________________
१००
वैयाकरणभूषणसारे ।
नन्वेवं शास्त्राप्रामाण्यप्रसङ्गः पदस्याखण्डत्वात् । शास्त्रस्य च प्रकृतिप्रत्ययाभ्यां पदव्युत्पादनमात्रार्थत्वादित्याशङ्कां समाधन्ते । पञ्चकोषादिवत्तस्मात् कल्पनैषा समाश्रिता । उपेयप्रतिपत्त्यर्था, उपाया अव्यवस्थिताः ६७
उपयप्रतिपत्यर्था इत्यन्तेनान्वयः । अयं भावः यथा भृगुवल्ल्यां, भृगुर्वै वारुणिर्वरुणं ब्रह्म पृष्टवान् स उवाच अन्नमिति तस्योत्पत्यादिकं बुद्ध्वा पृष्ठे प्राणमनोविज्ञानानन्दात्मकपञ्चकोशोत्तरं ब्रह्म पुच्छं प्रतिष्ठेति ज्ञेयं ब्रह्म प्रतिपादितं तत्र कोषपञ्चकन्युत्पादनं शुद्धब्रह्मबोधनाय । यथा वा आनन्दवल्लीस्थपञ्चकोषव्युत्पादनं वास्तवशुद्धब्रह्मबोधनाय । एवं प्रकृति प्रत्ययादिव्युत्पादनं वास्तवस्फोटव्युत्पादनायैवेति । ननु प्रत्यक्षस्य स्फोटस्य श्रवणादितोऽपि बोधसम्भवान्न शास्त्र तदुपाय इत्यत आह उपाया इति । उपायस्योपायान्तरादूषकत्वात् । तथा च व्याकरणाभ्यासजन्यज्ञाने वैजात्यं कल्प्यते मन्त्रजन्यमिवार्थस्मरणे वेदान्तजन्यमिव ब्रह्मज्ञाने तस्य च ज्ञानस्य यज्ञादीनमन्तः करणशुद्धाविव शरीरादिशुद्धावुपयोगः साक्षात्परम्परया वा स्वर्गमोक्षादिहेतुत्वश्च ।
तदुक्तं वाक्यपदीये |
तद्वारमपवर्गस्य वाङ्मलानां चिकित्सितम् । पवित्रं सर्व्वविद्यानामधिविधं प्रकाशते । इदमाद्यं पदस्थाने सिद्धिसोपानपर्वणाम् ।