SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ स्फोटनिरूपणम् । · विकल्पग्रासाच्च । ननु त्वन्मतेऽप्येष दोषः तत्तद्वर्णोत्पादकत्वेनाभिमतवायुसंयोगानां प्रत्येकं व्यञ्जकत्वं समुदितानां वेति विकल्पस्य सद्भावादिति चेत्, उच्यते प्रत्येकमेव संयोगा अभिव्यञ्जकाः परन्तु केचित् गत्वेन केचिदौत्वेन केचिद्विसर्गत्वेनेत्यनेकैः प्रकारैः । अतएव वर्णानां तदतिरेकास्वीकारोऽप्युपपद्यते । एवञ्चाव्यवहितोत्तरत्वसम्बन्धेन घवत्त्वं टकारे गृह्यते, एतादृशपदज्ञानकारणताया अविवादात् परं त्वव्यवहितोत्तरत्वं स्वज्ञानाधिकरणक्षणोत्पत्तिकज्ञानविषयत्वं वाच्यम् । अतएव घज्ञानानन्तरटज्ञानविषयत्वरूपानुपूर्वीत्यादि नैयायिकवृद्धानां व्यवहारः । एवञ्च न कश्चिदोषः । एतेन पर्य्यायस्थलेष्वेकएव स्फोटोनाना वा । नायः घटपदे एव गृहीतशक्तिकस्य कलशादेर्बोधप्रसङ्गात् । नच तत्पर्य्यायाभिव्यक्ते शक्तिग्रहस्तत्पर्य्यायश्रवणेऽर्थधीहेतुारीति वाच्यम् एवं सति प्रतिपर्य्यायं शक्तियहावश्यम्भावेन तत्तत्पर्य्ययगतशक्तिग्रहहेतुताया उचितत्वात् । तथा सतेि शक्तिग्रहत्वेनैव हेतुत्वे लाघवात् । अन्यथा तत्पर्य्यायाभिव्यक्तगतशक्तिमहत्वेन तत्त्वे गौरवात् । न द्वितीयः अनन्तपदानां तेषां शक्तिश्चापेक्ष्य क्लृप्तवर्णेष्वेव शक्तिकल्पनस्य लघुत्वादीत परिमलोक्तमपास्तम् । पर्य्यायेष्वनेकशक्ति स्वीकारस्य सर्व्वसिद्धत्वात् तदवच्छेदकानुपूर्व्याः प्रागुपपादनादिति दिक् । शब्दकौस्तुभे तु वर्णमालायां पदमिति प्रतीतेर्वर्णातिरिक्तएव स्फोटः अन्यथा कपालातिरिक्तघटाद्यसिद्धिप्रसङ्गश्चेति प्रतिपादितम् ॥ ६६ ॥ ९९
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy