SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ २४ कारकवादार्थः । " !! तु ग्रामपदोत्तरद्वितीयार्थः क्रियायामजापदोत्तर द्वितीयार्थे - ऽन्वेति । तथैव व्युत्पत्तेः । तादृशफलभागित्वेन ग्रामादेरनुद्देश्यत्वान्न संप्रदानता ॥ तादृशफलभागित्वेनोद्देश्यत्वे तु उद्देश्यत्वविवक्षायां ग्रामायाजां नयतीति भवत्येवेति दिक् ॥ परेतु त्यज्यमानद्रव्यस्वत्वभागित्वेनोद्देश्यत्वं संप्रदानत्वं । त्यागोऽत्र विलक्षणो ग्राह्यः । तेन विक्रयादौ क्रेत्रादेर्न संप्रदानत्वं, कर्मणा दानकर्मणा यमभिप्रेति तत्संप्रदानमिति कर्मणे' त्यादिसूत्रार्थः । अत एव संप्रदीयतेऽस्मै इति संप्रदानसंज्ञान्वर्थैव ॥ श्राद्धादौ पित्रादेः स्वत्वभागित्वे नोदेश्यत्वम् । किंतु प्रीतिभागितयेति संप्रदानत्वाभावेन संप्रदान चतुर्थ्य संभवात् । नमः स्वस्ती" त्यादिना सूत्रांतरेण तत्र चतुर्थी । एवं वृक्षायोदकमासिंचतीत्यादौ संप्रदानप्रयोगो गौणः चतुर्थीमात्यर्थः । अत एव शत्रवेऽखं मुंचति, मित्राय दूतं प्रेषयतीत्यादौ धात्वर्थतावच्छेदकफलभागित्वेनोद्देश्यत्वाभावेऽपि चतुर्थी | विभागानुकूलक्रियानुकूलव्यापारो मोचनम् । संयोगानुकूलक्रियानुकूलव्यापारः प्रेषणमिति धात्वर्थतावच्छेदकरूपफलजन्यफलशालित्वेन शत्रुमित्र योरनुद्देश्यत्वम् । इत्थं चोदकादिजन्यफलपल्लवाद्यजन्यदुःखादिदूतजन्यवार्ताज्ञानादिफलशालि - त्वेनोद्देश्यत्वमेव वृक्षायेत्यादिचतुर्थीत्र्यार्थः । नच गुरुप्रीत्युद्देश्येन गुरुपुत्राय दत्तायां गवि गुरवे गां ददातीति स्यात्, तथा विवक्षायामिष्टत्वात् । अत एव रजकसंबंधिनस्तस्य तात्पर्यविषयत्वे रजकस्य वस्त्रं ददातीति प्रयोगः । वख़जन्यफलभागित्वेनोद्देश्यत्वस्य तत्त्वे तु रजकाय वस्त्रं द
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy