________________
१०२
वैयाकरणभूषणसार |
वाच्यम् ककाराद्युच्चारणस्थले तत्तत्स्थानस्य जिह्वाया ईषदन्तरपाते वर्णानुत्पत्तेश्च दर्शनाज्जिह्वाभिघातजवायुकण्ठसंयोगादे र्ध्वनिजनकत्वकल्पनात् तस्य च वर्णोत्पत्तिस्थलेऽपि सत्वात् प्रतिबध्यमतिबन्धक भावकल्पना निष्प्रामाणिकी स्यादिति गौरवं विपरीतम् । एवं परस्पर विरोधादुदात्तत्वानुदात्तत्वस्वत्व दीर्घत्वादिकमपि न वर्णनिष्टं युक्तमिति तेषामभिप्रायः । एवञ्चोत्पत्त्यादिप्रतीतीनां तत्प्रमात्वस्य च निर्वाहः परेषामपि समानइति प्रतिवन्द्येवेात्तरमिति भावः ॥ ६७ ॥ इत्थं पञ्चव्यक्तिस्फोटाः । जातिस्फोटमाह ।
शक्यत्वश्व शक्तत्वे जातेर्लाघवमोक्ष्यताम् । औपाधिकोवा भेदोऽस्तु वर्णानां तारमन्दवत् ६९
अयं भावः वर्णास्तावदावश्यकाः उक्तरीत्या च सोऽयं गकार इतिवद् योऽयं गकारः श्रुतः सोऽयं हकार इत्यपि - स्यात् स्फोटस्यैकत्वात् गकारोयं न हकार इत्यनापत्तेश्च । किञ्च स्फोटे गत्वाद्यभ्युपेयं न वा । आद्ये तदेव गकारोऽस्तु वर्णनित्यतावादिभिरतिरिक्तगत्वानङ्गीकारात् । तथा चातिरिक्त स्फोट कल्पन एव गौरवम् अन्त्ये गकारादिप्रतीतिविरोधः । वायुसंयोगवृत्ति ध्वनिवृत्ति वा वैजात्यमारोप्य तथा प्रत्यय इति चेन्न प्रतीतेर्विना वाधकं भ्रमत्वायोगात् अस्तु वा वायुसंयोग एव गकारोऽपि तस्यातीन्द्रियत्वं दोष इति चेद्धर्मवदुपपत्तेरिति कृतं स्फोटेन । तस्मात्सन्त्येव वर्णाः परन्तु न वाचकाः गौरवात् आकृत्यधिकरणन्यायेन जातेरेव वाच्यत्ववद्वाचकत्वस्यापि युक्तत्वाच्च इदं हरिपदमित्यनुगतमतीत्या हर्य्युपस्थितित्वावच्छेदेन हरिपदज्ञानत्वेन हेतुत्वात्तदवच्छेदकतया च जातिविशेषस्यावश्यकल्प्यत्वात् न च वर्णानुपूर्यै