाशते भासत इत्यर्थः। द्रव्यधर्माणि लिंगसंख्याकारकत्वानि गृह्णातीति यावत् । यद्वा । द्रव्यं क्रियाकांक्षोस्थापकतावच्छेदकरूपसिद्धत्ववत् तेन तुल्यं प्रकाशते इत्यर्थः सिद्धत्वेन भासत इति यावत् । तथा च तादृशभाष्येणाऽऽपाद्यव्यतिरेकनिर्णये तद्धेतुभूतप्रामाण्योपगमादिष्टापत्तेरसुकरत्वादिति भावः ।
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy