________________
९८ . वैयाकरणभूषणसारे । दृष्टान्तव्याजेनाह वर्णेष्विति । एकारौकारऋकारादिवर्णेषु अवयवाः प्रतीयमाना अपि यथा नेत्यर्थः । कचित् इवेत्येव पाठः । एवं वाक्येऽप्याह, वाक्यादिति, पदानामपि वाक्याद्विवेकोभेदोनास्तीत्यर्थः । अयं भावः । वाक्यं पदं चाखण्डमेव न तु वर्णसमूहः, अनन्तवर्णकल्पने मानाभावात् । तत्तद्धोत्पादकत्वेनाभिमतवायुसंयोगनिष्ठं तत्तद्वर्णजनकताया व्यञ्जकताया वावच्छेदकं वैजात्यमादायैव ककारो गकार इत्यादिप्रतीतिवैलक्षण्यसम्भवात् । स्पष्टं हि भामत्यां " तारत्वादि, वायु निष्ठं वर्णेष्वाराप्यत" इत्युक्तं देवताधिकरणे । नचैवं वायुसंयोगएव वाचकोऽपि किं न ? स्यादिति वाच्यम् प्रत्यक्षोपलभ्यमानककारादेरेव वाचकत्वस्यानुभवसिद्धत्वात् । तथा च वाचकत्वानुपपत्त्या तदेवेदं पदं तदेवेदं वाक्यं सोऽयंगकारइति प्रतीत्या च स्फोटोऽखण्डः सिध्यति ॥ एतेन गौरित्यादौ गकारौकारविसगांदिव्यतिरेकेण स्फोटाननुभवात् श्रूयमाणवर्णानामेव वाचकत्वमस्तीत्यपास्तम् तेषां स्फोटातिरिक्तत्वाभावात् । यत्त वर्णानां प्रत्येकं वाचकत्वे प्रत्येकादर्थबोधापत्तिः । समूदायस्य तु क्रमवतामाशुतरोत्पन्नानां तथैवाभिव्यक्तानां वा ज्ञानमसम्भाव्यमेव । पूर्वपूर्ववर्णानुभवसंस्कारसहकारेणैकदा समूहालम्बनरूपसकलज्ञानसम्भवस्तु सरोरसः जराराजनदीदीनादिसाधारणइत्यतिप्रसङ्गइति स्फोट एवाखण्डो नादाभिव्यङ्गयो वाचकइति कैयटः । तत्तच्छम् पदज्ञानसम्भवस्योपपादितत्वात् । वर्णानां प्रत्येकं व्यञ्जकत्वं, समुदितानां वेत्यादि