SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ स्फोटनिरूपणम् । इयं सा मोक्षमाणानामजिह्मा राजपद्धतिः । अत्रातीतविपर्यासः केवलामनुपश्यतीति । न चालीकया प्रकृतिप्रत्ययकल्पनया कथं वास्तवस्फोटवोधः तस्या अलीकत्वासिद्धेवेक्ष्यमाणत्वात् । एवं रेखागवयन्याय आदिना गृह्यते ॥ ६७ ॥ ननु स्फोटस्य वर्णजातीनाञ्च नित्यतया ककार उत्पन्नइति न स्यात् । वायुसंयोगनिष्टजातेः स्फोटे भाने कादिमतीतीनांभ्रमत्वापत्तश्चेत्यत आह ।। कल्पितानामुपाधित्वं स्वीकृतं हि परैरपि। स्वरदैाद्यपि ह्यन्ये वर्णेभ्योऽन्यस्यमन्वते६८ ___ स्वीकारस्थलमाह स्वरदैाद्यपीति । आदिनोत्पत्तिवि नाशसंग्रहः । उदात्तत्वादि न वर्णानष्ठम् तस्यैकत्वात् नित्यत्वाच तच्च स एवायमिति प्रत्यभिज्ञानात् न च गत्वावच्छिनप्रतियोगिताकभेदाभावस्तद्विषयः व्यत्त्यंशाभेदस्यापि भास मानस्य विना वाधकं त्यागायोगात् । नचोत्पत्तिप्रतीतिर्वाधिका प्रागसत्त्वे सत्वरूपाया उत्पत्तेर्वर्णेष्वनुभवविरुद्धत्वात् । अतएव वर्णमुच्चारयतीत प्रत्ययो न तूत्पादयतीति प्रत्ययो व्यवहारश्च । उच्चरितत्वञ्च ताल्वोष्ठसंयोगादिजन्याभिव्यक्ति विशिष्टत्वम् । किश्च व्यञ्जकध्वनिनिष्ठोत्पत्त्यादेः परम्परया वर्णनिष्ठत्वविषयत्वेना ऽप्युपपत्तेने सातिरिक्तवर्णसाधिका । परम्परया वर्णनिष्ठत्वाभ्युपगमाञ्च न भ्रमत्वम् । साक्षात्सम्बन्धांशे भ्रमइत्यवशिष्यते । तदापि सो ऽयमित्यत्र व्यक्त्यभेदांशे तव भ्रमत्ववत्तुल्यम् । परन्तु ममातिरिक्तवर्णतत्प्रागभावध्वंसकल्पना नेति लाघवमतिरिच्यते । न च वर्णस्थले ध्वानसत्त्वे मानाभावः तदुत्पादकशङ्खाद्यभावेन तदसम्भवश्चेति
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy