SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ स्फोटनिरूपणम् । १०३ व प्रतीत्यवच्छेदकत्वयोर्निर्वाहः घटघटत्वादेरपि संयोगविशिष्टमृदा आकारादिभिश्चान्यथासिद्ध्यापत्तेः तस्मात्सा जातिरेव वाचिका तादात्म्येनावच्छेदिका चेति नतु सरोरस इत्यादौ जात्योः सत्त्वादर्थभेदबोधोन स्यादित्यत आह औपाधिको वेति वा स्वर्थे उपाधिरानुपूर्वी सैव जातिविशेषाभिव्यञ्जिक्रेति भेदः कारणीभूतज्ञानस्येति नातिप्रसङ्गाइति भावः उपाधिप्रयुक्तज्ञानवैलक्षण्ये दृष्टान्तमाह वर्णानामिति ॥ ६८ ॥ ननु जातेः प्रत्येकं वर्णेष्वपि सच्चात् प्रत्येकादर्थबोधः स्यादित्यत आह । अनेकव्यक्तयभिव्यङ्ग्याजातिः स्फोटइतिस्मृता कैश्चिव्यक्तय एवास्या ध्वनित्वेन प्रकल्पिताः ७० अनेकाभिर्वर्णव्यक्तिभिरभिव्यङ्गैव जातिः स्फोटइति स्मृता योगार्थतया बोधिकेति यावत् । एतेन स्फोटस्य नित्यत्वात्सवर्थबोधापत्तिरित्यपास्तम् । अयं भावः यद्यपि वर्णस्फोटपक्ष कथितदोषोऽस्ति तथापि पदवाक्यपक्षयोर्न, तत्र तस्या व्यासज्यवृत्तित्वस्य धार्मग्राहकमानासिद्धत्वादिति कैश्चिद्व्यक्तयो ध्वनय एव ध्वनिवर्णयोर्भेदाभावादित्यभ्युपेयन्ते इति शेषार्थः । उक्तं हि काव्यप्रकाशे “ बुधैर्वैयाकरणैः प्रधानीभूतस्फोटरूपव्यङ्ग्यव्यञ्जकस्य शब्दस्य ध्वनिरिति ब्यवहारः कृत " इति । ६९ । ननु का सा जातिस्तत्राह । सत्यासत्यौ तु यौ भागौ प्रतिभावं व्यवस्थितौ । सत्यं यत्तत्र सा जातिरसत्या व्यक्तयोमताः ७१ ( प्रतिभावम् ) प्रतिपदार्थम् । सत्यांशोजाति असत्या व्यक्तयः। तत्तद्व्यक्तिविशिष्टं ब्रह्मव जातिरिति भावः । उक्तञ्च कैयटेन “असत्योपाध्यवच्छिन्नं ब्रह्मतत्त्वं द्रव्यशब्दवाच्यमित्यर्थ
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy