SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ कारकवादार्थः। किंतु “भीत्रार्थानां भयहेतुः” इति सूत्रेणानुसृष्टहेतुत्वाथिका । धातोश्च यथायथे भयं भयाभावश्चार्थः । पंचम्यर्थहेतुत्वं धात्वर्थभये धात्वर्थतावच्छेदके च भयेऽन्वेति । आश्रयत्वं व्यापारश्च यथायथमाख्यातार्थः । तथाच व्याघहेतुकायाश्रय इत्याद्यस्य शत्रुहेतुकायाभावानुकूलव्यापारवानित्यंतस्यार्थः । इत्थंच पंचम्यैवोपपत्तौ पृथक् सूत्रं प्रपश्चार्थमिति बोध्यम् । एवं कूपादन्धं वारयतीत्यादौ पंचम्या अवधित्वमधःसंयोगानुकूलक्रियारूपं पतनं द्वितीयाया धात्वर्थंकदेशप्रतिबंधान्वितवृत्तित्वम् । धातोः प्रतिबंधानुकूलव्यापारोऽर्थः । तथा चांधवृत्तिकूपावधिकपतनप्रतिबंधानुकूलव्यापारानुकूलकतिमानिति वाक्यार्थः संपद्यते । सच न युक्तः । यत्र हि त्रिक्षणावस्थायिनि खण्डकूपे परमाण्वादेरधःसंयोगो मानाभावेनासिद्धः तत्रासंभवात् । अत एव द्वितीयायाः पतनं पञ्चम्या धात्वर्थतावच्छेदकाभावान्वयिवृत्तित्वम् । धातोरभावानुकूलव्यापारः । तथा च कूपवृत्तिअंधपतनाभावानुकूलव्यापारविषयकयत्नवानिति वाक्यार्थोऽपि न युक्तः । यदंधस्य पतनमप्रसिद्धम् । तत्रासंभवात् । किंत धातोरावानुकूलव्यापारः पंचम्या वृत्तित्वम् । द्वितीयाप्रतियोगित्वमनुयोगित्वं । धात्वर्थतावच्छेदकीताभावान्वितमर्थः अभावश्च कूपादिसमभिव्याहारात पतनादिना तज्जन्याधःसंयोगादिना वा संबंधेन बोध्यः । तथाच पतनादिसंबंधेन कूपवृत्त्यंधप्रतियोगिकाभावानुकूलव्यापारविषयकयत्नवानिति वाक्यार्थः । एवं एतस्मात्सविषादनान्मित्रं
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy