________________
१०४ वैयाकरणभूषणसारे। इति"। "ब्रह्मतत्त्वमेव शब्दस्वरूपतया भातीति" च । कथं तर्हि ब्रह्मदर्शने च गोत्वादिजातेरप्यसत्त्वादनित्यत्वम् , आत्मैवेद सर्वमिति श्रुतिवचनादिति कैयटः सङ्गच्छताम् ? अविद्या आविधिको धर्मविशेषोवेति पक्षान्तरमादायोत द्रष्टव्यम् ॥ ७० ॥
तमेव सत्यांशं स्पष्टयति । इत्थं निष्कृष्यमाणं यच्छब्दतत्त्वनिरञ्जनम्। ब्रह्मवेत्यक्षरं प्राहुस्तस्मै पूर्णात्मने नमः।७२।
अयं भावः "नामरूपे व्याकरवाणीति" भूतिसिद्धाद्वयी सृष्टिः तत्र रूपस्येव नाम्नोऽपि तदेव तत्त्वम् । प्रक्रियांशस्त्वविद्याविजृम्भणमात्रम् । उक्तश्च वाक्यपदीये। . __शास्त्रेषु प्रक्रिया दैविद्यैवोपवर्ण्यते ।
समारम्भस्तु भावानामनादि ब्रह्म शाश्वतमिति । ब्रह्मैवेत्यनेन " अायं पुरुषः स्वयं ज्योतिः" " तमेव भान्तमनुभाति सर्च" " तस्य भासा सर्वमिदं विभातीति" श्रुतिसिद्धं स्वपरप्रकाशत्वं सूचयति । स्फुटत्यर्थोऽस्मादिति स्फोट इति यौगिकस्फोटशब्दाभिधेयत्वं सूचयति । निर्विघ्नप्र चयायान्ते मङ्गलं स्तुतिरूपमाह । पूर्णात्मने इत्यादिना ॥७१॥
अशेषफलदातारमपि सर्वेश्वरं गुरुम् ।
श्रीमद्भषणसारेण भूषये शेषभूषणम्॥ इति श्रीमद्रगाोजिभट्टात्मजकौण्डभट्टकृते वैयाकरणभूषणसारे
स्फोटवादः समाप्तश्चायं ग्रन्थः। तूर्याङ्गनवचन्द्रेऽब्दे नवम्यां श्रावणेऽसिते । काशीयन्त्रालये काश्यां कवौ पूर्ण स्सुमुद्रणात् ॥ त्रिपाठिलक्ष्मणेनायं परिशोध्य प्रकाशितः । यद्यत्र दृष्टिदोषेण दोषश्चेद्भष्यताम्बुधैः ।।